वैशम्पायनः-
पूरोर्वंशमहं धन्यं राज्ञाममिततेजसाम् ।
प्रवक्ष्यामि पितॄणां ते तेषां नामानि मे शृणु ॥
अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ।
तस्मान्मरीचिस्सञ्जज्ञे दक्षश्चैव प्रजापतिः ॥
अङ्गुष्ठाद्दक्षमसृजच् चक्षुर्भ्यां च मरीचिनम् ।
मरीचेः काश्यपः पुत्रो दक्षस्य दुहिताऽदितिः ॥
अदित्यां काश्यपस्य विवस्वान् ।
विवस्वतो मनुः ।
मनोरिला ॥
इलायाः पुरूरवाः ।
पुरूरवस आयुः ।
आयुषो नहुषः ।
नहुषस्य ययातिः ॥
ययातेर्द्वे भार्ये बभूवतुः ।
उशनसो दुहिता देवयानी, वृषपर्वणश्च दुहिता शर्मिष्ठा नाम ॥
तत्रानुवंशो भवति-
यदुं च तुर्वशुं चौभौ देवयानी व्यजायत ।
द्रुह्यं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥
तत्र यदोर्यादवाः ।
पूरोः पौरवाः ।
पूरोर्भार्या कौसल्या बभूव ।
तस्यामस्य जज्ञे जनमेजयः ॥
स त्रीन् हयमेधानाजहार ।
विश्वजिता चेष्ट्वा वनं प्रविवेश ॥
जनमेजयस्तु खलु सुनन्दां नामोपयेमे ।
तस्यामस्य जज्ञे प्राचीन्वान् ॥
यः प्राचीं दिशं जिगाय यावत्सूर्याोदयात् ।
तत्तस्य प्राचीन्वत्त्वम् ॥
प्राचीन्वांस्तु खल्वाश्मकीमुपयेमे सुषावान्नाम ।
तस्यामस्य जज्ञे शय्यातिः ॥
शय्यातिस्तु त्रिशङ्कोर्दुहितरं वराङ्गीं नामोपयेमे ।
तस्यामस्य जज्ञेऽहम्पातिः ॥
अहम्पातिस्तु खलु कृतवीर्यदुहितरं भानुमतीं नामोपयेमे ।
तस्यामस्य जज्ञे सार्वभौमः ॥
सार्वभौमस्तु खलु जित्वाऽऽजहार कैकयीं सुन्दरां नाम ।
तस्यामस्य जज्ञे महाभौमः ॥
महाभौमस्तु खलु प्रसेनजिद्दुहितरमुपयेते सुयज्ञां नाम ।
तस्यामस्य जज्ञे अयुतानायी ॥
यः पुरुषमेधे पुरुषाणामयुतमानयत्तत्तस्यायुतानायित्वम् ॥
अयुतानायी तु खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम ।
अस्यामस्य जज्ञेऽक्रोधनः ॥
अक्रोधनस्तु कालिङ्गी करण्डुं नामोपयेमे ।
तस्यामस्य जज्ञे देवातिथिः ॥
देवातिथिस्तु खलु वैदर्भीमुपयेमे मर्यादां नाम ।
तस्यामस्य जज्ञे ऋचः ॥
ऋचस्तु खलु वामदेव्यामङ्गराजकन्यायामृक्षं पुत्रमजीजनत् ॥
ऋक्षस्तु खलु तक्षकदुहितरं ज्वलन्तां नामोपयेमे ।
तस्यामन्तिनारमजीनत् ॥
अन्तिनारस्तु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार ।
तमुदवसाने निर्वृत्ते सरस्वत्यभिगम्य भर्तारं वरयामास ।
तस्यां पुत्रं जनयामास त्रस्नुं नाम ॥
अत्रानुवंशो भवति ॥
त्रस्नुस्सरस्वतीपुत्र अन्तिनारादजायत ।
इलिलं जनयामास कालिन्द्यां त्रस्नुरात्मजम् ॥
इलिलस्तु रथन्तरायां दुष्यन्तादीन् पञ्च पुत्रानजीजनत् ॥
दुष्यन्तस्तु खलु लाक्ष्मणां नाम भागीरथीमुपयेमे ।
तस्यामस्य जज्ञे जनमेजयः ॥
स एव दुष्यन्तो विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे ।
तस्यामस्य जज्ञे भरतः ॥
तत्रेमौ श्लोकौ भवतः-
माता भस्त्रा पितुः पुत्रो यस्माज्जातस्स एव सः ।
भरस्व पुत्रं दौष्यन्तिं सत्यमाह शकुन्तला ॥
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् ।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥
ततोऽस्य भरतत्वम् ॥
भरतस्तु खलु काशेयीं सार्वसेनीमुपयेमे सुनन्दां नाम ।
