वैशम्पायनः-
कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः ।
कचादधीत्य तां विद्यां कृतार्था भरतर्षभ ॥
ततो देवस्समागम्य शतक्रतुमथाब्रुवन् ।
कालस्ते विक्रमस्यायं यथा श्रेष्ठो भविष्यसि ॥
एवमुक्तस्तु भगवान् सह तैस्त्रिदिवेश्वरः ।
तथेत्युक्त्वापचक्राम सोऽपश्यत वने स्त्रियः ॥
क्रीडन्तीनां तु कन्यानाम् आरामे नन्दनोपमे ।
वायुभूतस्स वस्त्राणि सर्वाण्येव व्यमिश्रयत् ॥
ततो जलात्समुत्तीर्य कन्यास्तास्सहितास्तदा ।
वस्त्राणि जगृहुस्तानि यथाऽऽसन्नान्यनेकशः ॥
तत्र वासो देवयान्याश् शर्मिष्ठा जगृहे तदा ।
मतिभ्रमादजानन्ती दुहिता वृषपर्वणः ॥
ततस्तयोर्मिथस्तत्र विरोधस्समजायत ।
देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते ॥
देवयानी-
कस्माद्गृह्णासि मे वस्त्रं शिष्यभूता ममासुरि ।
सम्मताचारहीनाया न ते श्रेयो भविष्यति ॥
शर्मिष्ठा-
आसीनं च शयानं च पिता ते पितरं मम ।
स्तौति वन्दति चाभीक्ष्णं नीचैस्स्थित्वा विनीतवत् ॥
स्तुवतो दुहिता त्वं वै याचतः प्रतिगृह्णतः ।
सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥
आधून्वस्व विधून्वस्व द्रुह्य कुप्य च या किल ।
अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि ॥
लप्स्यसे प्रतियोद्धारं न च त्वां गणयाम्यहम् ।
प्रतिकूलं वदसि चेद् इतःप्रभृति याचकि ।
आकृष्य मम दासीभिः प्रस्थाप्यसि बहिर्बहिः ॥
वैशम्पायनः-
तां मूर्च्छितां देवयानीं हत्वा हृत्वा च वाससी ।
शर्मिष्ठा प्राक्षिपत् कूपे ततस्स्वपुरमाविशत् ॥
हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया ।
अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा ॥
प्रविश्य स्वगृहं स्वस्था धर्ममासुरमास्थिता ॥
अथ तं देशमागच्छद् ययातिर्नहुषात्मजः ।
श्रान्तयुग्यहश्श्रीमान् मृगलिप्सुः पिपासितः ॥
स नाहुषः प्रेक्षमाण उदपानं गतोदकम् ।
ददर्श कन्यां रूपेण दीप्तामग्निशिखामिव ॥
तां दृष्ट्वा रूपसम्पन्नां सर्वालङ्कारभूषिताम् ।
सर्वलक्षणसम्पन्नाम् अपृच्छत्स नराधिपः ॥
तामपृच्छत्स दृष्ट्वैव कन्याममरवर्चसम् ।
सान्त्वयित्वा नृपश्रेष्ठ उवाच परवल्गुना ॥
ययातिः-
का त्वं ताम्रनखा श्यामा सुमृष्टमणिकुण्डला ।
दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा ॥
कथं च पतिताह्यस्मिन् कूपे वीरुत्तृणावृते ।
शुभे सुता वै कस्य त्वं वद सर्वं सुमध्यमे ॥
देवयानी-
यो देवैर्निहतान् दैत्यान् उत्थापयति विद्यया ।
तस्य शुक्रस्य कन्याऽहम् इदमासादितं मया ॥
पृच्छसे मां कस्त्वमसि रूपवीर्यबलान्वितः ।
ब्रूह्यत्रागमनं किं वा श्रोतुमिच्छामि तत्तवतः ॥
ययातिः-
अहं ययातिर्नाहुषश् श्रान्तोऽद्य मृगलिप्सया ।
कूपे तृणावृते भद्रे दृष्टवानस्मि त्वामिह ॥
देवयानी-
एष मे दक्षिणो राजन् पाणिस्ताम्रनखाङ्गुलिः ।
समुद्धर गृहीत्वा तं कुलीनस्त्वं हि मे मतः ॥
भूयोऽपि त्वामुपागम्य वीर्यवन्तं मनस्विनम् ।
अस्मान्मां संशयाद्राजन् मोक्षयाशु विशांपते ॥
वैशम्पायनः-
स्त्री चैषा ब्राह्मणी चेति विज्ञायैनां स नाहुषः ।
