वैशम्पायनः-
ततः काव्यो गुरुश्रेष्ठस् समन्युरुपगम्य च ।
प्रविश्यन्तः पुरं शुक्रो वन्दितो वृषपर्वणा ।
वृषपर्वाणमासीनम् इत्युवाचाविचारयन् ॥
अधर्मश्चरितो राजन् सद्यः फलति गौरिव ।
पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति ॥
फलतीवेत्येब्रवं पापं गुरुभुक्तमिवोदरे ।
अधीयानं हितं राजन् क्षमावन्तं जितेन्द्रियम् ॥
यदघातयथा विप्रं कचमाङ्गिरसं तदा ।
अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहोषितम् ॥
शर्मिष्ठया देवयानी क्रूरमुक्ता बहु प्रभो ।
विप्रकृत्य च संरम्भात् कूपे क्षिप्ता मनस्विनी ॥
सा न कल्पेत वासाय तया वा रहितः कथम् ।
वसेयमिह तस्मात्ते त्यजामि विषयं नृप ॥
वृषपर्वन्निबोधेदं त्यक्ष्यामि त्वां सबान्धवम् ।
मा शोचीर्वृषपर्वंस्त्वं मा रुधस्त्वं विशांपते ॥
स्थातुं ते विषये राजन् न शक्ष्यामि तया विना ।
तस्या गतिर्गतिर्मह्यं प्रियमस्याः प्रियं मम ॥
वृषपर्वा-
यदि ब्रह्मन् घातयामि यदि वा क्रोशयाम्यहम् ।
शर्मिष्ठया देवयानीं तेन गच्छाम्यसद्गतिम् ॥
शुक्रः-
अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम् ।
तथेममात्मनो दोषं मयि कर्तुं चिकीर्षसि ॥
वृषपर्वा-
नाधर्मं न मृषोक्तं वा त्वयि जानामि भार्गव ।
त्वयि धर्मं च सत्यं च विजानामि प्रसीद मे ॥
यद्यस्मानपहाय त्वम् इतो गच्छसि भार्गव ।
समुद्रं सम्प्रवेक्ष्यामि पूर्वं मद्बान्धवैस्सह ॥
पातालमथवा चाग्निं नान्यदस्ति परायणम् ।
यद्येव देवान् गच्छेस्त्वं मां च त्यक्त्वा ग्रहाधिप ॥
सर्वत्यागं ततः कृत्वा प्रविशामि हुताशनम् ॥
शुक्रः-
समुद्रं प्रविश त्वं वा अग्निं प्रज्वलितं तथा ।
दुहितुर्नाप्रियं सोढुं शक्तोऽहं दयिता हि मे ॥
प्रसाद्यतां देवयानी जीवितं यत्र मे स्थितम् ।
प्रसन्ना देवयानी चेत् प्रियं नान्यतरं मम ।
योगक्षेमकरस्तेऽहम् इन्द्रस्येव बृहस्पतिः ॥
वृषपर्वा-
यत्किञ्चिदसुरेन्द्राणां वसु विद्यति भार्गव ।
मम हस्तिगवाश्वं च तस्य त्वं मम चेश्वरः ॥
शुक्रः-
यत्किञ्चिदस्ति द्रविणं दैत्येन्द्राणामिहासुर ।
तस्येश्वरोऽहं यदि चेद् देवयानी प्रसाद्यताम् ॥
वैशम्पायनः-
शुक्रस्य वचनं श्रुत्वा वृषपर्वा सबान्धवः ।
देवयानीं प्रसीदेति पपात भुवि पादयोः ॥
देवयानी-
यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव ।
नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम् ॥
वृषपर्वा-
स्तुत्यो वन्द्यश्च सततं मया तातश्च ते शुभे ॥
यत्काममभिकामाऽसि देवयानि शुचिस्मिते ।
तत्तेऽहं सम्प्रदास्यामि यदि चेदपि दुस्त्यजम् ॥
देवयानी-
दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये ।
अनुगच्छेत्तु सा मां हि यत्र दास्यति मे पिता ॥
वृषपर्वा-
उत्तिष्ठ हंसगतिके शर्मिष्ठां शीघ्रमानय ।
यच्च कामयते कर्तुं देवयानी करोतु तत् ॥
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥
वैशम्पायनः-
ततो धात्री गृहं गत्वा शर्मिष्ठां वाक्यमब्रवीत् ।
उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह ॥
त्यजति ब्राह्मणश्शिष्यान् देवयान्या प्रचोदितः ।
सा यं कामयते कामं देवयानी कुरुष्व तत् ॥
शर्मिष्ठा-
यं सा कामयते कामं करवाण्यहमद्य तम् ।
मा क्वेवोपगमेच्छुक्रो देवयान्या प्रचोदितः ॥
वैशम्पायनः-
ततः कन्यासहस्रेण वृता शिबिकया तदा ।
पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात् ॥
शर्मिष्ठा-
अहं दासीसहस्रेण दासी ते परिचारिका ।
अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता ॥
देवयानी-
स्तुवतो दुहिता चाहं वन्दिनः प्रतिगृह्णतः ।
स्तूयमानस्य दुहिता कथं दासी भविष्यसि ॥
शर्मिष्ठा-
येन केन चिदार्तानां ज्ञातीनां यत्सुखावहम् ।
सर्वमादृत्य कर्तव्यम् एष धर्मस्सनातनः ॥
एवं कृत्वा करिष्यामि यन्मां वक्ष्यसि शोभने ।
अतस्त्वामनुयास्यामि यत्र दास्यति ते पिता ॥
वैशम्पायनः-
प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः ।
देवयानी नृपश्रेष्ठ पितरं तमथाब्रवीत् ॥
देवयानी-
प्रविशाम पुरं तात तुष्टाऽस्मि द्विजसत्तम ।
अमोघं तव विज्ञानम् अस्ति विद्याबलं च ते ॥
वैशम्पायनः-
एवमुक्तो दुहित्रा स भृगुश्रेष्ठो महातपाः ।
प्रविवेश पुरं हृष्टः पूजितस्सर्वदानवैः ॥ ॥