तस्यामस्य जज्ञे भुमन्युः ॥
भुमन्युस्तु खलु दाशार्हीमुपयेमे सुवर्णां नाम ।
तस्यामस्य जज्ञे सुहोत्रः ॥
सुहोत्रस्तु खल्वैक्ष्वाकीमुपयेमे जयन्तीं नाम ।
तस्यामस्य जज्ञे हस्ती ।
य इदं पुरमावासयामास ।
तस्माद्धस्तिनपुरत्वम् ॥
हस्ती तु त्रैगर्तीमुपयेमे यशोधरां नाम ।
तस्यामस्य जज्ञे विकुञ्जनः ॥
विकुञ्जनस्तु दाशार्हीमुपयेमे विन्दां नाम ।
तस्यामस्य जज्ञेऽजमीढः ॥
अजमीढस्य तु चतुर्विंशतिपुत्रशतं बभूव-कैकय्यां नागायां गान्धार्यां विमलायामृक्षायामिति ।
पृथग्वंशकर्तारो नृपतयः ॥
अजमीढादृक्षायां वंशकरस्संवरणो जज्ञे ॥
संवरणस्तु खलु वैवस्वतीं तपतीं नामोपयेमे ।
तस्यामस्यजज्ञे कुरुः ॥
कुरुस्तु दाशार्हीमुपयेमे शुभां नाम ।
तस्यामस्य जज्ञे विडूरथः ॥
विडूरथस्तु खलु मागधीमुपयेमे सम्प्रियां नाम ।
तस्यामस्य जज्ञेऽनश्वान् ॥
अनश्वांस्तु मागधीमुपयेमे सुवेषां नाम ।
तस्यामस्य जज्ञे परिक्षित् ॥
परीक्षित्तु बाहुकामुपयेमेऽमृतां नाम ।
तस्यामस्य जज्ञे भीमसेनः ॥
भीमसेनस्तु खलु कैकयीमुपयेमे सुकुमारीं नाम ।
तस्यामस्य जज्ञे पर्यश्रवाः ।
यमाहुः प्रतीप इति ॥
प्रतीपस्तु शैब्यामुपयेमे सुनन्दां नाम ।
तस्यां त्रीन् पुत्रानुत्पादयामास देवापिं शन्तनुं बाह्लीकं चेति ॥
देवापिस्तु खलु बाल एवारण्यं प्रविवेश ।
शन्तनुस्तु महीपालोऽभवत् ॥
तत्र श्लोको भवति-
यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते ।
पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः ।
तत्तस्य शन्तनुत्वम् ॥
शन्तनुस्तु खलु गङ्गां भागीरथीमुपयेमे ।
तस्यामस्य जज्ञे देवव्रतः ।
यमाहुर्भीष्म इति ॥
भीष्मस्तु पितुः प्रीतिचिकीर्षया सत्यवतीमानयामास मातरं ।
यामाहुः कालीति ॥
तस्यां पूर्वं पुराशरात्कन्यागर्भो द्वैपायनः ।
तस्यामेव शन्तनोर्द्वौ पुत्रौ बभूवतुः चित्राङ्गदो विचित्रवीर्यश्च ॥
चित्राङ्गदस्तवप्राप्तयौवन एव गन्धर्वेण निहतः ।
ततो विचित्रवीर्यो राजा बभूव ॥
विचित्रवीर्यस्तु खलु काशिराजस्य सुते अम्बिकाम्बालिके उदवहत् ।
स विचित्रवीर्योऽनुत्पन्नापत्य एव विदेहत्वं प्राप्तः ॥
ततो गन्धवती चिन्तयामास, कथं नु खलु शन्तनोः पिण्डविच्छेदो न स्यादिति ॥
सा थ द्वैपायनं चिन्तयामास, सोऽग्रतस्स्थितः किं करवाणीति ।
तं सत्यवत्युवाच, भ्राता तेऽनपत्य एव स्वर्गतः, तस्यार्थेऽपत्यमुत्पादयेति ॥
स परमित्युवाच, स तत्र त्रीन्पुत्रानुत्पादयामास-धृतराष्ट्रं पाण्डुं विदुरं चेति ॥
धृतराष्ट्रास्य राज्ञः पुत्राणां शतं बभूव गान्धर्यां वरदानात् तेषां च धार्तराष्ट्राणां चत्वारः प्रधानाः-दुर्योधनो दुश्शासनो विकर्णश्चित्रसेनश्चेति ॥
पाण्डोस्तु कुन्ती माद्रीति स्त्रीरत्ने बभूवतुः ।
स मृगयां चरन् मैथुनगतमृषिं मृगचारिणं बाणेनाजघान ॥
स बाणविद्ध उवाच पाण्डुम् ॥
अत्र श्लोको भवति-
योऽकृतार्थं हि मां क्रूर बाणेनाघ्ना मृगव्रतम् ।
त्वामप्येतादृशो भावः क्षिप्रमेवागमिष्यति ॥
इति मृगव्रतचारिणा ऋषिणा शप्तः ॥
स विषण्णरूपः पाण्डुस्तं शापं परिहरन्नोपसर्पति भार्ये ॥
आह च स्वभार्याम् ।
स्वचापल्यादिदं प्राप्तवानहम् ।
