जनमेजयः-
देवानां दानवानां यक्षाणामथ रक्षसाम् ।
सिंहव्याघ्रमृगाणां च पन्नगानां पतत्रिणाम् ॥
अन्येषां चैव भूतानां सर्वेषां भगवन्नहम् ।
श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम् ।
जन्म कर्म च भूतानां सर्वेषामनु पूर्वशः ॥
वैशम्पायनः-
मानुषेषु मनुष्येन्द्र सम्भूता ये दिवौकसः ।
नामतो बलतश्चैव तांस्ते वक्ष्यामि सर्वशः ॥
प्रथमं दानवांश्चैतांस् तेऽद्य वक्ष्यामि सर्वशः ॥
विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः ।
जरासन्ध इति ख्यातस् स आसीन्मनुजर्षभः ॥
दितेः पुत्रस्तु यो राजन् हिरण्यकशिपुः पुरा ।
स जज्ञे मानुषे लोके शिशुपालो नरर्षभः ॥
संह्लादस्तु महावीर्यः प्रह्लादस्यानुजस्तु यः ।
स शल्य इति विख्यातो जज्ञे बाह्लीकपुङ्गवः ॥
अनुह्लादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः ।
धृष्टकेतुरिति ख्यातस् स बभूव नरेश्वरः ॥
यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः ।
द्रुम इत्यभिविख्यातस् स आसीन्मनुजेश्वरः ॥
बाष्कलो नाम यस्तेषाम् आसीदसुरपुङ्गवः ।
भगदत्त इति ख्यातस् स आसीन्मनुजेश्वरः ॥
अयश्शिरा अश्वशिरा अयश्शङ्कुश्च वीर्यवान् ।
तथा गगनमूर्धा च वेगवांश्चैव पञ्चमः ॥
पञ्चैते जज्ञिरे राजन् वीर्यवन्तो महासुराः ।
केकयेषु महात्मानः पार्थिवर्षभसत्तमाः ॥
केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान् ।
अमितौजा इति ख्यातस् स जज्ञे मनुजर्षभ ॥
स्वर्भानुरिति विख्यातश् श्रीमान् यस्तु महासुरः ।
उग्रसेन इति ख्यातस् सोग्रकर्मा नराधिपः ॥
यस्त्वश्व इति विख्यातश् शस्त्रभृतां वरः ।
अशोको नाम राजासीन्महावीर्यपराक्रमः ॥
तस्मादवरजो यस्तु राजन् अश्वपतिस्स्मृतः ।
दैतेयस्सोऽभवद्राजा हार्दिक्यो मनुजर्षभः ॥
वृषपर्वेति विख्यातः आसीद्यस्तु महासुरः ।
दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥
अगजस्त्वनुजो राजन् य आसीद्वृषपर्वणः ।
स मल्ल इति विख्यातः पृथिव्यामभवन्नृपः ॥
अश्वग्रीव इति ख्यातस् सत्यवाक्यो महासुरः ।
रोचमान इति ख्यातः पृथिव्यामभवन्नृपः ॥
सूक्ष्मस्तु सुमती राजन् कीर्तिमान् यः प्रकीर्तितः ।
बृहन्त इति विख्यातः क्षितावासीत् स पार्थिवः ॥
हुतण्ड इति विख्यातो य आसीदसुरोत्तमः ।
सेनाबन्धुरिति ख्यातस् स बूभव नराधिपः ॥
खस्रवो नाम यस्तेषाम् असुराणां पुरोगमः।
रिपुजिन्नाम राजर्षिर् बभूव भुवि विश्रुतः ॥
एकचक्र इति ख्यातो य आसीच्च महासुरः ।
प्रतिविन्घ्य इति ख्यातो बभूव प्रथितः क्षितौ ॥
विरूपाक्षस्तु दैतेयश् चित्रयोधी महासुरः ।
चित्रवर्मेति विख्यातः क्षितावासीत्स पार्थिवः ॥
हरस्त्वतिरथो राजन् आसीद्यो दानवर्षभः ।
सुबाहुरिति विख्यातस् स जज्ञे मनुजर्षभः ॥
अहरस्तु महातेजाश् शत्रुपक्षयङ्करः ।
बाह्लिको नाम राजाऽऽ सीद् बभूव प्रथितः क्षितौ ॥
निचन्द्रश्चातिवक्रस्तु य आसीद्दानवोत्तमः ।
सुचन्द्र इति विख्यातो भूमावासीत् स पार्थिवः ॥
निकुम्भस्त्वजितस्सङ्ख्ये महानसुरसत्तमः ।
