जनमेजयः-
ययातिः पूर्वजोऽस्माकं दशमो यः प्रजापतेः ।
कथं स शुक्रतनयां लेभे परमदुर्लभाम् ॥
एतदिच्छाम्यहं श्रोतुं वदतो द्विजसत्तम ।
आनुपूर्व्येण ये चान्ये राजानो वंशधारिणः ॥
वैशम्पायनः-
ययातिर्नाहुषो राजा देवराजसमः क्षितौ ।
तं शुक्रवृषपर्वाणौ वव्राते वरमुत्तमम् ॥
तत्तेऽहं सम्प्रवक्ष्यामि पृच्छते जनमेजय ।
देवयान्याश्च संयोगं ययातेर्नाहुषस्य च ॥
सुराणामसुराणां च भेदो वै समजायत ।
ऐश्वर्यं प्रति सङ्घर्षात् त्रैलोक्यस्य च कारणात् ॥
देवा दैत्यैर्योत्स्यमाना वव्रिरेऽङ्गिरसं मुनिम् ।
पौरोहित्येन राज्यार्थं काव्यमौशनसं परे ।
ब्राह्मणौ तावुभौ नित्यम् अन्योन्यस्पर्धिनौ भृशम् ॥
तत्र देवा निजघ्नुर्यान् दानवान् युधि सङ्गतान् ।
तान्पुनर्जीवयामास काव्यो विद्याबलाश्रयात् ॥
ततस्ते पुनरुत्थाय योधयाञ्चक्रिरे सुरान् ॥
असुरास्तु निजघ्नुर्यान् सुरान्समरमूर्धनि ।
तान्नैवं जीवयामास बृहस्पतिरुदारधीः ॥
न हि वेद स तां विद्यां यां काव्यो वेत्ति वीर्यवान् ।
सञ्जीविनीं ततो देवा विषादमगमन् परम् ॥
ते देवास्तु भयोद्विग्नाः काव्यादुशनसात्तदा ।
ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः ।
भजमानान्भजस्वास्मान् कुरु साह्यमनुत्तमम् ॥
या वै विद्या निवसति ब्राह्मणेऽमिततेजसि ।
शुक्रे तामाहर क्षिप्रं भागभाङ्नो भविष्यसि ॥
वृषपर्वसमीपे तु शक्तो द्रष्टुं त्वया द्विजः ॥
रक्षते दानवांस्तत्र न स रक्षत्यदानवान् ।
तमाराधयितुं शक्तो भवान्पूर्ववया मुनिः ॥
देवयानीमौशनसीं भक्त्याऽऽराधय सुव्रत ।
त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते ॥
शीलदाक्षिण्यमाधुर्यैर् आचारैश्च दमेन च ।
देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् ॥
तथेत्युक्त्वा कचः प्रायान्मुहूर्ते लघुमात्रके ।
तदा हि पूजितो देवैस् समीपं वृषपर्वणः ॥
स गत्वा त्वरितो राजन् देवैस्सम्प्रेषितः कचः ।
असुरेन्द्रपुरे शुक्रम् अभिवाद्येदमब्रवीत् ॥
ऋषेरङ्गिरसः पौत्रः पुत्रश्चाहं बृहस्पतेः ।
नाम्ना कच इति ख्यातं शिष्यं गृह्णात् मां भवान् ॥
ब्रह्मचर्यं चरिष्यामि त्वत्समीपे यदात्थ माम् ।
अनुमन्यस्व मां ब्रह्मन् सहस्रं परिवत्सरम् ॥
शुक्रः-
कच स्वागतमद्याहम् अभिगृह्णामि ते वचः ।
अर्चयिष्येऽहमर्च्यं त्वाम् अर्चितोऽस्तु बृहस्पतिः ॥
वैशम्पायनः-
कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम् ।
आदिष्टं भृगुपुत्रेण शुक्रेणोशनसा स्वयम् ॥
व्रत तु व्रतकाले स यथोक्तं स ग्रहीतवान् ।
आराधयन्नुपाध्यायं देवयानीं च भारत ।
नित्यमाराधयिष्यंस्तां युवा यौवनगां मुनिः ॥
सम्प्रीणयन्देवयानीं कन्यां सम्प्राप्तयौवनाम् ।
पुष्पैः फलैः प्रेषणैश्च तोषयामास भार्गवीम् ॥
तत्सहस्रं गुरुगवां रक्षित्वा वन्यमाहरत् ।
गायन्नृत्यंश्च बहुशो देवयानीमतोषयत् ॥
देवयान्यपि तं विप्रं नियतव्रतचारिणम् ।
अनुगायमाना ललना रहः पर्यचरत्तथा ॥
गायकं चैव नृत्यन्तं दातारं प्रियवादिनम् ।
नार्यो नरं कामयन्ते रूपिणं स्रग्विणं तथा ॥
पञ्चवर्षशतान्येवं कचस्य चरतो व्रतम् ।
तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम् ॥
