जनमेजयः-
य एते कीर्तिता ब्रह्मन् ये चान्ये नानुकीर्तिताः ।
सम्यक् तान् ज्ञातुमिच्छामि राज्ञश्चान्यान् सुवर्चसः ॥
यदर्थमिह सम्भूता देवकल्पा महारथाः ।
भुवि तान् मे महाभाग सम्यगाख्यातुमर्हसि ॥
वैशम्पायनः-
रहस्यं यदिदं राजन् देवानामृषितश्श्रुतम् ।
तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे ॥
त्रिस्सप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा ।
जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे ॥
तदा निःक्षत्रिये लोके भार्गवेण कृते सति ।
ब्राह्मणान्क्षत्रिया राजन् गर्भार्थिन्योऽभिचक्रमुः ॥
ताभिस्सह समापेतुर् ब्राह्मणास्संशितव्रताः ।
ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा ॥
तेभ्यस्तु लेभिरे गर्भान् क्षत्रियास्तास्सहस्रशः ।
ततस्सुषुविरे राजन् क्षत्रियान् वीरसत्तमान् ।
कुमारांश्च कुमारीश्च पुनः क्षत्रियवृद्धये ॥
एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियास्तु तपस्विभिः ।
जातमृध्यत धर्मेण सुदीर्घेणायुषान्वितम् ॥
चत्वारोऽपि तदा वर्णा बभूवुर्ब्राह्मणोत्तमाः ।
अभ्यगच्छंस्ततो नारीं नाकामान्नानृतौ तथा ॥
तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि ।
ऋतौ हि दारान् गच्छन्ति सर्वाणि भरतर्षभ ॥
ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः ॥
ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः ।
आधिभिर्व्याधिभिश्चैव विमुक्तास्सुखमाप्नुयुः ॥
अथेमां सागरापाङ्गां नरेन्द्रेन्द्र धरां किल।
अध्यतिष्ठत् पुनः क्षत्रं सशैलवनकाननाम् ॥
प्रशासति पुनः क्षत्रे धर्मेणेमां वसुन्धराम् ।
ब्राह्मणाद्यास्ततो वर्णा लेभिरे मुदमुत्तमाम् ॥
कामक्रोधोद्भवान्दोषान् निरस्य च नराधिपाः ।
धर्मेण दण्डं दण्ड्येषु दण्डयन्तोऽन्वपालयन् ॥
तथा धर्मपरे क्षत्रे सहस्राक्षश्शतक्रतुः ।
स्वादु देशे च काले च ववर्षाप्याययन्प्रजाः ॥
न बाल एव म्रियते तदा कश्चिन्नराधिप ।
न च स्र्तियं प्रजानाति कश्चिदप्राप्तयौवनः ॥
एवमायुष्यमतीभिस्तु प्रजाभिर्भरतर्षभ ।
इयं सागरपर्यन्ता समापूर्यत मेदिनी ॥
ईजिरे च महायज्ञैः क्षत्रिया भूरिदक्षिणैः ।
साङ्गोपनिषदान्वेदान् विप्राश्चाधीयिरे तदा ॥
न च विक्रीणते ब्रह्म ब्राह्मणाश्च तदा नृप ।
न च शूद्रसमभ्याशे वेदानुच्चारयन्त्युत ॥
कारयन्तः कृषिं गोभिस् तथा वैश्याः क्षिताविह ।
परामयुञ्जन्त धुरि कृशाङ्गां चाप्यजीवयन् ॥
फेनपांश्च तथा वत्सान् न दुहन्ति स्म मानवाः ।
न कूटमानैर्वणिजः पुण्यं विक्रीणते तदा ॥
कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः ।
धर्ममेवानुपश्यन्तश् चक्रुर्धर्मपरायणाः ॥
स्वकर्मनिरताश्चासान् सर्वे वर्णा नराधिप ।
धर्ममेवानुवर्तन्ते न पश्यन्ति स्म किल्बिषम् ॥
बभूवुः कर्मसु स्वेषु सम्यक् सर्वाः प्रजास्स्थिताः ।
एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित् ॥
काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ ।
फलन्त्यृतुषु वृक्षाश्च पुष्पाणि च फलानि च ॥
एवं कृतयुगे सम्यग् वर्तमाने तदा नृप ।
आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम् ॥
ततः समुदिते लोके मानुषैर्भरतर्षभ ।
असुरा जज्ञिरे क्षेत्रे राज्ञां मनुजपुङ्गव ॥
आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि ।
ऐश्वर्याद्भ्रंशिताश्चैव सम्बभूवुः क्षिताविह ॥
इह देवत्वमिच्छन्तो मानुषेपु तपस्विनः ।
जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो ॥
गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च ।
क्रव्यादेषु च भूतेषु गजेषु च मृगेषु च ॥
जातैरिह महीपाल जायमानैश्च तैर्मही ।
न शशाकात्मनात्मानम् इयं धारयितुं तदा ॥
अथ जाता महीपालाः केचिन्मदबलान्विताः ।
दितेः पुत्रा दनोश्चैव देवलोकादिह च्युताः ॥
वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम् ।
इमां सागरपर्यन्तां परीयुररिमर्दनाः ॥
ब्राह्मणान्क्षत्रियान्वैश्यांस् तथा शूद्रानपीडयन् ।
अन्यानि चैव भूतानि पीडयामासुरोजसा ॥
वासयन्तो विनिघ्नन्तस् तांस्तान् भूतगणांश्च ते ।
विचेरुस्सर्वतो राजन् महीं शतसहस्रशः ॥
आश्रमस्थान्महर्षीश्च धर्षयन्तस्ततस्ततः ।
अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च ॥
एवं वीर्यबलोत्सिक्तैर् भूरियं तैर्महासुरैः ।
पीड्यमाना महीपाल ब्रह्माणमुपचक्रमे ॥
न हीमां सवनां राजन् नानाकाननगां महीम् ।
तदा धारयितुं शेकुराक्रान्तां दानवैर्बलात् ॥
ततो मही महीपाल भारार्ता भयपीडिता ।
जगाम शरणं देवं सर्वलोकपितामहम् ॥
सा संयुतं महाभागैर् देवद्विजमहर्षिभिः ।
ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम् ॥
गन्धर्वैरप्सरोभिश्च वन्दिकर्मसु निष्ठितैः ।
वन्द्यमानं मुदोपेतैर् ववन्दे चैनमेत्य सा ॥
अथ विज्ञापयामास भूमिस्तं शरणैषिणी ।
सन्निधौ लोकपालानां सर्वेषामेव भारत ॥
तत्प्रयाणात्पुरा तस्या भूमेः कृत्यं स्वयम्भुवः ।
पूर्वमेवाभवद्राजन् विदितं परमेष्ठिना ॥
स्रष्टा हि गजतः कस्मान्न सम्बुध्येत भारत ।
सुरासुराणां सर्वेषां मानुषाणां मनोगतम् ॥
तामुवाच महातेजा भूमिं भूमिपतिर्विभुः ।
प्रभवस्सर्वभूतानाम् ईशश्शम्भुः प्रजापतिः ॥
यदर्थमसि सम्प्राप्ता मत्सकाशं वसुन्धरे ।
तदर्थं सन्नियोक्ष्यामि सर्वानेव दिवौकसः ॥
उत्तिष्ठ गच्छ वसुधे स्वस्थानमिति साऽगमत् ।
इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च ।
आदिदेश तदा सर्वान् विबुधान्भूतकृत्स्वयम् ॥
अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक् ।
अस्यामेव प्रसूयध्वं तिरोधायेति चाब्रवीत् ॥
तथैव च समानीय गन्धर्वाप्सरसां गणान् ।
उवाच भगवान्सर्वान् इदं वचनमुत्तरम् ॥
स्वैस्स्वैरंशैः प्रसूयध्वं यथेष्टं मानुषेष्विति ॥
अथ शक्रादयस्सर्वे श्रुत्वा सुरगुरोर्वचः ।
तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा ॥
अथ ते सर्वशोंशैस्स्वैर् गन्तुं भूमिं कृतक्षणाः ।
नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः ॥
यस्स चक्रगदापाणिः पीतवासास्सितप्रभः ।
पद्मनाभस्सुरारिघ्नः पृथुचार्वञ्चितेक्षणः ॥
तं भुवश्शोधनायेन्द्र उवाच पुरुषोत्तमम् ।
अंशेनावतरस्वेति तथेत्याह च तं हरिः ॥