वैशम्पायनः-
अथ नारायणेनेन्द्रश् चकार सह संविदम् ।
अवतर्तुं महीं स्वर्गाद् भागशस्सहितस्सुरैः ॥
आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः ।
निर्जगाम पुनस्तस्मात् साक्षान्नारायणस्य ह ॥
ते सुरारिविनाशाय सर्वलोकहिताय च ।
अवतेरुः क्रमेणेयं महीं स्वर्गाद्दिवौकसः ॥
ततो ब्रह्मर्षिवंशेषु राजर्षीणां कुलेषु च ।
जज्ञिरे राजशार्दूल यथाकामं दिवौकसः ॥
दानवान् राक्षसांश्चैव गन्धर्वान् पन्नगांस्तथा ।
पुरुषादान्यनेकानि जघ्नुस्सत्वान्यनेकशः ॥
दानवानां च ये मुख्यास् तथा भुजगरक्षसाम् ।
ये तान् बलस्थान् बाल्येऽपि जघ्नुर्भरतसत्तम ॥
जनमेजयः-
देवदानवसङ्घानां गन्धर्वाप्सरसां तथा ।
मानवानां च सर्वेषां तथा वै यक्षरक्षसाम् ॥
श्रोतुमिच्छामि तत्त्वेन सम्भवं कृत्स्नमादितः ।
प्राणिनां चैव सर्वेषां सर्वशस्सर्वविद्ध्यसि ॥
वैशम्पायनः-
हन्त ते कथयिष्यामि नमस्कृत्य स्वयम्भुवे ।
सुरादीनामहं सम्यक्सम्भवं कृत्स्नमादितः ॥
ब्रह्मणो मानसाः पुत्रा विदिताष्षण्महर्षयः ।
मरीचिरत्र्यह्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥
मरीचेः कश्यपः पुत्रः काश्यपात्तु इमाः प्रजाः ।
प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश ॥
अदितिर्दितिर्दनुः काला अनायुस्सिंहिका मुनिः ।
क्रोधा ध्रुवाह्यरिष्टा च विनता कपिला तथा ॥
कद्रूश्च पुरुषव्याघ्र दक्षकन्याश्च भारत ।
एतासां वीर्यसम्पन्नं पुत्रपौत्रमनन्तकम् ॥
अदित्यां द्वादशादित्यास् सम्भूता भुवनेश्वराः ।
ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत ॥
धाता मित्रोऽर्यमा शक्रो वरुणस्त्वंश एव च ।
भगो विवस्वान् पूषा च सविता दशमस्तथा ।
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते ॥
जघन्यजश्च सर्वेषाम् आदित्यानां गुणाधिकः ॥
एक एव दितेः पुत्रो हिरण्यकशिपुस्स्मृतः ।
नाम्ना ख्यातास्तु तस्यैते पञ्च पुत्रा महात्मनः ॥
प्रह्लादः पूर्वजस्तेषां संह्लादस्तदनन्तरम् ।
अनुह्लादस्तृतीयोऽभूत् तस्माच्च शिबिबाष्कलौ ॥
प्रह्लादस्य त्रयः पुत्राः ख्यातास्सर्वत्र भारत ।
विरोचनश्च कुम्भश्च निकुम्भश्चेति विश्रुताः ॥
विरोचनस्य पुत्रोऽभूद् बलिरेकः प्रतापवान् ।
बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः ॥
चत्वारिंशद्दनोः पुत्राः ख्यातास्सर्वत्र भारत ।
तेषां प्रथमजो राजन् विप्रचित्तिर्महायशाः ॥
शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुताः ।
असिलोमा च केशी च दुर्जयश्चैव दानवः ॥
अयश्शिरा अश्वशिरा अयश्शङ्कुश्च वीर्यवान् ।
तथा गगनमूर्धा च वेगवान् केतुमांश्च यः ।
स्वर्भानुरश्वोऽश्वपतिर् वृषपर्वाऽङ्गजस्तथा ॥
अश्वग्रीवश्च सूक्ष्मश्च गुल्गुण्डश्च महाबलः ।
खस्रवश्चैकवित्तश्च विरूपाक्षो महासुरः ॥
निचन्द्रश्च निकुम्भश्च कुपथः कापथस्तथा ॥
शारदश्शरभश्चैव सूर्याचन्द्रमसौ तथा ।
इत्याख्याता दनोर्वंशे दानवाः परिकीर्तिताः ।
अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ तथा ॥
इमे च वंशाः प्रथितास् सत्यवन्तो महाबलाः ।
दनोः पुत्रान्वये जाता दश दानवपुङ्गवाः ॥
एकाक्षो मृतपो वीरः प्रलम्बनरकावपि ।
