वैशम्पायनः-
ब्रह्मणो मानसाः पुत्रा विदिताष्षण्महर्षयः ।
एकादश तथा रुद्राः स्थाणोश्चैवेति मानसः ॥
मृगव्याधश्च शर्वश्चः निर्ऋतिश्च महायशाः ।
अजैकपादहिर्बुध्न्यः पिनाकी च परन्तपः ॥
भवनश्चैश्वरश्चैव कपाली च महाद्युतिः ।
स्थाणुर्भवश्च भगवान् रुद्रा एकादश स्मृताः ॥
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः ।
षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः ॥
त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः ।
बृहस्पतिरुचथ्यश्च संवर्तश्च दृढव्रताः ॥
अत्रेस्तु बहवः पुत्राश् श्रूयन्ते मनुजाधिप ।
सर्वे वेदविदस्सिद्धाश् शान्तात्मानो महर्षयः ॥
राक्षसाश्च पुलस्त्यस्य वानराः किन्नरास्तथा ।
पुलहस्य मृगास्सिंहाः व्याघ्रा यक्षा महामृगाः ॥
क्रतोः क्रतुसमाः पुत्राः पतङ्गसहचारिणः ।
विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः ॥
अङ्गुष्ठाद्दक्षिणाद्दक्ष उत्पन्नो भगवानृषिः ।
ब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः ॥
महर्षेस्तस्य भार्या तु वामाङ्गुष्ठादजायत ।
तस्यां पञ्चाशतं कन्यास् स एवाजनयत्प्रभुः ॥
तास्सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः ।
पुत्रिकास्स्थापयामास स्रष्टुः पुत्रः प्रजापतिः ॥
ददौ स दश धर्माय सप्तविंशतिमिन्दवे ।
दिव्येन विधिना राजन् कश्यपाय त्रयोदश ॥
नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे ।
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिश्श्रद्धा क्रिया तथा ॥
बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश ।
भार्या ह्योताश्च धर्मस्य विहिताश्च स्वयम्भुवा ॥
सप्तविंशतिस्सोमस्य पत्न्यो लोकपरिश्रुताः ।
कालस्य नयने युक्ता धर्मपत्न्यश्शुचिव्रताः ।
सर्वा नक्षत्रयोगिन्यो लोकयात्राविधौ स्थिताः ॥
पितामहान्मुनिर्देवस् तस्य पुत्रः प्रजापतिः ।
तस्याष्टौ वसवः पुत्रास् तेषां वक्ष्यामि विस्तरम् ॥
धरो ध्रुवश्चन्द्रमाश्च अापश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः ॥
धूम्रायाश्च धरः पुत्रो ब्रह्मविद्यासुतो ध्रुवः ।
चन्द्रमाश्च मनस्विन्याः श्वसायाः श्वसनस्तथा ॥
रसायाश्च रसः पुत्रश् शाण्डिल्याया हुताशनः ।
प्रत्यूषश्च प्रभासश्च प्रभासायास्सुतौ स्मृतौ ॥
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा ।
आपस्य पुत्रो वा तस्य श्रुतश्शान्तो मुनिस्तथा ॥
ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकाशनः ॥
सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते ।
मनोहरायाश्शिशिरः प्राणोऽथ रमणस्तथा ॥
अग्नेस्स्मृतस्सुतो ज्योतिश् श्रुतुश्शान्तस्तथा मुनिः ।
अग्नेः पुत्रः कुमारस्तु श्रीमाञ्छरवणालयः ॥
तस्य शाखो विशाखश्च नैगमेषश्च पृष्ठतः ।
कृत्तिकास्तन्यपानैश्च कार्तिकेय इति स्मृतः ॥
अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजयः ।
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥
प्रत्यूषसो विदुः पुत्र ऋषिर्नाम्ना तु देवलः ।
