वैशम्पायनः
अथ दीर्घेण कालेन देवयानी नृपोत्तम ।
वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी ॥
तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा ।
तमेव देशं सम्प्राप्ता यथाकामं चचार सा ॥
ताभिस्सखीभिस्सहितास् सर्वाभिर्मुदिता भृशम् ।
क्रीडित्वोपरतास्सर्वाः पिबन्त्यो मधु माध्विकम् ॥
खादन्त्यो विविधान् भक्ष्यान् विदंशन्त्यः फलानि च ॥
पुनश्च नाहुषो राजा मृगलिप्सुः पिपासया ।
तमेव देशं सम्प्राप्तो जलार्थी श्रमकर्शितः ॥
ददर्श देवयानीं च शर्मिष्ठां ताश्च योषितः ।
पिबन्तीर्वलमानाश्च सर्वाभरणभूषिताः ॥
आसने प्रवरे दिव्ये सर्वाभरणभूषिते ।
उपविष्टां सुकेशान्तां देवयानीं शुचिस्मिताम् ॥
रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम् ।
आसनाच्च ततः किञ्चिद् विहीनां हेमभूषिताम् ॥
असुरेन्द्रसुतां चापि निषण्णां चारुहासिनीम् ।
ददर्श पादौ विप्रायास् संवहन्तीमनिन्दिताम् ॥
गायन्त्यश्चैव नृत्यन्त्यो वादयन्त्यश्च भारत ।
दृष्ट्वा ययातिं ललना लज्जयाऽवनता स्थिताः ॥
ययातिः-
युवां कन्यासहस्रेण द्वे कन्ये परिवारिते ।
गोत्रे च नामधेये च श्रोतुमिच्छामि वामहम् ॥
देवयानी-
आख्यास्याम्यहमादत्स्व वचनं मे नरोत्तम ।
शुक्रो नामासुरगुरुस् सुतां जानीहि तस्य माम् ॥
इयं च मे सखी दासी यत्राहं तत्र भामिनी ।
दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः ॥
ययातिः-
कथं नु ते सखी दासी कन्येयं वरवर्णिनी ।
नैव देवी न गन्धर्वी न यक्षी न च किन्नरी ॥
नैवंरूपा मया नारी दृष्टपूर्वा महीतले ।
श्रीरिवायतपद्माक्षी सर्वलक्षणशोभिता ॥
असुरेन्द्रसुता कन्या सर्वालङ्कारभूषिता ।
दैवेन विहता सुभ्रूर् उताहो तपसाऽपि वा ॥
अन्यथैषाऽनवद्याङ्गी दासी ते न भविष्यति ॥
देवयानी-
सर्व एव नरव्याघ्र विधानमनुवर्तते ।
विधानविहितं मत्वा मा विचारय सुव्रत ॥
राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च ।
को नाम त्वं कुतश्चासि कस्य पुत्रश्च शंस मे ॥
ययातिः-
ब्रह्मचर्येण सर्वान् वै साङ्गान् वेदान् विदाम्यहम् ।
राजाऽहं राजपुत्रश्च ययातिरिति विश्रुतः ॥
देवयानी-
केनास्यर्थेन नृपते इमं देशमुपागतः ।
जिघृक्षुर्वा रिपुं किञ्चिद् अथवा मृगलिप्सया ॥
ययातिः-
मृगलिप्सुरहं भद्रे पानीयार्थमिहागतः ।
बहुधाऽप्यनुयुक्तोऽस्मि तन्माऽनुज्ञातुमर्हसि ॥
देवयानी-
अहं दासीसहस्रेण दास्या शर्मिष्ठया सह ।
त्वदधीनाऽस्मि भद्रं ते साधु भर्ता च मे भव ॥
वैशम्पायनः
असुरेन्द्रसुतामीक्ष्य तस्यां सक्तेन चेतसा ।
शर्मिष्ठा महिषी मह्यम् इति मत्वा वचोऽब्रवीत् ॥
ययातिः-
विद्ध्यनागसि भद्रं ते न त्वमर्हसि भामिनि ।
अदेवार्हा हि राजानो देवयानि पितुस्तव ॥
परभार्या स्वसा श्रेष्ठा सगोत्रा पतिता स्नुषा ।
अवराभिगमाऽस्वस्था अकल्याः कीर्तिता बुधैः ॥