भूमौ भूमिपतिश्रेष्ठो देवाधिप इति श्रुतः ॥
शरभो नाम यस्तेषां दैतेयानां महासुरः ।
पौरवो नाम राजर्षिस् स बभूव नरोष्विह ॥
कापथस्तु महावीरो बभूव किल योऽसुरः ।
सुपार्श्व इति विख्यातः क्षितौ जज्ञे महीपतिः ॥
क्रथस्तु राजन्राजर्षिः क्षितौ जज्ञे महासुरः ।
पार्वतेय इति ख्यातः काञ्चनाचलसन्निभः ॥
द्वितीयश्शरभस्तेषाम् असुराणां बभूव यः ।
प्रह्लादो नाम बाह्लीको जज्ञे भूपः परन्तपः ॥
चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपो मतः ।
चन्द्रवर्मेति विख्यातः काम्भोजानां नराधिपः ॥
अर्क इत्यभिविख्यातो यस्तु दानवपुङ्गवः ।
इषीको नाम राजऽऽसीद् बभूव ऋषिसत्तमः ॥
मृतपा इति विख्यातो य आसीदसुरोत्तमः ।
पश्चिनामपकं विद्धि तं नृपं नृपसत्तम ॥
गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः ।
द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥
मयूर इति विख्यातश् श्रीमान् यस्तु महासुरः ।
स विश्व इति विख्यातो बभूव पृथिवीपतिः ॥
दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः ।
काशिराज इति ख्यातः पृथिव्यां प्रथितो नृपः ॥
सिंहिका सुषुवे यं तु ग्रहं चन्द्रार्कमर्दनम् ।
क्रथ इत्यभिविख्यातस् स बभूव नराधिपः ॥
सुपर्ण इति विख्यातस् तस्मादवरजस्तु यः ।
क्रोधकीर्तिरिति ख्यातः पृथिव्यां प्रथितो नृपः ॥
चन्द्रहर्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः ।
नरको नाम राजर्षिः पृथिव्यां सोऽभवन्नृपः ॥
विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः ।
जानको नाम राजर्षिर् स बभूव महीपतिः ॥
अनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः ।
विक्षरो नाम राजर्षिर् वसुमित्रोऽभवन्नृपः ॥
द्वितीयो विक्षरो यस्तु नराधिप महासुरः ।
वरस्सुराष्ट्राधिपतिर् विश्रुतस्सोऽभवन्नृपः ॥
प्रवीर इति विख्यातो यस्त्वासीदसुरोत्तमः ।
पौण्ड्रको मेरुसङ्काशो बभूव स नराधिपः ॥
वृत्र इत्यभिविख्यातो यस्तु राजन् महासुरः ।
मणिमान्नाम राजर्षिस् स बभूव नराधिपः ॥
क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः ।
दण्ड इत्यभिविख्यातस् स बभूव नराधिपः ॥
क्रोधवर्धन इत्येव यस्त्वन्यः परिकीर्तितः ।
दण्डधार इति ख्यातस् सोऽभवन्मनुजेश्वरः ॥
कालेयास्तु ये पुत्रास् तेषामष्टौ नराधिपाः ।
जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः ॥
मागधेषु जयत्सेनश् श्रीमानासीत्स पार्थिवः ।
अष्टानां प्रवरस्तेषां कालेयानां महासुरः ॥
द्वितीयस्तु ततस्तेषां श्रीमान् हरिहयोपमः ।
अपराजित इत्येव स बभूव नराधिपः ॥
तृतीयस्तु महाराज महाबाहुर्महासुरः ।
निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः ॥
तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः ।
श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः ॥
पञ्चमस्तु बभूवैषां प्रवरो यो महासुरः ।
महीजात इति ख्यातो बभूव हि परन्तपः ॥
षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः ।