वातापिश्शत्रुसहनस् सदश्चैव महासुरः ॥
गविष्ठश्च दनायुश्च दीर्घजिह्वश्च दानवः ।
असङ्ख्येयास्स्मृतास्तेषां पुत्रपौत्राश्च भारत ॥
सिंहिका सुपुवे पुत्रं राहुं चन्द्रार्कसूदनम् ।
सुचन्द्रं चन्द्रहर्तारं तथा चन्द्रविमर्दनम् ॥
क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम् ।
गणः क्रोधवशो नाम क्रूरकर्माऽरिमर्दनः ॥
अनायुषः पुनः पुत्राश् चत्वारोऽसुरसम्मताः ।
विक्षरश्च प्रवीरश्च पुत्रश्चैव महासुरः ॥
कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः ।
भुवि ख्याता महावीर्या दानवेषु परन्तप ॥
विनाशनश्च क्रोधश्च क्रोधहन्ता च वीर्यवान् ।
विवर्धनश्च क्रोधश्च कालकेया महासुराः ॥
असुराणामुपाध्यायश् शुक्रो भृगुसुतोऽभवत् ।
ख्याताश्चोशनसः पुत्राश् चत्वारोऽसुरयाजकाः ॥
त्वष्टा परस्तथात्रिश्च द्वावन्यौ भद्रकर्मिणौ ।
तेजसा सूर्यसङ्काशा ब्रह्मलोकप्रभावनाः ॥
इत्येष वंशप्रभवः कथितस्ते तरस्विनाम् ।
असुराणां सुराणां च पुराणे संश्रुतो मया ॥
एतेषां यदपत्यं तु न शक्यं तदशेषतः ।
प्रसङ्ख्यातुं महीपाल गुणभूतमनन्तकम् ॥
तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ ।
आरुणिर्वारुणिश्चैव वैनतेया इति स्मृताः ॥
शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजङ्गमः ।
कूर्मश्च कुललश्चैव काद्रवेया महाबलाः ॥
भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा ।
गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः ॥
पुत्रवानर्कवर्णश्च पृथुगश्चापि विश्रुतः ।
भीमश्चित्ररथश्चैव विख्यातस्सर्वविद्वशी ॥
तथा गाधिशिरा राजन् धृष्टद्युन्नश्चतुर्दशः ।
कलः पञ्चदश्चैव नारदश्चैव षोडशः ॥
इत्येते देवगन्धर्वा मुनयः परिकीर्तिताः ।
ततस्तु भूतान्यन्यानि कीर्तयिष्यामि भारत ॥
अनवद्यानुपगमां मदिरां मार्गणप्रियाम् ।
अनलां सुभगां भासीम् इति प्रावा व्यजायत ॥
सिद्धः पूर्णश्च बह्वी च पूर्णाराश्च महायशाः ।
ब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः ॥
विश्वावसुश्च भानुश्च सुभद्रो दशमस्तथा ।
इत्येते देवगन्धर्वाः प्रावेयाः परिकीर्तिताः ॥
इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम् ॥
अरिष्टा सुमहाभागा देवी देवर्षितः पुरा ।
अलम्बुसा मिश्रकेशी विद्युद्वर्णा दुलानघा ॥
अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा ।
असिता च सुबाहुश्च सुव्रता सुभुजा तथा ॥
हंसो ज्येष्ठस्त्वरिष्टाया विख्यातश्च महाहनुः ।
हाहा हूहूस्तुम्बुरुश्च चत्वारो ग(न्ध)र्वसत्तमाः ॥
अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा ।
अपत्यं कपिलायास्तु पुराणे परिकीर्तितम् ॥
इति ते सर्वदेवानां सम्भवः कथितो मया ।
यथावत्सम्परिख्यातो गन्धर्वाप्सरसां तथा ॥
भुजङ्गानां सुपर्णानाम् असुराणां तथैवच ।
गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम् ॥
आयुष्यं चैव पुण्यं च धन्यं श्रुतिसुखावहम् ।
श्रोतव्यं चैव सततं श्राव्यं चैवानसूयता ॥
इमं तु वंशं नियमेन यः पठन् महात्मनां ब्राह्मणवर्यसन्निधौ ।
अपत्यलाभं लभते च पुष्कलं श्रियं यशः प्रेत्य च शोभनां गतिम् ॥ ॥