वैशम्पायनः-
शृणु राजन् यथा वीरा भ्रातरः पञ्च पाण्डवाः ।
विरोधमन्वगच्छन्त धार्तराष्ट्रैर्दुरात्मभिः ॥
गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः ।
सम्पूज्य च द्विजान्सर्वांस् तथान्यान्विदुषो जनान् ॥
महर्षेस्सर्वलोकेषु विश्रुतस्यास्य धीमतः ।
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥
श्रोतुं पात्रं तु राजंस्त्वं प्राप्येमां भारतीं कथाम् ।
गुरोर्वक्तुं परिस्पन्दो मुदा प्रोत्सहतीव माम् ॥
शृणु राजन् यथा भेदः कुरुपाण्डवयोरभूत् ।
राज्यार्थे द्यूतसम्भूतो वनवासस्तथैव च ॥
यथा च युद्धमभवत् पृथिवीक्षयकारकम् ।
तत्तेऽहं सम्प्रवक्ष्यामि पृच्छते भरतर्षभ ॥
मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम् ।
नचिरादेव विद्वांसो वेदे धनुषि चाभवन् ॥
तांस्तथा रूपसम्पन्नान् वीर्येण परमेण ह ।
नामृष्यन्कुरवो दृष्ट्वा पाण्डवान् धृतराष्ट्रजाः ॥
ततो दुर्योधनः क्रूरः कर्णस्तस्य मते स्थितः ।
पाण्डवान्विविधोपायै राज्यहेतोरपीडयत् ॥
ददावथ विषं पापो भीमाय धृतराष्ट्रजः ।
जरयामास तद्वीरस् त्वन्नेन सह भारत ॥
प्रमाणकोट्यां क्रीडित्वा बद्ध्वा सुप्तमनागसम् ।
तथैव मध्ये गङ्गायाः प्रक्षिप्य पुरमाव्रजत् ॥
यदाऽबुध्यत कौन्तेयस् तदा सञ्छिद्य बन्धनम् ।
उदतिष्ठन्महातेजा भीमसेनो गतव्यथः ॥
आशीविषैः कृष्णसर्पैस् सुप्तं चैनमदंशयत् ।
सर्वेष्वेवाङ्गदेशेषु न ममार स शत्रुहा ॥
उपार्यैर्विविधैः क्षुद्रस् संवृतैर्विवृतैरपि ।
पाण्डवान्पीडयामास न च किञ्चिदसाधयत् ॥
तेषां स विप्रकारेषु तेषु तेषु महामतिः ।
मोक्षणे प्रतिघाते च विदुरोऽवहितोऽभवत् ॥
स्वर्गस्थो जीवलोकस्य यथा शक्रस्सुखावहः ।
पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः ॥
यदा तु विविधोपायैस् संवृतैर्विवृतैरपि ।
नाशक्रोद्विनिहन्तुं तान् दैवनात्यन्तरक्षितान् ॥
ततो दुर्योधनः क्षुद्रः कर्णश्च सहसौबलः ।
धृतराष्ट्रमनुज्ञाप्य जातुषं चक्रुरालयम् ।
तत्र तान् वासयामास पाण्डवानमितौजसः ॥
अदाहयच्च विस्रब्धान् पावकेन पुनस्तदा ।
विदुरस्यैव वचनात् खनित्री विहिता तदा ॥
मोक्षयामास वेगेन ते मुक्ताः प्राद्रवन्भयात् ॥
ततो महावने घोरे हिडिम्बं नाम राक्षसम् ।
भीमसेनोऽबधीत्क्रुद्धो भुवि भीमपराक्रमः ।
प्राप्ता हिडिम्बी भीमेन यत्र जातो घटोत्कचः ॥
अथ सन्धाय ते वीरा एकचक्रां व्रजंस्तदा ।
ब्रह्मरूपधरा भूत्वा मात्रा सह परन्तपाः ॥
तत्र ते ब्राह्मणार्थाय बकं हत्वा महाबलम् ।
ब्राह्मणैस्सहिता जग्मुः पाञ्चालानां पुरं ततः ॥
तत्र ते द्रौपदीं लब्ध्वा बहून्मासान्सुखोषिताः ।
सहिता हस्तिनपुरं प्रत्याजग्मुररिन्दमाः ॥
उक्तास्ते धृतराष्ट्रेण राज्ञा शान्तनवेन च ।
भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति ॥
अस्माभिः खाण्डवप्रस्थे युष्मद्वासो विचिन्तितः ॥