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ।
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी ।
योगसिद्धा जगत्सर्वम् असक्ता विचरत्युत ॥
प्रभासस्य तु भार्या सा वसूनामष्टमस्य च ।
प्रासूत विश्वकर्माणं सर्वशिल्पवतां वरम् ॥
विश्वकर्मा महाभागो जज्ञे शिल्पी प्रजापतिः
कर्ता शिल्पिसहस्राणां त्रिदशानां च वर्धकी ॥
भूषणानां च सर्वेषां कर्ता सर्वविदां वरः ।
यो दिव्यानि विमानानि देवतानां चकार ह ॥
मनुष्याश्चोपजीवन्ति तस्य शिल्पं महात्मनः ।
पूजयन्ति च तं नित्यं विश्वकर्माणमव्ययम् ॥
स्तनं तु दक्षिणं भित्त्वा ब्रह्मणः परमेष्ठिनः ।
निस्सृतो भगवान्धर्मस् सर्वलोकसुखावहः ॥
त्रयस्तस्य वराः पुत्रास् सर्वभूतमनोरमाः ।
शमः कामश्च हर्षश्च तेजसा लोकधारिणः ॥
कामस्य तु रतिर्भार्या शमस्य प्रीतिरङ्गना ।
नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः ॥
मरीचेः काश्यपः पुत्रः काश्यपस्य सुरासुराः ।
जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः ॥
त्वाष्ट्री तु सवितुर्भार्या बडबारूपधारिणी ।
असूयत महाभागा सान्तरिक्षेऽश्विनावुभौ ॥
द्वादशैवादितेः पुत्राश् शक्रमुख्या नराधिप ।
तेषामवरजो विष्णुर् यत्र लोकाः प्रतिष्ठिताः ॥
त्रयस्त्रिंशत इत्येते देवास्तेषामहं तव ।
अन्वयं सम्प्रवक्ष्यामि पक्षैश्च कुलतो गणान् ॥
रुद्राणामपरः पक्षः साध्यानां मरुतां तथा ।
वसूनां भार्गवं विद्याद् विश्वान्देवांस्तथैव च ॥
वैनतेयस्तु गरुडो बलवानरुणस्तथा ।
बृहस्पतिश्च भगवान् आदित्येष्वेव गण्यते ॥
अश्विनौ गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून् ।
एष देवगणो राजन् कीर्तितस्तेऽनुपूर्वशः ।
यत्कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते ॥
ब्रह्मणो हृदयं भित्त्वा निर्गतो भगवान्भृगुः ।
भृगोः पुत्रः कविर्विप्रश् शुक्रः कविसुतस्स्मृतः ॥
त्रैलोक्यप्राणयात्रार्थं वर्षावर्षे नयानये ।
स्वयम्भुवा नियुक्तस्सन् भुवनं परिधावति ॥
योगाचार्यो महाविद्यो दैत्यानामभवद्गुरुः ।
सुराणामहिते युक्तो ब्रह्मचारी यतव्रतः ॥
तस्मिन्नियुक्ते विभुना योगक्षेमाय भार्गवे ।
अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम् ॥
च्यवनं दीप्ततपसं धर्मात्मानं यतव्रतम् ।
यस्स रोषाच्च्युतो गर्भाो मातुः क्षेमाय भारत ॥
मानुषी तु पुरा याऽऽसीत् तस्य पत्नी मनीषिणः ।
और्वस्तस्या ऋषिः पत्र ऊरुं भित्त्वा विनिर्गतः ॥
महाबलो महातेजा बाल एव गुणैर्युतः ।
ऋचीकस्तस्य पुत्रस्तु जमदग्निरथोऽभवत् ॥
जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः ।
रामस्तेषां जघन्योऽभूद् अजघन्यैर्गुणैर्वृतः ॥
सर्वशस्त्रास्त्रकुशलः क्षत्रियान्तकरो वशी ॥
और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम् ।
तेषां पुत्रसहस्राणि बभूवुर्भुवि विस्तराः ॥
द्वौ पुत्रो ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति वै जगत् ।
लोके धाता विधाता च चरतो मनुना सह ।
तयोस्तु भगिनी ज्येष्ठा लक्ष्मीः पद्मगृहा शुभा ॥
