जनमेजयः-
कथितं वै समासेन त्वया सर्वं द्विजोत्तम ।
महाभारतमाख्यानं कुरूणां चरितं महत् ॥
कथां तेषां विचित्रार्थाम् इमां कथयति त्वयि ।
विस्तरश्रवणे जातं कौतूहलमतीव मे ॥
स भवान्विस्तरेणेमां पुनराख्यातुमर्हति ।
न हि तृप्यामि पूर्वेषां शृण्वन्नाचरितं महत् ॥
न तत्कारणमल्पं हि धर्मज्ञा यत्र पाण्डवाः ।
अवध्यान् सर्वतो जघ्नुः प्रशस्यन्ते च मानवैः ॥
किमर्थं ते नरव्याघ्राश् शन्तास्सन्तोऽप्यनागसः ।
प्रयुज्यमानान् सङ्क्लेशान् क्षान्तवन्तो दुरात्मभि ॥
कथं नागायुतप्राणो बाहुशाली वृकोदरः ।
परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम ।
भ्रातॄणां क्लेशमायातं धृतवान् वै परन्तपः ॥
कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः ।
शक्ता सती धार्तराष्ट्रान् नादहद्धोरचक्षुषा ॥
कथं व्यतिक्रमं द्यूते पार्था माद्रीसुतौ तदा ।
अन्वव्रजन्नरव्याघ्रं वञ्च्यमाना दुरात्मभिः ॥
कथं धर्मभृतां श्रेष्ठस् सुतो धर्मस्य धर्मवित् ।
अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः ॥
कथं च बहुलां सेनां पाण्डवः कृष्णसारथिः ।
अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनञ्जयः ॥
एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन ।
यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः ॥
वैशम्पायनः-
महर्षेस्सर्वलोकेस्य पूजितस्य महात्मनः ।
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥
इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम् ।
उपाख्यानैस्सह ज्ञेयं श्राव्यं भारतमुत्तमम् ॥
सङ्क्षेपेण तु वक्ष्यामि सर्वमेतन्नराधिप ॥
अध्यायानां सहस्रे द्वे पर्वणां शतमेव च ।
श्लोकानां तु सहस्राणि नवतिश्च दशैव च ।
ततोऽष्टादशभिः पर्वैस् सङ्गृहीतं महात्मना ॥
य इदं श्रावयेद्विद्वान् येश्चेदं शृणुयान्नरः ।
स प्राप्य ब्रह्मणस्सथानं देवैर्याति च तुल्यताम् ॥
इदं हि वेदैस्समितं पवित्रं चोत्तमं महत् ।
श्राव्याणामुत्तमं श्राव्यं पुराणमृषिसंस्कृतम् ॥
अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदेश्यते ।
इतिहासे महापुण्ये बुद्धिश्च परमार्पिता ॥
अक्षुद्रान् दानशीलांश्च सत्यशीलाननास्तिकान् ।
कार्ष्णं वेदमिमं विद्वाञ् ज्ञापयित्वाऽर्थमश्नुते ॥
मुच्यते भ्रूणहत्याया यच्चान्यद्वृजिनं भवेत् ।
इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणाः ॥
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा ।
महीं विजयते सर्वां शत्रूंश्चापि पराजयेत् ॥
इदं स्वस्त्ययनं श्रेष्ठम् इदं पुंसवनं महत् ।
महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा ॥
अर्थशास्त्रमिदं पुण्यं धर्मशास्त्रमिदं महत् ।
मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामिततेजसा ॥
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥
इदं हि ब्राह्मणैर्लोके आख्यातं ब्राह्मणेष्विह ॥