पुरं जानपदोपेतं सुविभक्तमहापथम् ।
वासाय स्वाण्डवप्रस्थं व्रजध्वं गतमन्यवः ॥
तयोस्ते वचनाज्जग्मुस् सह सर्वैस्सुहृज्जनैः ।
नगरं खाण्डवप्रस्थं रत्नमादाय भागशः ॥
तत्र ते न्यवसन् राजन् संवत्सरगणान् बहून् ।
वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान् महीक्षितः ॥
एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः ।
अप्रमत्तास्स्थिताः क्षत्रे प्रतपन्तो हि तांस्तदा ॥
अजयद्भीमसेनस्तु दिशं प्राचीं महाबलः ।
उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा ॥
दक्षिणां सहदेवस्तु विजिग्ये परवीरहा ।
एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम् ॥
पञ्चभिस्सूर्यसङ्काशैस् सूर्येण च वसुन्धराम् ।
षट्सूर्येव च बभ्राजे पाण्डवैस्सत्यविक्रमैः ॥
ततो निमित्ते कस्मिंश्चिद् धर्मराजो युधिष्ठिरः ।
वनं प्रस्थापयामास भ्रातरं वै धनञ्जयम् ॥
धैर्यात्सत्याच्च धर्माच्च विजयाच्चधिकप्रियः ।
अर्जुनो भ्रातरं ज्येष्ठं नात्यवर्तत जातु चित् ॥
स वै संवत्सरं पूर्णं मासं चैव वने वसन् ।
तीर्थयात्रां च कृतवान् नागकन्यामवाप्य च ॥
पाण्ड्यस्य तनयां लब्ध्वा तत्र ताभ्यां सहोषितः ।
ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन ॥
तत्र लभे च बीभत्सुर् भार्यां राजीवलोचनाम् ।
अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम् ॥
सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता ।
सुभद्रा युयुजे पीता पाण्डवेनार्जुनेन च ॥
तत्र सन्तर्पयामास कौन्तेयो हव्यवाहनम् ।
बीभत्सुर्वासुदेवेन सहितः खाण्डवे वने ॥
नातिभारोऽथ पार्थस्य केशवेनाभवत्सह ।
व्यवसायद्वितीयस्य विष्णोश्शत्रुवधेष्विव ॥
पार्थायाग्निर्ददौ तत्र गाण्डीवं धनुरुत्तमम् ।
इषुधी चाक्षयौ बाणै रथं च कपिलक्षणम् ॥
मोचयामास बीभत्सुर् मयं यत्र महासुरम् ।
स चकार सभां दिव्यां सर्वरत्नविभूषिताम् ॥
तस्यां दुर्योधनः क्षुद्रो लोभं चक्रे सुदुर्मतिः ।
ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम् ॥
वनं प्रस्थापयामास सप्तवर्षाणि पञ्च च ।
अज्ञातमेकं राष्ट्रे तु ततो वर्षं त्रयोदशम् ॥
गते त्रयोदशे वर्षे याचमानास्स्वकं वसु ।
नालभन्त महाराज ततो युद्धमवर्तत ॥
ततस्ते सर्वमुत्साद्य हत्वा दुर्योधनं रणे ।
राज्यं विधूतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः ॥
इष्ट्वा क्रतूंश्च विविधान् अश्वमेधादिकान् बहून् ।
धृतराष्ट्रे गते स्वर्गं विदुरे पञ्चतां गते ॥
गमयित्वा स्त्रियस्स्वर्गं राज्ञाममिततेजसाम् ।
वार्ष्णेये निलयं प्राप्ते विष्णुदारान् प्ररक्ष्य च ।
महाप्रस्थानिकं गत्वा गतासस्वर्गमनुत्तमम् ॥
एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम् ।
भेदो राज्यविनाशश्च जयश्च जयतांवर ॥ ॥