जनमेजयः-
त्वत्तश्श्रुतमिदं सर्वं देवदानवरक्षसाम् ।
अंशावतरणं सम्यग् गन्धर्वाप्सरसां तथा ॥
इमं तु भूय इच्छामि कुरूणां वंशमादितः ।
कथ्यमानं त्वया ब्रह्मन् विप्रर्षिगणसन्निधौ ॥
वैशम्पायनः
धर्मार्थकामसहितं राजर्षीणां प्रकीर्तितम् ।
पवित्रं कीर्त्यमानं मे निबोधेमं मनीषिणाम् ॥
प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च ।
भरतस्य कुरोः पूरोराजमीढस्य चान्वये ॥
यादवानामिमं वंशं पौरवाणां च सर्वशः ।
तथैव भारतानां च पुण्यं स्वस्त्ययनं महत् ।
धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ ॥
तेजोभिरुदितास्सर्वे महर्षिसमतेजसः ॥
दश प्राचेतसः पुत्रास् सन्तः पूर्वजनास्स्मृताः ।
मूर्धजेनाग्निना ह्येते पूर्वं दग्धा महौजसः ॥
तेभ्यः प्रचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः ।
सम्भूताः पुरुषव्याघ्र स हि लोकपितामहः ॥
वैरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः ।
आत्मतुल्यानजनयत् सहस्रं संशितव्रतान् ॥
सहस्रसङ्ख्यान्सहितान् दक्षपुत्रांश्च नारदः ।
मोक्षमध्यापयामास येन स्युरजरामराः ॥
ततः पञ्चाशतं कन्याः पुत्रिकास्समजीजनत् ।
प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय ॥
ददौ दश स धर्माय काश्यपाय त्रयोदश ।
कालस्य नयने युक्तास् सप्तविंशतिमिन्दवे ॥
त्रयोदशानां पत्नीनां या तु दाक्षायणी शुभा ।
मारीचः काश्यपस्त्वस्याम् अदित्यां समजीजनत् ॥
इन्द्रादीन् वीर्यसम्पन्नान् विवस्वन्तमथापि च ।
विवस्वतस्सुतो जज्ञे यमो वैवस्वतः प्रभुः ॥
मार्ताण्डस्य यमी चापि सुता राजन् व्यजायत ।
मार्तण्डस्य मनुर्धीमान् अजायत सुतः प्रभुः ॥
मनोर्वंशो मानवानां तथाऽयं प्रथितोऽभवत् ।
ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः ॥
ततोऽभवत्तदा राजन् ब्रह्म क्षत्रेण संहितम् ।
ब्राह्मणा मानवास्तेषां साङ्गं वेदमधारयन् ॥
वेनं त्रस्नुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च ।
करूशमथ शय्यातिं तथैवात्राष्टमीमिलाम् ॥
पृषस्रं नवमं प्राहुः क्षत्रधर्मपरायणान् ।
तथैवारिष्टदशमान् मनोः पुत्रान्महाबलान् ।
पञ्चाशत्तु मनोः पुत्रास् तथैचान्येऽभवन्क्षितौ ॥
अन्योन्यभेदात्ते सर्वे विनेशुरिति नश्श्रुतम् ॥
पुरूरवास्ततो विद्वान् इलायां समपद्यत ।
सैव तस्याभवन्माता पिता चेति हि नश्श्रुतम् ॥
अष्टादश सहस्राणि द्वीपानश्रन् पुरूरवाः ।
अमानुषैर्वृतान्सर्वान् उषसस्स महायशाः ॥
विप्रैस्स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः ।
जहार च स विप्राणां रत्नान्युत्क्रोशतामपि ॥
सनत्कुमारस्तं राजन् ब्रह्मलोकादुपेत्य ह ।
अनुदर्शं ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ ।
ततस्स ऋषिभिः क्रुद्धः सद्यश्शप्तो ह्यनश्यत ॥
लोभान्वितो बलमदान्नष्टसंज्ञो नराधिपः ।
स च गन्धर्वलोकस्थ उर्वश्या सहितो विराट् ॥
आनिनाय क्रियार्थेऽग्निम् एकं वै येन च त्रिधा ॥
षट् सुता जज्ञिरे चैलाद् आयुर्धीमान्नरस्तथा ।
ग्रहायुश्च शतायुश्च सुतायुश्चोर्वशीसुताः ॥
नहुषं वृद्धशर्माणम् अजरायुमनेनसम् ।
स्वर्भानवीसुतानेतान् आयोः पुत्रान्प्रचक्षते ॥