शृणोमि नानपत्यस्य लोकास्सन्तीति ।
ममार्थे पुत्रानुत्पादयेति कुन्तीमुवाच ॥
सा पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनमिन्द्रादर्जुनमिति ॥
स हृष्टरूपः पाण्डुरुवाच-
इयं ते सपत्नी भवति ह्यनपत्या व्रीडिता साध्वी अस्यामपत्यमुत्पाद्यतामिति ॥
तस्यां नकुलसहदेवौ यमावश्विभ्यां जज्ञाते ॥
माद्रीं तु स्वलङ्कृतां दृष्ट्वा पाण्डुर्भावं चक्रे ।
स तां प्राप्यैव विदेहत्वं प्राप्तः ॥
तत्रेनं चितायामन्वारुरोह माद्री ।
कुन्तीं चोवाच यमयोरार्ययाऽप्रमत्तया भवितव्यमिति ॥
ततः पञ्च पाण्डवान् सह कुन्त्या हास्तिनपुरं नयन्ति स्म तपस्विनः ॥
तत्र भीष्माय धृतराष्ट्रविदुरयोः पाण्डोः स्वर्गगमनं याथातथ्यं निवेदयन्ति स्म तपस्विनः ॥
पाण्डवान् सह कुन्त्या जतुगृहे दाहयितुकामो धृतराष्ट्रात्मजोऽभूत् ॥
तांश्च विदुरो मोक्षयामास प्रीतोऽभवत् ॥
ततो हिडिम्बं हत्वा एकचक्रां जग्मुः कुशलिनः ॥
पाञ्चालविषयं गत्वा स्वयंवरे द्रौपदीं लब्ध्वाऽर्धराज्यं प्राप्येन्द्रप्रस्थनिवासिनस्तस्यां पुत्रानुत्पादयामासुर्द्रौपद्याम्-प्रतिविन्ध्यां युधिष्ठिरः, सुतसोमं वृकोदरः, श्रुतकर्माणमर्जुनः, शतानीकं नकुलः, श्रुतसेनं सहदेव इति ॥
शैव्यस्य कन्यां देविकां नामोपयेमे युधिष्ठिरः ।
तस्यां पुत्रं जनयामास युधिष्ठिरो यौधेयं नाम ॥
भीमसेनस्तु वाराणस्यां काशिराजकन्यां बलधरां नामोदवहत् स्वयंवरस्थां ।
तस्यामस्य जज्ञे शर्वत्रातः ॥
भीमसेनस्तु पूर्वमेव हिडिम्बायां राक्षस्यां जनयामास घटोत्कचं नाम ॥
अर्जुनस्तु खलु द्वारवतीं गत्वा भगवतो वासुदेवस्य भगिनीं सुभद्रां नामोदवहत् ।
तस्यामभिमन्युं नाम पुत्रं जनयामास ॥
अर्जुनस्तु नागकन्यायामुलूप्यामिरावन्तं नाम पुत्रं जनयामास ॥
ततो मणलूरूपतिकन्यायां चित्राङ्गदायामर्जुनः पुत्रमुत्पादयामास बभ्रुवाहनं नाम ॥
नकुलस्तु खलु चैद्यां रेणुमतीं नामोपयेमे ।
तस्यां पुत्रं जनयामास निरमित्रं नाम ॥
सहदेवस्तु खलु माद्रीमेव स्वयंवरे विजयां नामोदवहद्भार्याम् ।
तस्यां पुत्रं जनयामास सुहोत्रं नाम ॥
एते त्रयोदश पुत्राः पाण्डवानाम् ॥
विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपेयेमे ।
तस्यामस्य परासुर्गर्भोऽजायत ॥
तमुत्सङ्गे प्रतिजग्राह पृथिवी नियोगात्पुरुषोत्तमस्य ॥
सौभद्रस्य षाण्मासिकं गर्भमहं जीवयामि पादस्पर्शादिति वासुदेव उवाच ॥
अहं जीवयामि कुमारमनन्तवीर्यं जात एवायमजायतः ।
अभिमन्योस्सत्येन चेयं पृथिवी धारयत्विति वासुदेवस्य पादस्पर्शात्सजीवोऽजायत ॥
नाम तस्याकरोत्सुभद्रा-
परिक्षीणे कुले जात उत्तरायां परन्तपः ।
परिक्षिदभवत्तस्मात् सौभद्रात्तु यशस्विनः ॥
परीक्षित्तु खलु भद्रवतीं नामोपयेमे ।
तस्यां तत्र भवाञ्जनमेजयः ॥
जनमेजयात्तु भवतः खलु वपुष्टमायां पुत्रौ द्वौ शतानीकः शङ्खश्च ॥
शतानीकस्तु खलु वैदर्भीमुपयेमे ।
तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः ॥
इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः ।
पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते ॥ ॥