ततस्ते गास्तु रक्षन्तं दानवास्संशितव्रतम् ।
जघ्नुर्बृहस्पते रोषाद् विद्यारक्षार्थमेव च ॥
हत्वा सालावृकेभ्यस्तं प्रायच्छंस्तिलशः कृतम् ।
ततो गावो निवृत्तास्ता अगोपास्स्वं निवेशनम् ॥
सा दृष्ट्वा रहिता गास्तु कचेनाभ्यागता वनात् ।
उवाच वचनं काले देवयान्यथ भारत ॥
देवयानी-
आहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो ।
अगोपाश्चागता गावः कचस्तात न दृश्यते ॥
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति ।
तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते ॥
शुक्रः-
वैशम्पायनः
अमुमेहीति शब्देन कचं सञ्जीवयाम्यहम् ।
ततस्सञ्जीविनीं विद्यां प्रयुज्य कचमाह्वयत् ॥
भित्त्वा भित्त्वा शरीराणि वृकाणां स विनिष्पतत् ॥
आहूतः प्रादुरभवत् कचो हृष्टोऽथ विद्यया ।
हतोऽहमिति चाचष्ट पृष्टो भार्गवकन्यया ॥
कचः-
समीत्पुष्पकुशादीनि काष्ठभारं च भामिनि ।
गृहीत्वा श्रमभारार्तो वटवृक्षं समाश्रितः ॥
गावश्च सहितास्सर्वा वृक्षच्छायामुपाश्रिताः ।
असुरास्तत्र मां दृष्ट्वा कस्त्वमित्यभ्यचोदयन् ॥
बृहस्पतिसुतश्चाहं कच इत्यभिविश्रुतः ।
इत्युक्तमात्रे मां जघ्नुश् शतशश्च समन्ततः ॥
दत्त्वा सालावृकेभ्यस्ते सुखं जग्मुस्स्वमालयं ।
आहूतो विद्यया भद्रे भार्गवेण महात्मना ।
त्वत्समीपमिहायातः कथञ्चिद्धृतजीवितः ॥
स पुनर्देवयान्योक्तः पुष्पाण्याहर मे द्विज ।
तथा सोऽपि गतः केचिद् दानवास्तं ददर्शिरे ॥
पुनस्तं बाधयित्वाऽऽशु समुद्रेऽम्भस्यमज्जयन् ।
गते पुनः कचे कन्या पित्रे तं संन्यवेदयत् ॥
विप्रेण पुनराहूतो विद्यया ब्राह्मणेन सः ।
पुनरागम्य तद्वृत्तं न्यवेदयत तत्तथा ॥
देवयानि पुनस्तं तु कदाचिद्वन्यमाहर ।
उक्तोऽगच्छद्वनं तत्र दद्दशुर्दानवाः पुनः ॥
ततस्तृतीये हत्वा तं दग्ध्वा पिष्ट्वा च चूर्णशः ।
प्रायच्छन् ब्राह्मणायैव सुरापायासुरास्तथा ॥
देवयानी शङ्कमाना दृष्ट्वा पितरमब्रवीत् ।
पुष्पाहारः प्रेषणकृत् कचस्तात न दृश्यते ॥
व्यक्तं हतो मृतो वापि कचस्तात महातपाः ॥
शुक्रः-
विद्ययोत्थाप्यमानोऽपि नाभ्येति करवाणि किम् ।
बृहस्पतेस्सुतः पुत्रि कचः प्रेतगतिं गतः ।
विद्यया जिवितो ह्येष नागतः करवाणि किम् ॥
तन्मा शुचो मा रुदो देवयानि न त्वादृशी मर्त्यमनुप्रशोचेत् ।
सुराश्च विश्वे च जगच्च सर्वम् उपस्थितां वैकृतिमामनन्ति ॥
देवयानी-
यस्याङ्गिरा वृद्धतमः पितामहो बृहस्पतिश्चापि पिता महर्षिः ।
ऋषेः पुत्रं तव शिष्यं कथं तु पितर्न शोचामि कथं न रुद्याम् ॥
स ब्रह्मचारी च तपोधनश्च नित्योत्थितः कर्मसु चैव दक्षः ।
कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये प्रियो हि मे तात कचोऽभिरूपः ॥
शुक्रः-
असंशयं मामसुरा द्विषन्ति ये शिष्यं मेऽनागसं सूदयन्ति ॥
अब्राह्मणं लोकमिच्छन्ति पापा रौद्रा यथा वा प्रस्तुतान्दानवैर्हि ।
अप्यस्य पापस्य भवेदिहान्तः कं ब्रह्महत्या न दहेद्धि तूर्णम् ॥
वैशम्पायनः-
सञ्चोदितो देवयान्या महर्षिः पुनराह्वयत् ।
संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम् ॥
कचोऽपि राजन् स महानुभावो विद्याबलाल्लब्धमतिर्महात्मा ।
गुरोर्हितो विद्यया चोपहूतश् शनैर्वाक्यं जठरे व्याजहार ॥
