शौनकः-
भृगुवंशात्प्रभृत्येतत् त्वया मे कथितं महत् ।
आख्यानमखिलं तात भृशं प्रीतोऽस्मि तेन ते ॥
प्रवक्ष्यामि च भूयस्त्वां यथावत्सूतनन्दन ।
याः कथा व्याससम्प्रोक्तास् ताश्च भूयः विचक्ष्व मे ॥
तस्मिन्परमदुष्प्रापे सर्पसत्रे महात्मनाम् ।
कर्मान्तरेषु विधिवत् सदस्यानां महाकवे ॥
या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम् ।
त्वत्त इच्छाम ताश्श्रोतुं सूत त्वं वै विचक्षणः ॥
सूतः-
कर्मान्तरेष्वकथयन् द्विजा वेदाश्रयाः कथाः ।
व्यासस्त्वकथयान्नित्यम् आख्यानं भारतं महत् ॥
शौनकः-
महाभारतमाख्यानं पाण्डवानां यशस्करम् ।
जनमेजयेन यः पृष्टः कृष्णद्वैपायनस्तदा ॥
श्रावयामास विधिवत् तदा कर्मान्तरेषु सः ।
तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम् ॥
मनस्सागरसम्भूतां महर्षेर्भावितात्मनः ।
कथयस्व सतां श्रेष्ठ परं कौतूहलं हि नः ॥
सूतः-
हन्त तेऽहं प्रवक्ष्यामि महदाख्यानमुत्तमम् ।
कृष्णद्वैपायनमतं महाभारतमादितः ॥
तज्जुषस्वोत्तममते कथ्यमानं मया द्विज ।
शंसितुं तन्मनोहर्षो ममापीह च वर्धते ॥
श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम् ।
अभ्यागच्छदृषिर्विद्वान् कृष्णद्वैपायनस्तदा ॥
जनयामास यं काली शक्तेः पुत्रात्पराशरात् ।
कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम् ॥
जातमात्रश्च यस्सद्यो ववृधे वेदवित्तमः ।
वेदांश्चाधिजगे साङ्गान् इतिहासांश्च सर्वशः ॥
यं नाति तपसा कश्चिन् न वेदाध्ययनेन च ।
न व्रतेनोपवासेन न प्रशान्त्या न मन्युना ॥
विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः ।
परावरज्ञो ब्रह्मर्षिः कविस्सत्यव्रतश्शुचिः ॥
यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत् ।
शन्तनोस्सन्ततिं सन्नाम् उद्धरिष्यन् महातपाः ॥
जनमेजयस्य राजर्षेस् तस्मिन्सत्रे महात्मनः ।
विवेश शिष्यैस्सहितो वेदवेदाङ्गपारगैः ॥
तत्र राजानमासीनं ददर्श जनमेजयम् ।
वृतं सदस्यैर्बहुभिर् देवैरिव शतक्रतुम् ॥
तथा मूर्धावसिक्तैश्च नानाजनपदेश्वरैः ।
ऋत्विग्भिर्देवकल्पैश्च कुशलैर्यज्ञसंस्तरे ॥
जनमेजयस्तु राजर्षिर् दृष्ट्वा तमृषिमागतम् ।
सगणोऽभ्युद्यतस्तूर्णं ततो भरतसत्तमः ॥
काञ्चनं विष्टरं तस्मै स एव नृपतिस्स्वयम् ।
आसनं कल्पयामास यथा शक्रो बृहस्पतेः ॥
तत्रोपविष्टं वरदं देवर्षिगणपूजितम् ।
पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा ॥
पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः ।
पितामहाय कृष्णाय तदर्हाय न्यवेदयत् ॥
प्रतिगृह्य च तां पूजां पाण्डवाज्जनमेजयात् ।
गां चैव समनुज्ञाय मुनिः प्रीतोऽभवत्तदा ॥
तथा तं पूजयित्वा तु यत्नेन प्रपितामहम् ।
उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम् ॥
भगवानापि तं दृष्ट्वा दयालुः प्रतिनन्द्य च ।
सदस्यैः पूजितस्सर्वैस् सदस्यानप्यपूजयत् ॥
तथा तं सत्कृतं सद्भिः कथान्ते जनमेजयः ।
इममर्थं कुरुश्रेष्ठः पर्यपृच्छत्कृताञ्जलिः ॥
जनमेजयः-
कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान् ।
तेषां चरितमिच्छामि कथ्यमानमिह त्वया ॥
कथं च भगवन्भेदस् तेषामासीन्महात्मनाम् ।
तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत् ॥
पितामहानां सर्वेषां दैवेनाविष्टचेतसाम् ।
इच्छामि तत्त्वतश्श्रोतुं भगवन्कुशलो ह्यसि ॥
सूतः-
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा ।
शशास शिष्यमासीनं वैशम्पायनमन्तिके ॥
कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा ।
तदस्मै सर्वमाचक्ष्व यन्मत्तश्श्रुतवानसि ॥
गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा ।
आचचक्षे ततस्सर्वम् इतिहासं पुरातनम् ॥
राज्ञे तस्मै सदस्येभ्यः क्षत्रियेभ्यश्च सर्वशः ।
भेदं राज्यविनाशं च कुरुपाण्डवयोस्तदा ॥ ॥