वैशम्पायनः-
राजोपरिचरो नाम धर्मनित्यो महीपतिः ।
बभूव मृगयाशीलः शश्वत्स्वाध्यायवाञ्छुचिः ॥
स चेदिविषयं रम्यं वसुः पौरवनन्दनः ।
इन्द्रोपदेशाज्जग्राह स्पृहणीयं महीपतिः ॥
तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोरितिम् ।
देवाशड्वज्रसहित उपतस्थे मरुद्गणैः ॥
इन्द्रोऽहमिति धैर्येण तपसा चेत्यमन्यत ।
त्वं नो गतिर्महाराजन् इति वज्र्यवदन्मुहुः ।
तं वै देवपतिस्साक्षात् तपसस्स न्यवर्तत ॥
इन्द्रः-
न सङ्कीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते ।
तं पाहि धर्मो हि धृतः कृत्स्नं पालयते जगत् ॥
देवानहं पालयिता पालय त्वं हि मानुषान् ।
लौक्यं धर्मं पालय त्वं नित्ययुक्तस्समाहितः ॥
धर्मयुक्तस्ततो लोकान् पुण्याल्लप्स्यसि शाश्वतान् ॥
दिविष्ठस्य भुविष्ठस्त्वं सखा भूत्वा मम प्रियः ।
ऊधः पृथिव्या यो देशस् तमावस नराधिप ॥
पशव्यश्चैव पुण्यश्च संस्थिरो धनधान्यवान् ।
सुरक्षश्चैव धन्यश्च भोग्यैर्भूरिगुणैर्युतः ॥
अनन्य एष देशो हि धनरत्नादिभिर्युतः ।
वसो रक्षस्व वसुधां वस चेदिषु चेदिप ॥
धर्मशीला जनपदास् सुसन्तोषाश्च साधवः ।
न च मिथ्या प्रलापोऽत्र स्वैरेष्वपि ततोऽन्यथा ॥
न च पित्रा विभज्यन्ते नरा गुरुहिते रताः ।
युञ्जन्ति धुरि नो गाश्च कृशान् सङ्धुक्षयन्ति च ॥
सर्वे वर्णास्स्वधर्मस्थास् सदा चेदिषु मानवाः ।
न तेऽस्त्यविदितं किञ्चित् त्रिषु लोकेषु यद्भवेत् ॥
देवोपभोग्यं दिव्यं च विमानं स्फाटिकं महत् ।
आकाशगं त्विदं दत्तं विमानमुपलप्स्यते ॥
त्वमेकस्सर्वमर्त्येषु विमानवरमास्थितः ।
चरिष्यस्युपरिस्थो वै देवो विग्रहवानिव ॥
ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम् ।
धारयिष्यति सङ्ग्रामे यां च शस्त्रैरविक्षतः ॥
लाञ्छनं चैतदेवेह भविता ते नराधिप ।
इन्द्रमालेति विख्यातां धन्यमप्रतिमां वह ॥
वैशम्पायनः-
यष्टिं च वैष्णवीं तस्मै ददौ वृत्रनिषूदनः ।
शत्रूणामपि संहत्रीं शिष्टानां परिपालिनीम् ॥
एवं संसान्त्व्य नृपतिं तपसस्संन्यवर्तयत् ।
प्रययौ दैवतैस्सार्धं कृत्वा कार्यं दिवौकसाम् ॥
ततस्तु राजा चेदीनाम् इन्द्राभरणभूषितः ।
इन्द्रदत्तं विमानं तद् आस्थाय प्रययौ पुरीम् ॥
स तु शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा ।
प्रवेशं कारयामास सर्वोत्सववरं तदा ।
मार्गशीर्षे महाराज पूर्वपक्षे महामखम् ॥
तदा प्रभृति चाद्यापि यष्ट्याः क्षितिपसत्तमैः ।
प्रवेशः क्रियते राजन् यथा तेन प्रवर्तितः ॥
अपरेद्युस्ततश्चास्याः कुर्वन्त्येते ध्वजोच्छ्रयम् ।
अलङ्कृताया पुलकैर् गन्धमाल्यैश्च भूषणैः ॥