तस्यास्तु मानसाः पुत्रा वचसा व्योमचारिणः ॥
वरुणस्य भार्या ज्येष्ठाऽभूच्छुक्राद्देवी व्यजायत ।
तस्याः पुत्रशतं विद्धि सुरां च सुरनन्दिनीम् ॥
प्रजानामन्नकामानाम् अन्योन्यपरिभक्षणात् ।
अधर्मस्तत्र सञ्जातस् सर्वभूतविनाशनः ॥
तस्यापि निर्ऋतिर्भार्या नैर्ऋता ये तु राक्षसाः ।
घोरास्तस्यास्त्रयः पुत्राः पापकर्मरतास्सदा ।
भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा ॥
श्येनां क्रौञ्जीं च भासीं च धृतराष्ट्रीं तथा शुकीम् ।
ताम्राऽपि सुषुवे कन्याः पञ्चैता लोकविश्रुताः ॥
द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ ॥
भार्यारुणस्य श्येनी तु वीर्यवन्तौ महाबलौ ।
सम्पातिं जनयामास तथैव च जटायुषम् ॥
भार्या गरुत्मतश्चैव भासी क्रौञ्जी तथा शुकी ।
चतुर्थी धृतराष्ट्री च तास्वपत्यं निबोध मे ।
क्रौञ्जी तु सुषुवे क्रौञ्जान् भासी भासान् व्वजायत ॥
धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः ।
चक्रवाकांश्च भद्रं ते विजज्ञे भरतर्षभ ॥
शुकी विजज्ञे धर्मज्ञ शुकानेव यशस्विनी ।
कल्याणगुणसम्पन्ना सर्वलक्षणपूजिता ॥
ततः क्रोधवशा नाम विजज्ञे भरतर्षभ ।
मृगीं च मृगमन्दां च हरीं भद्रमदामपि ॥
मातङ्गी त्वथ शार्दूलीं श्वेतां सुरभिमेव च ।
सर्वलक्षणसम्पन्नां सुरसां च यशस्विनीम् ॥
अपत्यं तु मृगास्सर्वे मृग्या नरवरात्मज ।
ऋक्षाश्च मृगमन्दायास् सृमराश्चमरा अपि ॥
ततस्त्वैरावतं नागं जज्ञे भद्रमदा सुतम् ।
ऐरावतस्सुतस्तस्या देवनागो महागजः ॥
हर्याश्च हरयोऽपत्यं वानराश्च मनस्विनः ।
गोलाङ्गूलाश्च भद्रं ते विज्ञातव्या हरीसुताः ॥
प्रजज्ञे त्वथ शार्दूली सिंहान् व्याघ्रांश्च भारत ।
द्वीपिनश्च सुतास्तस्याः सर्वे चैव महाबलाः ॥
मातङ्गास्त्वथ मातङ्ग्या अपत्यानि नराधिप ।
दिशागजं तु श्वेताक्षं श्वेताऽजनयदाशुगम् ॥
तथा दुहितरौ राजन् सुरभिर्वै व्यजायत ।
रोहिणीं चैव भद्रं ते गन्धर्वी तु यशस्विनीम् ॥
रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनस्सुताः ॥
सुरसाऽजनयत्सर्पाञ् छतमेकशिरोधरान् ।
सुरसा कन्यका जातास् तिस्रः कमललोचनाः ॥
वनस्पतीनां वृक्षाणां वीरुधां चैव मातरः ।
अनला रुहा च द्वे प्रोक्ते वीरुधां चैव तास्स्मृताः ॥
गृह्णन्ति ये विना पुष्पं फलानि तरवः पृथक् ।
अनलासुतास्ते विज्ञेयास् तानेवाहुर्वनस्पतीन् ।
पुष्पैः फलग्रहान्वृक्षान् रुहायाः प्रसवान्विभो ॥
लतागुल्मानि वल्ल्यश्च त्वक्सारतृणजातयः ।
वीरुधायाः प्रजास्तास्स्यूर् अत्र वंशस्समाप्यते ॥
सर्वपुण्यफलान् वृक्षान् अनलापि व्यजायत ।
अनला तु शुकीपुत्री कद्रुवा सुरसा सुता ॥
अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ ।
सम्पातिं जनयामास तथैव च जटायुषम् ॥
द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ ॥
इत्येष सर्वभूतानां महतां मनुजाधिप ।
सम्भवः कीर्तितस्सम्यक् पूतो भवति पापतः ॥
यं श्रुत्वा पुरुषस्सम्यक् सर्वपापात्प्रमुच्यते ।
सर्वज्ञतां च लभते रतिमग्र्यां च विन्दति ॥ ॥