कचः-
प्रसीद भगवन्मह्यं कचोऽहमभिवादये ।
यथा बहुमतः पुत्रस् तथा मन्यतु मां भवान् ॥
वैशम्पायनः
तमब्रवीत्केन पथोपनीतो ममोदरे तिष्ठसि ब्रूहि विप्र ।
अस्मिन्मुहूर्ते ह्यसुरान्विनाश्य गच्छामि देवानहमद्य विप्र ॥
कचः-
तव प्रसादान्न जहाति मां स्मृतिः स्मरे च सर्वं यथावद्वेद्मि वृत्तम् ।
नत्वेवं तु स्यात्तपसो व्ययो मे ततः क्लेशं घोरमिमं सहामि ॥
असुरैस्सुरायां भवतोऽस्मि दत्तो हत्वा दग्ध्वा चूर्णयित्वा च काव्य ।
ब्राह्मीं मायामासुरी त्वद्य माया त्वयि स्थिते कथमेवातिवर्तेत् ॥
शुक्रः-
किं ते प्रियं करवाण्यद्य वत्से वधेन मे जीवितं स्यात्कचस्य ।
नान्यत्र कुक्षेर्मम भेदाद्धिदृश्येत् कन्ये कचो मद्गतो देवयानि ॥
देवयानी-
द्वौ मे शोकावग्निकल्पौ दहेतां कचस्य नाशस्तव चैवोपघातः ।
कचस्य नाशे मम शर्म नास्ति तवोपघाते जीवितुं नास्मि शक्ता ॥
शुक्रः-
संसिद्धरूपोहि बृहस्पतेस्सुतस् स त्वां भक्तो भजते देवयानी ।
विद्यामिमां प्राप्नुहि जीविनीं त्वं न चेदिन्द्रः कचरूपी त्वमद्य ॥
न निवर्तेत्पुनर्जीवन् कश्चिदन्यो ममोदरात् ।
ब्राह्मणं वर्जयित्वैव तस्माद्विद्यामवाप्नुहि ॥
पुत्रो भूत्वा भावय भावितो माम् अस्मच्छरीरादुपनिष्क्रम्य तात ।
समीक्षेथा धर्मवतीमवेक्षां गुरोस्सकाशात्प्राप्य विद्यां सविद्यः ॥
वैशम्पायनः-
गुरोस्सकाशात्समवाप्य विद्यां भित्त्वा पार्श्वं निर्विचक्राम विप्रः ।
कचोऽभिरूपो दक्षिणं ब्राह्मणस्य शुक्लात्यये पौर्णमास्यामिवेन्दुः ॥
दृष्ट्वा शयानं ब्रह्मणं ब्रह्मशशिम् उत्थापयामास मृतं कचोऽपि ।
विद्यां सिद्धां तामवाप्याभिवाद्य ततः कचस्तं गुरुमित्युवाच ॥
कचः
यः श्रोत्रयोरमृतं सन्निषिञ्चेद् विद्यामविद्यस्य यथा मम त्वम् ।
तं मन्येऽहं पितरं मातरं च तस्मै न द्रुह्येत्कृतमस्य जानन् ॥
ऋतस्य दातारमनुत्तमस्य निधिं निधीनां चतुरन्वयानाम् ।
ये नाद्रियन्ते गुरुमर्चनीयं पापाँलोकांस्ते व्रजन्त्यप्रतिष्ठाः ॥
वैशम्पायनः-
श्रृण्वस्तु भूतेष्विदमाह काव्यः समुत्थितो ब्रह्मशशिः पुराणः ।
सुरापानाद्वञ्चनां प्राप्य तीव्रां सञ्ज्ञानाशं च ययौ नृशंसम् ॥
दृष्ट्वा कचं चापि तथा सजीवितं पीत्वा सुरां सुरया मोहितस्सन् ।
समन्युरुत्थाय महानुभावस् तदोशना विप्रहितं चिकीर्षुः ।
काव्यस्स्वयं वाक्यमिदं जगाद सुरपानं वै प्रतिशङ्कमानः ॥
यो ब्राह्मणोऽद्यप्रभृतीह कश्चि-न्मोहात्सुरां पास्यति मन्दबुद्धिः ।
अपेतधर्मा ब्रह्महा चैव स स्यद् अस्मिल्ँलोके गर्हितस्स्यात्परे च ॥
मया चैमां विप्रधर्मोक्तिसीमां मर्यादां वै स्थापितां सर्वलोके ।
सन्तो विप्राश्शुश्रुवांसो गुरूणां देवा लोकाश्चापशृण्वन्तु सर्वे ॥
इतीदमुक्त्वा स महानुभावस् तपोनिधीनां निधिरप्रमेयः ।
तान्दानवान्देवविमूढबुद्धीन् इदं समाहूय ततोऽभ्युवाच ॥
आचक्षे वो दानवा बालिशास्थ सिद्धः कचो यस्यति मत्सकाशे ।
सञ्जीविनीं प्राप्य विद्यां महार्थं तुल्यप्रभावो ब्राह्मणा ब्रह्मभूतः ॥
योऽकार्षीद्दुष्करं कर्म देवानां कारणात्कचः ।
न च किर्तिर्जरां गच्छेद् याज्ञीयश्च भविष्यति ॥
गुरोरुष्य सकाशे तु दश वर्षशतानि सः ।
अनुज्ञातः कचो गन्तुम् इयेष त्रिदशालयम् ॥ ॥