माल्यदामपरिक्षिप्तां द्वात्रिंशत्किष्कुसम्मिताम् ॥
चतुर्विंशत्यङ्गुलात्मा हस्तः किष्कुरिति स्मृतः ।
उद्धृत्य पीठके चापि द्वादशारत्निकोच्छ्रयते ॥
महाराजतवासोभिः परिक्षिप्य ध्वजोत्तमम् ।
वासोभिरन्नपानैश्च पूजितैर्ब्राह्मणर्षभैः ॥
पुण्याहवाचनं कृत्वा ध्वज उच्छ्रियते तदा ।
शङ्खभेरीमृदङ्गैश्च सन्नाहं चक्रिरे ततः ॥
भगवान्पूज्यते चात्र यष्टिरूपेण वासवः ॥
माणिभद्रादयो यक्षाः पूज्यन्ते दैवतैस्सह ॥
नानाविधानि दानानि दत्त्वार्थिभ्यस्सुहृज्जनैः ।
अलङ्कृत्वा माल्यदामैर् वस्त्रैर्नानाविधैस्तथा ॥
दृतिभिस्सजलैस्सर्वे क्रीडित्वा नृपशासनात् ।
सभाजयित्वा राजानं कृत्वा नर्माश्रयाः कथाः ॥
रमन्ते नागरास्सर्वे तथा जानपदैस्सह ।
सूताश्च मागधाश्चैव रमन्ते नटनर्तकाः ॥
प्रीत्या तु नृपशार्दूल सर्वे चक्रुर्महोत्सवम् ।
सान्तःपुरस्सहामात्यस् सर्वाभरणभूषितः ॥
महाराजनवासांसि वसित्वा चेदिराट् तदा ।
रेजे चेदिपतिस्तस्त्र दिवि देवपतिर्यथा ॥
जातिभिस्तूलिकेनाक्तस् तदा स मुमुदे सदा ।
एवं जानपदास्सर्वे चक्रुरिन्द्रमखं तथा ॥
यथा चेदिपतिः प्रीतश् चकारेन्द्रमखं वसुः ॥
एतां पूजां महेन्द्रस्तु दृष्ट्वा वसुकृतां शुभाम् ।
हरिभिर्वाजिभिर्युक्तम् अन्तरिक्षगतं रथम् ॥
आस्थाय सह शच्या च वृतो ह्यप्सरसां गणैः ।
वसुना राजमुख्येन समागम्याब्रवीद्वचः ॥
इन्द्रः-
ये पूजयिष्यन्ति नरा राजानश्च मखं मम ।
कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृप ॥
तेषां श्रीर्विभवश्चैव स्वराष्ट्राणां भविष्यति ।
तस्येप्सितो जनपदो मुदितश्च भविष्यति ॥
निरीतिकानि सस्यानि भवन्ति बहुधा नृप ।
राक्षसाश्च पिशाचाश्च न लुम्पन्ते कथञ्चन ॥
वैशम्पायनः-
एवं महात्मना तेन महेन्द्रेण नराधिप ।
वसुः प्रीत्या मघवता महाराजेति सत्कृतः ।
एवं कृत्वा महेन्द्रस्तु जगाम स्वं निवेशनम् ॥
उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः ।
भूमिदानादिभिर्दानैर् यथायुक्ता भवन्ति वै ॥
वरदानाल्लभन्ते च तथा शक्रोत्सवेन ते ।
इन्द्रपीत्या भूमिपतिश् चकारेन्द्रमखं वसुः ॥
सम्पूजितो मघवता वसुश्चेदिपतिस्तथा ।
पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम् ॥
पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः ।
नानाराष्ट्रेषु च सुतान् स सम्राडभ्यषेचयत् ॥
महारथो मगधराङ् विश्रुतो यो बृहद्रथः ।
प्रत्यग्रश्च कुशाम्बश्च यमाहुर्मणिवाहनम् ॥
मज्जिल्लश्च यदुश्चैव राजन्यश्चापराजितः ।
एते पञ्च सुतास्तस्य राजर्षेर्भूरितेजसः ॥
न्यवेशयन्नामभिस्स्वैर् देशांश्चैव पुराणि च ।
वासवाश्चैव राजानस् सर्वे वंशकराः पृथक् ॥
वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके रथे ।
उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम् ॥
राजोपरिचरेत्येवम् अवोचन्पार्थिवा नृपम् ॥
पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः ।
अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल ॥
गिरिं कोलाहलं तं तु पदा वसुरताडयत् ।
निश्चक्राम नदी तस्य प्रहारविवरेण सा ॥
तस्यां नद्यामजनयन्मिथुनं पर्वतस्स्वयम् ।
तस्माद्वि मोक्षणात्प्रीता नदी राज्ञे न्यवेदयत् ।
महिषी भविता कन्या पौष्यस्सेनापतिर्भवेत् ॥
शुक्तिमत्या वचश्श्रुत्वा दृष्ट्वा तौ राजसत्तमः ॥
यः पुमानभवत्तत्र तं स राजर्षिसत्तमः ।
वसुर्वसुप्रदश्चक्रे सेनापतिमरिन्दमम् ॥
चकार पत्नीं कन्यां तां दयितां गिरिकां नृपः ।
वसोः पत्नी तु गिरिका कामात् काले न्यवेदयत् ॥
ऋतुकालमनुप्राप्ता काले पुंसवने शुचिः ।
तदहः पितरश्चैनम् ऊचुर्जहि मृगानिति ॥
श्रुत्वा पितृवचः प्रीतस् तदा मतिमतां वरः ।
स पितॄणां नियोगं तम् अनतिक्रम्य पार्थिवः ।
चचार मृगयां कामी गिरिकामेव संस्मरन् ॥
अशोकैश्चम्पकैश्चूतैस् तिलकैरतिमुक्तकैः ।
पुन्नागैः कर्णिकारैश्च वकुलैर्दिव्यपादपैः ॥
पनसैर्नारिकेलैश्च चन्दनैश्चार्जुनैस्तथा ।
एतैरन्यैर्महावृक्षैः पुण्यैस्स्वादुफलैर्युतम् ॥
कोकिलाकुलसन्नादं मत्तभ्रमरनादितम् ।
वसन्तकाले तत्पश्यन् वनं चैत्ररथोपमम् ॥
मन्मथाभिपरीतात्मा नापश्यद्गिरिकां तदा ॥
अपश्यन्कामसन्तप्तश् चरमाणो यदृच्छया ।
पुष्पसञ्छन्नशाखाग्रं पल्लवैरुपशोभितम् ॥
अशोकस्तबकैश्छन्नं रमणीयं तदा नृपः ।
तरोरधस्ताच्छाखायां सुखासीनो नराधिपः ॥
मधुगन्धैश्च सम्पृक्तं पुष्पगन्धं मनोरमम् ।
वायुना प्रेर्यमाणं तम् अघ्राय मुदमन्वगात् ॥
चचार मृगयां कामी गिरिकामेव संस्मरन् ।
अतीव रूपसम्पन्नां साक्षाच्छ्रियमिवापराम् ।
तस्य रेतः प्रचस्कन्द चरतो रुचिरे वने ॥
स्कन्नमात्रेण तद्रेतो वृक्षपर्णेन भूमिपः ।
प्रतिजग्राह मिथ्या मे न स्कन्देद्रेत इत्युत ॥
ऋतुश्च तस्याः पत्न्या मे न मोघस्स्यादिति प्रभुः ।
सञ्चिन्त्यैव तदा राजा विचार्य च पुनःपुनः ॥
अमोघत्वं च विज्ञाय तेजसो राजसत्तमः ।
शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य च ॥
अभिमन्त्र्याशु तच्छुक्रम् आरात्तिष्ठन्तमाशुगम् ।
सूक्ष्मधर्मार्थतत्त्वज्ञो ज्ञात्वा श्येनं ततोऽब्रवीत् ॥
मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय ।
गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य मे ॥
गृहीत्वा तत्तदा श्येनस् तूर्णमुत्पत्य वेगवान् ।