देवयानी-
संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं च ब्रह्मसंहितम् ।
तयोरत्यन्तता नास्ति एकान्ततरमौ हि तौ ।
ऋषिस्त्वमृषिपुत्रश्च नाहुषाङ्ग वहस्व माम् ॥
ययातिः-
एकत्रैवोद्भवा वर्णाश् चत्वारोऽपि वराङ्गने ।
पृथग्धर्माः पृथक्शौचास् तेषां च ब्राह्मणो वरः ॥
देवयानी-
पाणिर्मे नाहुषाऽयं वै न पुम्भिस्सेवितः पुरा ।
त्वमेव चाग्रहीरग्रे वृणोमि त्वामहं ततः ॥
कथं नु मे मनस्विन्याः पाणिमन्यः पुमान् स्पृशेत् ।
गृहीतमृषिपुत्रेण स्वयं पूर्वं नृप त्वया ॥
ययातिः-
क्रुद्धादाशीविषाच्छस्त्राज् ज्वलनात्सर्वतोमुखात् ।
दुराधर्षतरो विप्रः पुरुषेण विपक्षिता ॥
देवयानी-
कथमाशीविषाच्छस्त्राज् ज्वलनात्सर्वतोमुखात् ।
दुराधर्षतरो विप्र इत्यात्थ भरतर्षभ ॥
ययातिः-
एकमाशीविषो हन्ति शस्त्रमेकं इनिष्यति ।
सराष्ट्रं सबलं हन्ति विप्रः कोपेन संयुतः ॥
दुराधर्षतरो विप्रस् तस्माद्भीरु मतो मम ॥
क्वचिदांशीविषो हन्याच् छस्त्रमन्यन्निकृन्तति ।
यदृच्छयाऽग्निर्दहति मनसा हन्ति वै द्विजः ।
अतो न दत्तां पित्रा त्वां भद्रे न विरयाम्यहम् ॥
देवयानी-
दत्तां वहस्व राजेन्द्र पित्रा राजन् वृतो मया ।
आयचतो भयं नास्ति दत्तां च प्रतिगृह्णतः ॥
तिष्ठ राजन् मुहूर्तं तु प्रेषयिष्याम्यहं पितुः ।
गच्छ त्वं धात्रिके शीघ्रं ब्रह्मकल्पमिहानय ॥
स्वयंवरे वृतं शीघ्रं निवेदय च नाहुषम् ॥
वैशम्पायनः
त्वरितं देवयान्या तु प्रेषितं पितुरात्मनः ।
श्रुत्वैव च वचस्तत्र दर्शयामास भार्गवः ॥
दृष्ट्वैव चागतं विप्रं ययातिः पृथिवीपतिः ।
ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतस्स्थितः ॥
देवयानी-
राजाऽयं नाहुषस्तात दुर्गमे पाणिमस्पृशत् ।
नान्यपूर्वगृहीतं मे तेनाहमभया कृता ।
नमस्ते देहि मामस्मै लोके नान्यं पतिं वृणे ॥
शुक्रः-
अन्यो धर्मः प्रियस्त्वन्यो वृतस्ते नाहुषः पतिः ।
वृतो राजन् वृणीष्वेमां महिषीं नहुषात्मज ॥
स्वयं ग्रहे महान्दोषो ब्राह्मण्या वर्णसङ्करात् ।
गृहाणेमां मया दत्तां महिषीं नहुषात्मज ॥
ययातिः-
अधर्मो न स्पृशेदेष महान् मामिह भार्गव ।
वर्णसङ्करजो ब्रह्मन् भयादेतद्ब्रवीम्यहम् ॥
शुक्रः-
अधर्मात्त्वां विमुञ्चामि वरय त्वं यथेप्सितम् ।
तस्मात्तु पापान्माभैषीर् अहं पापं नुदामि ते ॥
वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम् ।
अनया सह सम्प्रीतिम् अतुलां त्वमवाप्स्यसि ॥
इयं कुमारी दुहिता शर्मिष्ठा वृषपर्वणः ।
तां पूजयेथा मा चैनां शयने वै समाह्वय ॥
रहस्येनां समाहूय न वदेर्न च संस्पृशेः ।
वहस्व भार्यां भद्रं ते यथा काममवाप्स्यसि ॥
वैशम्पायनः-
तथेत्युक्त्वा ययातिस्तु तत्सर्वमकरोत्प्रभुः ।
विवाहं विधिवत्कृत्वा प्रदक्षिणमथाकरोत् ॥
ययातिस्स्वपुरं यायाद् अनिज्ञातो महात्मना ॥ ॥