गृहीत्वा दक्षिणं पाणिम् उज्जहार ततोऽवटात् ॥
उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः ।
गच्छ भद्रे यथाकामं न भयं विद्यते तव ॥
इत्युच्यमाना नृपतिं देवयानी तमुत्तरम् ।
उवाच मां त्वमादाय गच्छ शीघ्रं प्रियो हि मे ।
गृहीताहं त्वया पाणौ तस्माद्भर्ता भविष्यसि ॥
इत्येवमुक्तो नृपतिर् आह क्षत्रकुलोद्भवः ।
त्वं भद्रे ब्राह्मणी तस्मान्मया नार्हसि सङ्गमम् ॥
सर्वलोकगुरुः काव्यस् त्वं तस्य दुहिताऽसि वै ।
तस्मादपि भयं मेऽद्य तस्मात्कल्याणि नार्हसि ॥
देवयानी-
यदि मद्वचनादद्य मां नेच्छसि नराधिप ।
त्वामेव वरये पित्रा पश्चाज्ज्ञास्यसि गच्छसि ॥
वैशम्पायनः-
आमन्त्रयित्वा सुश्रोणीं ययातिस्स्वपुरं ययौ ॥
नृपे तु गतमात्रे सा देवयानी शुचिस्मिता ।
क्वचिदार्ता च रुदती वृक्षमाश्रित्य तिष्ठति ॥
चिरायितायां दुहितरि भगवानाह भार्गवः ।
धात्रि त्वमानय क्षिप्रं देवयानीं शुचिस्मिताम् ।
इत्युक्तमात्रे सा धात्री त्वरिता ह्वियितुं गता ॥
यत्र यत्र सखीभिस्सा गता पदममार्गत ।
सा ददर्श तथा दीनां श्रमार्तां रुदतीं स्थिताम् ॥
धात्री-
वृत्तं ते किमिदं भद्रे शीघ्रं वद पिताऽऽह्वयत् ।
धात्रीमाह समाहूय शर्मिष्ठा वृजिनं कृतम् ॥
देवयानी-
त्वरितं चूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः ।
नहीदानीं प्रवेक्ष्यामि नगरं वृषपर्वणः ॥
वैशम्पायनः-
त्वरितं चूर्णिका गत्वा प्रविवेश पुरोत्तमम् ।
द्विजप्रवरमासाद्य वचनं चेदमब्रवीत् ॥
आचचक्षे महाप्राज्ञं देवयानीं वने हताम् ।
शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः ॥
श्रुत्वा दुहितरं काव्यो हतां शर्मिष्ठया ततः ।
त्वरमाणोऽनु मार्गान् स निश्चक्राम पुरोत्तमात् ॥
सोऽनुगत्वा पदं दुःखन्मार्गमाणस्सुतां वने ॥
दृष्ट्वा दुहितरं काव्यो देवयानीं तदा वने ।
बाहुभ्यां सम्परिष्वज्य दुःखितो वाक्यमब्रवीत् ॥
देवयानी-
आत्मदोषैर्हि गच्छन्ति सर्वे दुःखसुखे जनाः ।
पुरा दुश्चरितं मन्ये तस्मात्ते निष्कृतिः कृता ।
दुष्कृतिर्वास्तु वा मास्तु शृणुष्वावहितो मुने ॥
शर्मिष्ठया यद्दुरुक्तं दुहित्रा वृषपर्वणः ।
सत्यं किलैतत् स्तोता त्वं दैत्यानामसि गायकः ॥
एवं मामाह शर्मिष्ठा शिष्या तव महामुने ॥
एवं हि मे कथयति शर्मिष्टा वार्षपर्वणी ।
वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणं भृशम् ॥
स्तुवतो दुहिताऽसि त्वं याचतः प्रतिगृह्णतः ।
सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥
इति मामाह शर्मिष्ठा दुहिता वृषपर्वणः ।
क्रोधसंरक्तनयना दर्पपूर्णानन ततः ॥
यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः ।
प्रह्लादयिष्ये शर्मिष्ठाम् इत्युक्ता हि सखी मया ॥
उक्ताप्येवं भृशं क्रुद्धा मां गृह्य विजने वने ।
कूपे प्रक्षेपयामास प्रक्षिप्यैव गृहं ययौ ॥
शुक्रः-
स्तुवतो दुहिता न त्वं वन्दिनः प्रतिगृह्णतः ।
अस्तोतुस्स्तूयमानस्य दुहिता देवयान्यसि ॥
वृषपर्वा च तद्वेद शक्रो राजा च नाहुषः ।
अचिन्त्यं ब्रह्म निर्द्वन्द्वम् ऐश्वर्यं हि फलं मम ॥