वेगं परममास्थाय प्रदुद्राव विहङ्गमः ॥
तमपश्यदथायान्तं श्येनं श्येनस्तथाऽपरः ।
अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया ॥
तुण्डयुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः ।
युद्ध्यतोरपतद्रेतस् तच्चापि यमुनाम्भसि ॥
तत्राद्रिकेत्यभिख्याता ब्रह्मशापाद्वराप्सराः ।
मीनभावमनुप्राप्ता बभूव यमुनाचरी ॥
श्येनपादात् परिभ्रष्टं तद्वीर्यमथ वासवम् ।
जग्राह तरसोपत्य साऽद्रिका मत्स्यरूपिणी ॥
कदाचिदथ मत्स्यां तां बबन्धुर्मत्स्यघातिनः ॥
मासे च दशमे प्राप्ते तदा भारतसत्तम ।
उज्जह्रुरुदरात्तस्याः स्त्रीपुमांसौ च मानुषौ ॥
आश्चर्यभूतं मत्वा तात् राज्ञस्ते प्रत्यवेदयन् ।
कायान्मात्स्यादिमौ राजन् सम्भूतौ मानुषाविति ॥
तयोः पुमांसं जग्राह राजोपरिचरस्तदा ।
स मात्स्यो नाम राजाऽऽसीद् धार्मिकस्सत्यसङ्गरः ।
साऽप्सरा मुक्तशापा च क्षणेन समपद्यत ॥
पुरोक्ता सा भगवता तिर्यग्योनिगताऽऽशु वै ।
मानुषौ जनयित्वा तु मुक्तशापा भविष्यसि ॥
सुतौ सञ्जजनयित्वा सा विशस्ता मत्स्यघातिभिः ॥
सन्त्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च ।
सिद्धर्षिचारणपथं जगामाथ वराप्सराः ॥
या कन्या दुहिता मत्स्या सा चासीन्मत्स्यगन्धिनी ।
राज्ञा दत्ता च दाशाय सुतेयं ते भवत्विति ।
सा तु रूपसमायुक्ता सर्वैस्समुदिता गुणैः ॥
या तु सत्यवती नाम मत्स्यगात्राभिसंश्रयात् ।
आसीत्सा मत्स्यगन्धैव कञ्चित्कालं शुचिस्मिता ॥
शुश्रूषार्थं पितुर्नावं तां तु वाहयतीं जले ।
तीर्थयात्रां परिक्रामन् अपश्यद्वै पराशरः ॥
अतीव रूपसम्पन्नां सिद्धानामपि काङ्क्षिताम् ।
दृष्ट्वैव स च तां धीमांश् चकमे चारुदर्शनाम् ॥
विद्वांस्ता वासवीं कन्यां कार्यवान् मुनिपुङ्गवः ।
सम्भवं चिन्तयित्वा तां ज्ञात्वा प्रोवाच शक्तिजः ॥
क्व कर्णधारो नौर्येन नीयते ब्रूहि भामिनि ॥
मत्स्यगन्धा-
अनपत्यस्य दाशस्य सुता तत्प्रियकाम्यया ।
सहस्रजनसम्पूर्णा नौर्मया वाह्यते द्विज ॥
पराशरः-
शोभनं वासवि शुभे किञ्चिन्नयसि वाह्यताम् ।
कलशं भविता भद्रे सहस्रार्धेन सम्मितम् ।
अहं शेषो भिविष्यामि नीयतामचिरेण नौः ॥
वैशम्पायनः-
मत्स्यगन्धा तथेत्युक्त्वा नावं वाहयती जले ।
वीक्षमाणं मुनिं दृष्ट्वा प्रोवाचेदं वचस्तदा ॥
मत्स्यगन्धा-
मत्स्यगन्धेति मामाहुर् दाशराजसुतां जनाः ।
जन्म शोकाभितप्तायाः कथं ज्ञास्यसि कथ्यताम् ॥
पराशरः-
दिव्यज्ञानेन दृष्टं हि दृष्टमात्रेण ते वपुः ।
प्रणयोपबृंहणार्थाय वक्ष्ये वासवि तच्छृणु ॥
बर्हिष इति विख्याताः पितरस्सोमपास्तु ते ।
तेषां त्वं मानसी कन्या अच्छोदा नाम विश्रुता ॥