अभिरुप इति ख्यातः क्षितौ राजर्षिसत्तमः ॥
सप्तमस्तु बभूवैषां प्रवरो यो महासुरः ।
समुद्रसेनस्तु नृपः ख्यातो नाम्ना महाबलः ।
विश्रुतस्सागरान्तायां क्षितौ धर्मार्थतत्त्ववित् ॥
बृहन्नामाष्टमस्तेषां कालेयानां महासुरः ।
बभूव राजा धर्मात्मा सर्वभूतहिते रतः ॥
गणः क्रोधवशो नाम यस्तु राजन् प्रकीर्तितः ।
ततस्सञ्जज्ञिरे वीराः क्षिताविह नराधिपाः ॥
नन्दिकः कर्णवेष्टश्च सिद्धार्थः क्रीडकस्तथा ।
सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः ॥
क्रोधो विचित्रः सुरसश् श्रीमान्नीलश्च भूमिपः ।
वीरधामा च कौरव्य भूरिवालश्च नामतः ॥
दन्तवक्त्रश्च नामासीद् दुर्जयश्चैव नामतः ।
रुक्मी च नरशार्दूल राजा च जनमेजयः ॥
आषाढो वायुवेगश्च भूरितेजास्तथैव च ।
एकलव्यस्सुमित्रश्च वासयानोऽथ गोमुखः ॥
करूशकाश्च राजानः क्षेमधूर्तिस्तथैव च ।
श्रुतायुर्धर्मपश्चैव बृहत्सेनस्तथैव च ॥
क्षेमोग्रतीर्थः कुहकः कलिङ्गेषु नराधिपः ।
मतिमांश्च मनुष्याणाम् ईश्वरश्चातिविक्रमः ॥
गणात्क्रोधवशादेव राजपूगः क्षिताविह ।
जातः पुरा महाराज महाकीर्तिर्महाबलः ॥
कालनेमिरिति ख्यातो योऽसावसुरसत्तमः ।
स कंस इति विख्यात उग्रसेनसुतो बली ॥
यस्त्वासीद्देवको नाम देवराजसमद्युतिः ।
स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः ॥
बृहस्पतेर्बृहत्कीर्तेिर् देवर्षेर्विद्धि भारत ।
अंशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम् ॥
धन्विनां नृपशार्दूल यस्स सर्वास्त्रवित्तमः ।
बृहत्कीर्तिर्महातेजास् स जज्ञे मनुजेष्विह ॥
धनुर्वेदे च वेदे च यं तं वेदविदो विदुः ।
वरिष्ठमिष्टकर्माणं द्रोणं स्वकुलवर्धनम् ॥
महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत ।
एकत्वमुपपद्यादौ जज्ञे वै मानुपेष्विह ॥
अश्वत्थामा महावीर्यश् शत्रुपक्षभयङ्करः ।
वीरः कमलपत्राक्षः क्षितावासीन्नराधिपः ॥
जज्ञिरे वसवस्त्वष्टौ गङ्गायां शन्तनोस्सुताः ।
वसिष्ठस्य च शापेन नियोगाद्वासवस्य च ॥
तेषामवरजो भीष्मः कुरूणामभयङ्करः ।
मतिमान्वेदविद्वांश्च सर्वभूतयङ्करः ॥
जामदग्न्येन रामेण सर्वाशस्त्रभृतां वरः ।
अयुध्यत महातेजा भार्गवेण महात्मना ॥
यस्तु राजन् कृपो नाम ब्रह्मर्षिरभवत्क्षितौ ।
रुद्राणां गणतो द्विद्धि सम्भूतममितौजसम् ॥
शकुनिर्नाम यस्त्वासीद् राजा लोके महारथः ।
द्वापरं विद्धि तं राजन् सम्भूतमरिमर्दनम् ॥
सात्यकिस्सत्यसन्धस्तु योऽसौ वृष्णिकुलोद्वहः ।
पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः ॥
द्रुपदश्चापि राजर्षिस् तत एवाभवद्गणात् ।
मानुषे नृप लोकेऽस्मिन् सर्वशस्त्रभृतां वरः ॥
ततश्च कृतवर्माणं विद्धि राजन्मरुद्गणात् ।
जातमभ्यधिकर्माणं क्षत्रियर्षभसत्तमम् ॥
मरुतां तु गणाद्विद्धि स जज्ञे रिपुमर्दन।
विराटो नाम राजर्षिः परराष्ट्रविमर्दनः ॥
अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः ।
स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः ॥
धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनादपि ।
दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः ॥
मातुर्दोषेणैव चर्षेर् अन्ध एव व्यजायत ॥
धर्मात्तु सुमहाभागं पुत्रं पुत्रवतां वरम् ।
विदुरं विद्धि लोकेऽस्मिञ् जातं धर्मभृतां वर ॥
मरुतां तु गणाद्विद्धि सर्वशस्त्रभृतांवरः ।
पाण्डुर्जज्ञे महाभागस् तव पूर्वपितामहः ॥
कलेरंशात्तु सञ्जज्ञे भुवि दुर्योधनो नृपः ।
दुर्बद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः ॥
जगतो यश्च सर्वस्य विद्वेषकरपूरुषः ।
यस्सर्वान् घातयामास पृथिव्यां पुरुषाधमः ।
येन युद्धं समुद्दिष्टं भूतान्तकरणं महत् ॥
पौलस्त्यभ्रातरस्सर्वे जज्ञिरे मनुजेष्विह ।
शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम् ॥
दुर्मुखो दुःसहश्चैव ये चान्ये नानुकीर्तिताः ।
दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ ॥
भीमसेनं च वातस्य देवराजस्य चार्जुनम् ।
अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि ॥
नकुलं सहदेवं च सर्वभूतमनोहरौ ॥
यस्सुवर्चा इति ख्यातस् सोमपुत्रः प्रतापवान् ।
अभिमन्युर्बृहत्कीर्तिर् अर्जुनस्य सुतोऽभवत् ॥
अग्नेरंशात्तु विद्धि त्वं धृष्टद्युम्नं महारथम् ।
शिखण्डिनमथो राजं स्त्रीपुंसं विद्धि गुह्यकम् ॥
द्रौपदेयास्तु ये पञ्च बभूवुर्भरतर्षभ ।
विश्वान् देवगणान्विद्धि तन्राजन् भरतर्षभ ॥
आमुक्तकवचः कर्णो यस्तु जज्ञे महारथः ।
दिवाकरस्य तं विद्धि देवर्षेरंशमुत्तमम् ॥
यस्तु नारायणो देवो देवदेवस्सनातनः ।
तस्यांशो मानुषेष्वासीद् वासुदेवः प्रतापवान् ॥
शेषस्यांशस्तु नागस्य बलदेवो महाबलः ।
सनत्कुमारं प्रद्युम्नं विद्धि राजन् महौजसम् ॥
एवमन्ये मनुष्येन्द्र बहवोंशा दिवौकसाम् ।
जज्ञिरे वसुदेवस्य कुले कुलविवर्धन ॥
गणस्त्वप्सरसां यो वै महाराज प्रकीर्तितः ।
तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य च ॥
तानि षोडशदेवीनां सहस्राणि नराधिप ।
बभूवुर्मानुषे लोके नारायणपरिग्रहाः ॥
श्रियस्तु भागस्सञ्जज्ञे रत्यर्थं पृथिवीतले ।
द्रुपदस्य कुले जाता वेदिमध्यादनिन्दिता ॥
नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी ।
पद्मायताक्षी सुश्रोणी स्वञ्चितायतमूर्धजा ॥
सर्वलक्षणसम्पन्ना वैदूर्यमणिसन्निभा ।
पञ्चानां पुरुषेन्द्राणां चित्तप्रमथनी रहः ॥
सिद्धिस्स्मृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते ।
कुन्ती माद्री च जज्ञाते माद्री तु सुबलात्मजा ॥
इति देवासुराणां ते गन्धर्वाप्सरसां तथा ।
अंशावतरणं राजन् राक्षसानां च कीर्तितम् ॥
ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः ।
महात्मानां यदूनां च ये जाता विपुले कुले ॥
एते तु मुख्याः कथिता मया ते राजसत्तम ।
धन्यं यशस्यमायुष्यं पुण्यं च विजयावहम् ॥
इदमंशावतरणं श्रोतव्यमनसूयया ।
अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् ॥
प्रभवाप्ययवित् प्राज्ञो न कृच्छ्रेष्ववसीदति ॥ ॥