सम्प्रत्याचक्षते चैव कथयिष्यन्ति चापरे ।
पुत्राश्शुश्रूषवस्सन्ति प्रेष्याश्च प्रियवादिनः ॥
भरतानां महज्जन्म शृण्वन्तोह्यनसूयवः ।
धन्यं यशस्यमायुष्यं स्वर्ग्यं पुण्यं तथैव च ॥
शरीरेण कृतं पापं वाचा च मनसैव च ।
सर्वं त्यजति वै क्षिप्रम् इदं शृण्वन्नरस्तदा ॥
कीर्तिं प्रथयता लोके पाण्डवानां यशस्विनाम् ।
कृष्णद्वैपायनेनेदं कृतं धर्मचिकीर्षुणा ।
अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥
योऽधीते भारतं पुण्यं ब्राह्मणो नियतव्रतः ।
चतुरो वार्षिकान्मासान् सर्वपापैः प्रमुच्यते ॥
विज्ञेयस्सर्ववेदानां पारगो भारतं वदन् ॥
देवा ब्रह्मर्षयो यत्र पुण्या राजर्षयस्तथा ।
कीर्त्यन्ते हृतपाप्मानः कीर्त्यते केशवस्तथा ॥
त्रिभिर्वर्षैर्हमहाभागः कृष्णद्वैपायनोऽब्रवीत् ।
नित्योत्थितस्सदायोगी महाभारतमादितः ॥
यश्चेदं पठते विद्वान् सदा पर्वसु पर्वसु ।
धूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्छति ॥
यस्तु राजा श्रृणोतीदम् अखिलामश्नुते महीम् ।
प्रसूते गर्भिणी पुत्रं कन्या चाशु प्रदीयते ॥
वाणिजस्सिद्धयात्रास्सयुर् वीरा विजयमाप्नुयुः ।
आस्तिकान् श्रावयेन्नित्यं ब्राह्मणाननसूयकान् ॥
वेदविद्याव्रतस्नातान् क्षत्रियाञ्जयमास्थितान् ।
स्वधर्मनित्यान् वैश्यांश्च श्रावयेत्क्षत्रसंश्रितान् ॥
एष धर्मः पुरा दृष्टः सर्वधर्मेषु भारत ।
ब्राह्मणाच्छ्रवणं राजन् विशेषेण विधीयते ॥
भूयो वा यः पठेन्नित्यं स गच्छेत्परमां गतिम् ।
श्लोकं वाप्यनुगृह्णीत तथाऽर्धश्लोकमेव वा ॥
अपि पादं पठेन्नित्यं न च निर्भारतो भवेत् ।
इह नैकाश्रयं जन्म राजर्षीणां महात्मनाम् ॥
इह मन्त्रपदं युक्तं धर्मं चानेकदर्शनम् ।
इह युद्धानि चित्राणि राज्ञां वृद्धिरिहैव च ॥
ऋषीणां च कथास्तात इह गन्धर्वरक्षसाम् ।
इह तत्तत्समासाद्य विहितो वाक्यविस्तरः ॥
तीर्थानां नाम पुण्यानां देशानां चेह कीर्तनम् ।
वनानां वर्वतानां च नदीनां सागरस्यच ॥
देशानां चैव पुण्यानां पुराणां चैव कीर्तनम् ।
उपचारस्तथैवाग्र्यो वीर्यमप्यतिमानुषम् ॥
इह सत्कारयोगश्च भारते परमर्षिणा ।
रथाश्वेभनरेन्द्राणां कल्पना युद्धकौशलम् ॥
ख्यातौ रत्नाकरं तद्वन् महाभारतमुच्यते ॥
नाप्रीतिरुपपद्येत यथा प्राप्य त्रिविष्टपम् ।
पुण्यं तथेदमाख्यानं श्रुत्वा प्रीतिर्भवत्युत ॥
कुलस्य वृद्धये राजन् आयुषे विजयाय च ।
श्रृणु कीर्तयतः कृत्स्नम् इतिहासं पुरातनम् ॥
यश्चेदं श्रावयेत्पिञ्ये ब्राह्मणान्पादमन्ततः ।
अक्षय्यमन्नपानं तत् पितॄंस्तस्योपतिष्ठति ॥
प्रातर्यदेनः कुरुते इन्द्रियैर्ब्राह्मणश्चरन् ।
महाभारतमाख्याय पश्चात् सन्ध्यां प्रमुच्यते ॥
रात्रौ यदेनः कुरुते इन्द्रियैब्राह्मणश्चरन् ।
महाभारतमाख्याय पूर्वां सन्ध्यां प्रमुच्यते ॥
भारतानां महज्जन्म महाभारतमुच्यते ।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥
त्रिभिर्वर्षैर्महाभागः कृष्णद्वैपायनोऽब्रवीत् ।
नित्योत्थितो महायोगी महाभारतमादितः ॥