अच्छोदं नाम तद्दिव्यं सरो यस्मात्समुत्थितम् ॥
त्वया न दृष्टपूर्वास्तु पितरस्ते कदाचन ।
सम्भूता मनसा तेषां पितॄन् स्वान्नाभिजानती ॥
सा त्वन्यं पितरं वव्रे स्वानतिक्रम्य तान्पितॄन् ।
नाम्ना वसुरिति ख्यातं मनुपुत्रं महीश्वरम् ॥
अद्रिकाऽप्सरसा युक्तं विमाने दिवि विष्ठितम् ।
सा तेन व्यभिचारेण मनसा कामचारिणी ॥
पितरं प्रार्थयित्वाऽन्यं योगाद्भ्रष्टा पपात ह ।
अपश्यत्पतमाना सा विमानत्रयमन्तिकात् ॥
त्रसरेणुप्रमाणांस्तांस् तत्रापश्यत् स्वकान् पितॄन् ।
सुसूक्ष्मानपरिव्यक्तान् अङ्गैरङ्गेष्विवाहितान् ॥
तातेति तानुवाचार्ता पतन्ती सा ह्यधोमुखी ।
तैरुक्ता सा तु माभैषीस् तेन सा संस्थिता दिवि ॥
ततः प्रसादयामास स्वान्पितॄन्दीनया गिरा ।
त ऊचुः पितरः कन्यां भ्रष्टैश्वर्यां व्यतिक्रमात् ।
भ्रष्टैश्वर्या स्वदोषेण तप्यसे त्वं शुचिस्मिते ॥
यैरारभन्ते कर्माणि शरीरैरिह देवताः ।
तैरेव तत्कर्मफलं प्राप्नुवन्ति स्म देवताः ॥
मनुष्यास्त्वन्यदेहेन शुभाशुभमिति स्थितिः ।
सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे ॥
तस्मात्त्वं पतसे पुत्रि प्रेत्य त्वं प्राप्स्यसे फलम् ॥
पितृहीना तु कन्या त्वं वसोर्हि त्वं सुता मता ।
मत्स्ययोनौ समुत्पन्ना सुता राज्ञो भविष्यसि ॥
अद्रिका मत्स्यरूपाऽभूद् गङ्गायमनुसङ्गमे ।
पराशरस्य दायादं त्वं पुत्रं जनयिष्यसि ॥
स वेदमेकं ब्रह्मर्षिश् चतुर्धा विभजिष्यति ।
महाभिषक्सुतस्यैव शन्तनोः कीर्तिवर्धनम् ॥
ज्येष्ठं चित्राङ्गदं वीरं चित्रवीर्यं च विश्रुतम् ।
एतानुत्पाद्य पुत्रांस्त्वं पुनरेवागमिष्यसि ॥
व्यतिक्रमात्पितॄणां च प्राप्स्यसे जन्म कुत्सितम् ।
अस्यैव राज्ञस्त्वं कन्या ह्यद्रिकायां भविष्यसि ।
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा ॥
एवमुक्ता पुरा तैस्त्वं जाता सत्यवती शुभा ॥
अद्रिकेत्यभिविख्याता ब्रह्मशापाद्वराप्सराः ।
मीनभावमनुप्राप्ता त्वां जनित्वा गता दिवम् ॥
तस्यां जातासि सा कन्या राज्ञो वीर्येण चैव हि ।
तस्माद्वासवि भद्रं ते याचे वंशकरं सुतम् ॥
वैशम्पायनः-
विस्मयाविष्टसर्वाङ्गी जातिस्मरणतां गता ।
साऽब्रवीत्पश्य भगवन् परे पारे स्थितानृषीन् ॥
आवयोश्च कथं ब्रह्मन् भविष्यति समागमः ।
एवं तयोक्ते भगवान् नीहारमसृजद्विभुः ।
येन देशस्स सर्वस्तु तमोवृत इवाभवत् ॥
दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा ।
विस्मिताभूत्ततः कन्या व्रीडिता त्विदमब्रवीत् ॥
विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम् ।
त्वत्संयोगाच्च दुष्येत कन्याभावो ममाऽनघ ॥
