वैशम्पायनः-
तथा भीष्मश्शान्तनवो गङ्गायाममितद्युतिः ।
वसुवीर्यात् समभवन्महावीर्यो महायशाः ॥
शूले प्रोतः पुराणर्षिर् अचोरक्षोरशङ्कया ।
आणिमाण्डव्य इति वै विख्यातस्सुमहायशाः ॥
स धर्ममाहूय पुरा महर्षिरिदमुक्तवान् ।
इषीकया मया बाल्याद् एका विद्धा शकुन्तिका ॥
किल्बिषं तद्भवेद्धर्म नान्यत्पापमहं स्मरे ।
तन्मे सहस्व समितं कस्मात्रेहाजयत्तपः ॥
गरीयान्ब्राह्मणवधस् सर्वभूतवधाद्यतः ।
तस्मात्त्वं किल्बिषादस्माच् छूद्रयोनौ भविष्यसि ॥
तेन शापेन धर्मोऽपि शूद्रयोनावजायत ।
विद्वान् बिदुररूपेण धार्मिकः किल्बिषात्ततः ॥
सञ्जयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात् ।
सूर्याच्च कुन्त्यां कन्यायां जज्ञे कर्णो महारथः ।
सहजं कवचं बिभ्रत् कुणडलद्योतिताननः ॥
अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः ।
वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः ॥
अनादिनिधनो देवस् साक्षाल्लोकेश्वरः प्रभुः ॥
आदेरादिस्समस्तानां स कर्ता नकृतः प्रभुः ।
अव्यक्तमक्षरं ब्रह्म प्रधानं निर्गुणात्मकम् ॥
आत्मानमव्ययं चैव प्रकृतेः प्रभवं परम् ।
पुरुषं विश्वकर्माणं सत्ययोगं ध्रुवाक्षरम् ॥
अनन्तमचलं मेरुं हंसं नारायणं प्रभुम् ।
धातारमजरं नित्यं यमाहुः परमव्ययम् ॥
पुरुषस्स विभुः कर्ता सर्वभूतपितामहः ।
धर्मसंस्थापनार्थाय सञ्जज्ञेऽन्धकवृष्णिषु ॥
अस्त्रज्ञौ तु महावीर्यौ सर्वशास्त्रविशारदौ ।
सात्यकिः कृतवर्मा च नारायणमनुव्रतौ ।
सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रिविशारदौ ॥
भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत ।
महर्षेरुग्रतपसस् तस्माद्द्रोणो व्यजायत ॥
गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः ।
अश्वत्थान्मश्च जननी कृपश्चैव महारथः ॥
अश्वत्थामा ततो जज्ञे द्रोणादस्त्रभृतां वरः ।
धृष्टद्युम्नविनाशाय सृष्टो धात्रा महात्मा ॥
तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः ।
वैताने कर्मणि ततः पावकात्समजायत ॥
वीरो द्रोणविनाशाय धनुषा सह वीर्यवान् ॥
तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा ।
विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम् ॥
प्रह्लादशिष्यो नग्रजित् सुबलश्चाभवत्तदा ।
तस्य प्रजा धर्मधात्री जज्ञे देवप्रकोपनात् ॥
गान्धारराजात्सुबलाच् छकुनिस्सौबलस्तथा ।
दुर्योधनस्य माता च जज्ञातेऽर्थविदावुभौ ॥
कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः ।
क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः ॥
पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक् ।
द्वयोस्स्त्रियोर्गुणज्येष्ठस् तेषामासीद्युधिष्ठिरः ॥
धर्माद्युधिष्ठिरो जज्ञे मारुतात्तु वृकोदरः ।
इन्द्राद्धनञ्जयो जज्ञे सर्वशस्त्रविशारदः ॥
जज्ञाते रूपसम्पन्नावश्विभ्यां तु यमावपि ।
नकुलस्सहदेवश्च गुरुशुश्रूषणे रतौ ॥
तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः ।
दुर्योधनप्रभृतयो युयुत्सुचरमास्तथा ॥
अभिमन्युस्सुभद्रायाम् अर्जुनादभ्यजायत ।
स्वस्त्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः ॥
पाण्डवेभ्यो हि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे ।
कुमारारूपसम्पन्नास् सर्वशस्त्रविशारदाः ॥
प्रतिविन्ध्यो युधिष्ठिरात् सुतसोमो वृकोदरात् ।
अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥
तथैव सहदेवाच्च श्रुतसेनः प्रतापवान् ।
हिडिम्बायां तु भीमस्य वने जज्ञे घटोत्कचः ॥
शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वमागता ।
यां यक्षः पुरुषं चक्रे स्थाणुप्रियचिकीर्षया ॥
कुरूणां विग्रहे तस्मिन् समाजग्मुर्बहून्यथ ।
राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे ॥
तेषामपरिमेयानि नामधेयानि सर्वशः ।
न शक्यं परिसङ्ख्यातुं वर्षाणामयुतैरपि ।
एते तु कीर्तिता मुख्या यैराख्यानामिदं ततम् ॥