आयुषो नहुषः पुत्रो धीमान् सत्यपराक्रमः ।
राज्यं शशास सुमहद् धर्मेण पृथिवीपतिः ॥
पितॄन्देवानृषीन्विप्रान् गन्धर्वोरगराक्षसान् ।
नहुषः पालयामास ब्रह्मक्षत्रमथो विशः ॥
स हत्वा शत्रुसङ्घातान् ऋषीन् करमदापयत् ।
पशुवच्चैव तान् पृष्ठे वाहयामास वीर्यवान् ।
कारयामास चेन्द्रत्वम् अभिभूय दिवौकसः ॥
तेजसा तपसा चैव विक्रमेणौजसा तथा ।
विश्लिष्टो नहुषश्शप्तस् सद्यो ह्यजगरोऽभवत् ॥
यतिं ययातिं संयातिम् आयातिं यातिमुद्धवम् ।
नहुषो जनयामास षट् सुतान् प्रियवासवः ॥
ययातिर्नाहुषस्सम्राड् आसीत्सत्यपराक्रमः ।
स पालयामास महीम् ईजे बहुविधैस्सवैः ॥
अतिशक्त्या पितॄनर्चन् देवांश्च प्रयतस्सदा ।
अन्वगृह्णात्प्रजास्सर्वा ययातिरपराजितः ॥
तस्य पुत्रा महेष्वासास् सर्वैस्समुदिता गुणैः ।
देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे ॥
देवयान्यां व्यजायेतां यदुस्तुर्वशुरेव च ।
द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां प्रजज्ञिरे ॥
स शाश्वतीस्समा राजन् प्रजा धर्मेण पालयत् ॥
जरां गच्छन्महाघोरां नाहुषो रूपनाशिनीम् ।
जराभिदूषितः पुत्रान् राजा वचनमब्रवीत् ।
यदुं पूरुं तुर्वशुं च द्रुह्युं चानुं च भारत ॥
यौवनेनाचरन्कामान् युवा युवतिभिस्सह ।
विहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः ॥
तं पुत्रो दैवयानेयः पूर्वजो यदुरब्रवीत् ।
किमत्र भवता कार्यम् अस्माभिर्यौवनेन च ॥
ययातिरब्रवीत्तं च जरा मे प्रतिगृह्यताम् ।
यौवनेन त्वदीयेन चरेयं विषयानहम् ॥
यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः ।
कामार्थः परिहीनो वै तप्येऽहं तेन पुत्रकाः ॥
मामकेन शरीरेण राज्यमेकः प्रशास्तु वः ।
अहं त्वाभिनववयोयुक्तः काममवाप्नुयाम् ॥
न ते तस्य प्रत्यगृह्णन् यदुप्रभृतयो जराम् ।
तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः ॥
राजंश्चराभिनववया कामान्यौवनगोचरान् ।
अहं जरां समास्थाय राज्ये स्थास्यामि तेज्ञया ॥
एवमुक्तस्स राजर्षिस् तपोवीर्यसमाश्रयात् ।
सञ्चारयामास जरां तदा पुत्रे महात्मनि ॥
पौरवेणाथ वयसा राजा यौवनमास्थितः ।
यायातेनापि वयसा राज्यं पूरुरकारयत् ॥
ययातिरपि पत्नीभ्यां दीर्घकालं विहृत्य च ।
विश्वाच्या सहितो रेमे पुनश्चैत्ररथे वने ॥
नाध्यगच्छत्तदा तृप्तिं कामानां स महायशाः ।
अवेक्ष्य मनसा तथ्याम् इमां गाथां ततो जगौ ॥
न जातु कामः कामानाम् उपभोगेन शाम्यति ।
इविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवस्स्त्रियः ।
नालमेकस्य तत्सर्वम् इति मत्वा शमं व्रजेत् ॥
यदा न कुरुते भावं सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥
न बिभेति यदा चायं यदा चास्मान्न बिभ्यति ।
यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥
इत्यवेक्ष्य महाराजः कामानां फल्गुतां नृप ॥
ततो वर्षसहस्रान्ते ययातिरपराजितः ।
अतृप्त एव कामानां पूरुं पुत्रमुवाच ह ॥
त्वया दायादवानस्मि त्वं मे वंशकरस्सुतः ।
पौरवो़ऽयं वंश इति ख्यातिं लोके गमिष्यति ॥
ततस्स नृपशार्दूल पूरुं राज्येऽभिषिच्य च ।
कालेन महता पश्चात् कालधर्ममुपेयिवान् ॥ ॥