शुक्रः-
मम विद्या हि निर्द्वन्द्वा ऐश्वर्यं हि फलं मम ।
दैन्यं शाठ्यं च द्वेष्यं च नास्ति मे यदधर्मतः ॥
यो वै परेषामाक्रोशान् अतिवादांस्तितिक्षते ।
देवयानि विजानीहि तेन सर्वमिदं जितम् ॥
यस्समुत्पतितं क्रोधं निगृह्णाति भयादिव ।
स यन्तेत्युच्यते सद्भिर् हयो रश्मिषु लम्बते ॥
यस्समुत्पतितं क्रोधम् अक्रोधेन व्यपास्यति ।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥
यो वै मन्युं धारयते अपवादांस्तितिक्षते ।
यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् ॥
योयजेताश्वमेधेन मासि मासि शतं समाः ।
तस्मादक्रोधनश्श्रेष्ठः कामक्रोधौ न पूजितौ ॥
क्रुद्धस्य निष्फलान्येव दानयज्ञतपांसि च ।
तस्मादक्रोधने यज्ञतपोदानं महाफलम् ॥
न पूतो न तपस्वी च न यज्वा न च कर्मवित् ।
क्रोधस्य यो वशं गच्छेत् तस्य लोकद्वयं न च ॥
पुत्रभृत्यसुहृन्मित्रभार्या धर्मश्च सत्यता ।
तस्यैतान्यपयास्यन्ति क्रोधशीलस्य निश्चितम् ॥
यं कुमाराः कुमार्यश्च वैरं कुर्युस्स्त्रियोऽपि वा ।
स तैर्वैरं न कुर्वीत न विद्यात्तस्य तदा बलम् ॥
देवयानी-
वेदाहं तात बालाऽपि धर्माणां यद्यदन्तरम् ।
आक्रोशे चातिवादे च बुध्येऽहं गुरुलाघवम् ॥
अतिप्रवृद्धरोषस्य धर्ममुत्सृज्य तत्त्वतः ।
शिष्यस्याशिष्यवृत्तेर्हि न क्षन्तव्यं बुभूषया ॥
शिष्ये चाचार्यवृत्तिं हि विसृज्य विफथं गते ।
तस्मात्सङ्कीर्णवृत्तेषु वासो मम न रोचते ॥
दह्यमानास्सुतीव्रेण नीचाः परयशोऽग्निना ।
अशक्तास्तद्गतिं गन्तुं ततो निन्दां प्रकुर्वते ॥
पुमांसं येऽभिनिन्दन्ति वृत्तेनाभिजनेन वा ।
न तेषु निवसेत्प्राज्ञश् श्रेयोऽर्थी पापबुद्धिषु ॥
ये त्वेनमभिनन्दन्ति वृत्तेनाभिजनेन वा ।
तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते ॥
सुयन्त्रितावरा नित्यं विहीनाश्च धनैर्नराः ।
दुर्वृत्ताः पापकर्माणश् चण्डाला धनिनोऽपि वा ॥
न हि जात्या हि चण्डालास् स्वकर्मविहितैर्विना ।
धनाभिजनविद्यासु सक्ताश्चण्डालधर्मिणः ॥
अकारणाद्ये द्विष्यन्ति परिवादं वदन्ति च ।
न तत्रास्य निवासोऽस्ति पाप्मभिः पापतां व्रजेत् ॥
सुकृते दुष्कृते वाऽपि यत्र सज्जति यो नरः ।
ध्रुवं रतिर्भवेत्तत्र तस्माद्द्वेषं न रोचयेत् ॥
वाचा दुरुक्तं ततोह दुहित्रा र्वृषपर्वणः ।
नातो दुःखतरं मन्ये त्रिषु लोकेष्वपि ध्रुवम् ॥
निस्संशयो विशेषेण पुरुषं मर्मकृन्तनम् ।
सुहृन्मित्रजनास्तेषु सौहृदं न च कुर्वते ॥
यस्सपत्ने श्रियं दीप्तां हीनश्रीः पर्युपासते ।
अवमानमवाप्नोति शनैर्नीचेषु सङ्गतः ॥
वाक्सायका वदनान्निष्पतन्ति यैराहतश्शोचति रात्र्यहानि ।
शनैर्दुःखं शस्त्रविषाग्निजातं तान्पण्डितो नावसृजेत्परेषु ॥
संरोहित शरैर्विद्धं वनं परशुना हतम् ।
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥ ॥