वैशम्पायनः-
समावृत्तव्रतं तं तु विसृष्टं गुरुणा कचम् ।
प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम् ॥
ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च ।
भ्राजसे विद्यया चैव तपसा च दमेन च ॥
ऋषिर्यथाङ्गिरा मान्यः पितुस्तव महातपाः ।
तथा मान्यश्च पूज्यश्च तव भूयो बृहस्पतिः ॥
एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन ।
व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि ॥
स समावृत्तविद्यो मां भक्तां भजितुमर्हसि ।
गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम् ॥
कचः-
पूज्यो मान्यश्च भगवान् यथा तव पिता मम ।
तथा त्वमनवद्याङ्गि पूजनीयतमा मम ॥
आत्मप्राणैः प्रियतमा भार्गवस्य शुचिस्मिते ।
त्वं भत्रे धर्मतः पूज्या गुरुपुत्री मता मम ॥
गुरोर्गरीयसी विद्या तस्माद्गुरुतरा मम ।
न मामर्हसी कल्याणि वक्तुमेवं शुचिस्मिते ॥
यथा मम गुरुर्नित्यं मान्यश्शुक्रः पिता तव ।
देवयानि तथा त्वं हि नैवं वक्तुमिहार्हसि ॥
देवयानी-
गुरुपुत्रस्य पुत्रो हि ननु त्वमसि मे पितुः ।
तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम ॥
असुरैर्हन्यमाने च कच त्वयि पुनःपुनः ।
तदाप्रभृति या प्रीतिस् तां त्वं मा विस्मरस्व मे ॥
सौहृदेनानुरक्तां च भक्तां भजितुमर्हसि ।
न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनाथवत् ॥
कचः-
अनियोज्ये नियोक्तुं मां देवयानि न चार्हसि ।
प्रसीद मह्यं सुभ्रु त्वं गुरोर्गुरुतरा शुभे ॥
यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने ।
तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि ॥
मम त्वं भगिनी भद्रे भैवं वोचश्शुभानने ।
सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम ॥
आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि ।
अविरोधेन धर्मस्य स्मर्तव्योऽहं कथान्तरे ।
अप्रमत्तोत्थिता नित्यम् आराधय गुरुं मम ॥
देवयानी-
धर्मकार्ये तु युज्जाना कन्या सम्प्राप्तयौवना ।
धर्ममेव प्रयुञ्जाना प्रत्याख्याता त्वयानघ ॥
तस्मात् कच न ते विद्या सिद्धिमेषा गमिष्यति ॥
कचः-
गुरुपुत्रीति कृत्वाऽहं प्रत्याचक्षे न दोषतः ।
गुरुणा चाननुज्ञातो धर्मतः प्रब्रवीम्यहम् ॥
आर्षं धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया ।
शप्तोऽस्म्यनर्हश्शापस्य कामतोऽस्मि न धर्मतः ॥
तस्माद्भवत्या यः कामो न तथा स भविष्यति ।
ऋषिपुत्रो न ते कश्चिद् द्विजः पाणिं ग्रहीष्यति ॥
फलिष्यति च वै विद्या नेति यच्चात्थ मामिह ।
अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति ॥
वैशम्पायनः-
एवमुक्त्वा द्विजश्रेष्ठो देवयानीं कचस्तदा ।
त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः ॥
तमागतमभिप्रेत्य देवा इन्द्रपुरोगमाः ।
बार्हस्पत्यं सभाज्येदं कचमाहुर्मुदान्विताः ॥
देवाः-
यत्त्वमस्मद्धितं कर्म कृतवान् परमाद्भुतम् ।
न ते यशो जरां गन्ता भागभाक्त्वं भविष्यसि ॥ ॥