कन्यात्वे दूषिते चाहं कथं शक्ष्ये द्विजोत्तम ॥
गन्तुं गृहे गृहं चापि अहं नास्थातुमुत्सहे ।
एतत्सञ्चिन्त्य भगवन् विधत्स्व यदनन्तरम् ॥
एवमुक्तवतीं तां तु प्रीतिमानृषिसत्तमः ।
उवाच मत्प्रियं कृत्वा पुनः कन्या भविष्यसि ॥
वृणीष्व च वरं भद्रे यं त्वमिच्छसि भामिनि ।
वृथा हि न प्रसादो मे भूतपूर्वश्शुचिस्मिते ॥
एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम् ।
स चास्यै वरदः प्रादाद् भगवान् काङ्क्षितं प्रभुः ॥
ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता ।
जगाम सह संसर्गम् ऋषिणाऽद्भुतकर्मणा ॥
तेन गन्धवतीत्येवं नामास्याः प्रथितं भुवि ।
तस्यास्तु योजनाद्गन्धम् आजिघ्रन्त नरा भुवि ।
तस्या योजनगन्धेति ततो नामापरं स्मृतम् ॥
वैशम्पायनः-
एवं सत्यवती हृष्टा पूजां लब्ध्वा यथेष्टतः ।
पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा ॥
जज्ञे च यमुनाद्वीपे पाराशर्यस्स वीर्यवान् ॥
जातमात्रस्स ववृधे सप्तवर्षोऽभवत्तदा ।
स्रात्वाभिवाद्य पितरं तस्थौ व्यासस्समाहितः ॥
स्वस्तीति वचनं चोक्त्वा ददौ कलशमुत्तमम् ।
गृहीत्वा कलशं पार्श्वे तस्थौ व्यासो महामुनिः ॥
ततो दाशभयात्पत्नी स्नात्वा कन्या बभूव सा ।
अभिवाद्य मुनेः पादौ पुत्रं जग्राह पाणिना ॥
स्पृष्टमात्रे स निर्भर्त्स्य मातरं वाक्यमब्रवीत् ।
मम पित्रा तु संस्पर्शान्मातस्त्वमभवश्शुचिः ।
अद्य दाशसुता कन्या न स्पृशेर्मामनिन्दिते ॥
वैशम्पायनः-
व्यासस्य वचनं श्रुत्वा बाष्पपूर्णमुखी तदा ।
मनुष्यभावात्सा योषित् पतिता मुनिपादयोः ॥
ततः प्रसन्नो भगवान् पुत्रं प्रोवाच धर्मवित् ॥
पराशरः-
मा त्वमेवंविधं कार्षीर् नैतद्धर्म्यं मतं हि नः ।
दूष्यौ न मातापितरौ तथा पूर्वोपकारिणौ ।
धारणाद्दुःखसहनात् तयोर्माता गरीयसी ॥
बीजक्षेत्रसमायोगाद् यथा सस्यं प्रजायते ।
जायते च सुतस्तद्वत् पुरुषस्त्रीसमागमे ॥
मृगीणां पक्षिणां चैव अप्सराणां तथैव च ।
शूद्रयोन्यां च जायन्ते मुनयो वेदपारगाः ॥
ऋष्यश्रृङ्गो मृगीपुत्रः कण्वो बर्हिसुतस्तथा ।
अगस्त्यश्च वसिष्ठश्च ऊर्वश्यां जनितावुभौ ॥
सोमश्रवास्तु सर्प्यां तु अश्विनावश्वसम्भवौ ।
स्कन्दस्स्कन्नेन शुक्लेन जातश्शरवणे पुरा ॥
एवमेव च देवानाम् ऋषीणां चैव सम्भवः ।
लोकवादप्रवृत्तिर्हि न मीमांस्या बुधैस्सदा ॥
वेदव्यास इति प्रोक्तः पुराणे च स्वयम्भुवा ।
धर्मनेता महर्षीणां मनुष्याणां त्वमेव च ॥
तस्मात्पुत्र न दूष्येत वासवी योगचारिणी ।
मत्प्रीत्यर्थं महाप्राज्ञ सस्नेहं वक्तुमर्हसि ॥
प्रजाहितार्थं सम्भूतो विष्णोर्भागो महानृषिः ।
तस्मात्स्वमातरं स्नेहात् प्रब्रवीहि तपोधन ॥
वैशम्पायनः
गुरोर्वचनमाज्ञाय व्यासः प्रीतोऽभवत्तदा ।
चिन्तयित्वा लोकवृत्तं मातुरङ्कमथाविशत् ॥
पुत्रस्पर्शात्तु लोकेषु नान्यत्सुखमतीव हि ।
व्यासं कमलपत्राक्षी परिष्वज्याश्रु वर्तयत् ॥
स्तन्यासारैः क्लिद्यमाना पुत्रमाघ्राय मूर्धनि ॥
वासवी-
पुत्रलाभात्परं लोके नास्तीह प्रसवार्थिनाम् ।
दुर्लभं चेति मन्येऽहं मया प्राप्तं महत्तपः ॥
महता तपसा तात महायोगबलेन च ।
मया त्वं हि महाप्राज्ञ लब्धोऽमृतमिवामरैः ।
तस्मात्त्वं मामृषेः पुत्र त्यक्तुं नार्हसि साम्प्रतम् ॥
वैशम्पायनः
एवमुक्तस्ततस्स्नेहाद् व्यासो मातरमब्रवीत् ॥
त्वया स्पृष्टः परिष्वक्तो मूर्ध्नि चाघ्रायितो मुहुः ।
एतावन्मात्रया प्रीता भविष्येथा नृपात्मजे ।
स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत् ॥
स मातरमनुज्ञाप्य तपस्येव मनो दधे ॥
ततः कन्यामनुज्ञाय पुनः कन्या भवत्विति ।
पराशरोऽपि भगवान् पुत्रेण सहितो ययौ ॥
गत्वाश्रमपदं पुण्यम् अदृश्यन्त्याः पराशरः ।
जातकर्मादिसंस्कारं कारयामास धर्मतः ॥
कृतोपनयनो व्यासो याज्ञवल्क्येन भारत ।
वेदानधिजगौ साङ्गान् ओङ्कारेण त्रिमात्रया ॥
गुरवे दक्षिणां दत्त्वा तपः कर्तुं प्रचक्रमे ।
एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् ।
द्वीपे न्यस्तस्स यद्बालस् तस्माद्द्वैपायनोऽभवत् ॥
पादापसारिणं धर्मं विद्वान् स तु युगे युगे ।
आयुश्शक्तिं च मर्त्यानां युगाद्युगमवेक्ष्य च ॥
ब्रह्मर्षिर्ब्राह्मणानां च तथाऽनुग्रहकाम्यया ।
विव्यास वेदान् यस्माच्च तस्माद्व्यास इति स्मृतः ॥
ततस्स महर्षिर्विद्वाञ् शिष्यानाहूय धर्मवित् ।
सुमन्तुं जैमिनिं पैलं शुक्रं चैव स्वमात्मजम् ॥
प्रभुर्वरिष्ठो वरदो वैशम्पायनमेव च ।
वेदानध्यापयामास महाभारतपञ्चमान् ॥
संहितास्तैः पृथक्त्वेन भारतस्य प्रकीर्तिताः ॥
ततस्सत्यवती हृष्टा जगाम स्वं निवेशनम् ।
तस्यास्त्वायोजनाद्गन्धम् आजिघ्रन्ति नरा भुवि ।
दाशराजस्तु तद्गन्धम् आजिघ्रन्प्रीतिमावहत् ॥
दाशः-
त्वामाहुर्मत्स्यगन्धेति कथं बाले सुगन्धता ।
अपास्य मत्स्यगन्धत्वं केन दत्ता सुगन्धता ॥
शक्तेः पुत्रो महाप्राज्ञः पराशर इति स्मृतः ॥
नावं वाहयमानाया मम दृष्ट्वा सुगर्हितम् ।
अपास्य मत्स्यगन्धत्वं योजनाद्गन्धतां ददौ ॥
ऋषेः प्रसदं दृष्ट्वा तु जनाः प्रीतिमुपागमन् ।
एवं लब्धो मया गन्धो न रोषं कर्तुमर्हसि ॥
वैशम्पायनः-
दाशराजस्तु तद्वाक्यं प्रशशंस ननन्द च ।
एतत्पवित्रं पुण्यं च व्याससम्भवमुत्तमम् ।
इतिहासमिमं श्रुत्वा प्रजावन्तो भवन्ति वै ॥ ॥