सूतः
इदमत्यद्भुतं चान्यदास्तीकस्य च शुश्रुमः ।
तथा वरैश्छन्द्यमानो राज्ञा पारिक्षितेन च ॥
इन्द्रहस्ताच्च्युतो नागस् स ख एव व्यवस्थितः ।
ततश्चिन्तापरो राजा बभूव जनमेजयः ॥
हूयमाने भृशं दीप्ते विधिवत्पावके तदा ।
नष्टसञ्ज्ञोऽभवन्नास् तक्षको भयपीडितः ॥
शौनक-
किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम् ।
न प्रत्यपद्यताग्नौ यन् न पपात न तक्षकः ॥
सूतः-
तमिन्द्रहस्ताद्वित्रस्तं विसंज्ञं पन्नगोत्तमम् ।
आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत् ॥
वितस्थे सोऽन्तरिक्षे च हृदयेन विदूयता ।
यथा तिष्ठेति वै कश्चिन् नावगच्छेत्तथान्तरम् ॥
ततो राजाऽब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम् ।
काममेतद्भवत्वेवं यथास्तीकस्य भाषितम् ॥
समाप्यतामिदं कर्म पन्नगास्सन्त्वनामयाः ।
प्रीयतामयमास्तीकस् सत्यं मम वचोऽस्तु तत् ॥
ततो हलहलाशब्दः प्रीतिजस्समवर्धत ।
आस्तीकस्य वरे दत्ते तथैवोपरराम च ।
स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह ॥
समापिते ततस्सत्रे विधिवद्विधिदर्शिभिः ।
प्रीतिमानभवद्राजा भारतो जनमेजयः ॥
ऋत्विग्भ्यस्स सदस्येभ्यो ये तत्रासन्समागताः ।
तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः ॥
लोहिताक्षाय सूताय तथा स्थपतये विभुः ॥
येनोक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम् ।
निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु ॥
ततश्चकारावभृथं विधिदृष्टेन कर्मणा ।
आस्तीकं प्रेषयामास गृहानेव सुसत्कृतम् ॥
राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम् ॥
पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत् ।
भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ ॥
तथेत्युक्त्वा प्रदुद्राव स चास्तीको मुदा युतः ।
कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम् ॥
स गत्वा परमप्रीतो मातरं मातुलं च ताम् ।
अभिगम्योपसङ्गृह्य यथावृत्तं न्यवेदयत् ॥
एतच्छ्रुत्वा प्रीयमाणास्समेता ये तत्रासन् पन्नगा वीतमोहाः ।
आस्तीकं ते प्रीतिमन्तो बभूवुर् आहुश्चैनं वरमिष्टं वृणीष्व ॥
भूयोभूयस्सर्वशस्तेऽब्रुवंस्तं किं ते प्रियं करवामाद्य विद्वन् ।
प्रीता वयं मोक्षिताश्चैव सर्वे कामं किं ते करवामाद्य वत्स ॥
आस्तीकः-
सायं प्रातस्सुप्रसन्नात्मरूपो लोके विप्रा मानवश्चेतरो वा ।
धर्माख्यानं ये पदेयुर्ममेदं तेषां युष्मन्नैव किञ्चिद्भयं स्यात् ॥
सूतः-
तैश्चाप्युक्तो भागिनेयः प्रसन्नैर् एतत्सत्यं वचनं ते चराम ।
प्रीत्या युक्ता ईप्सितं सर्वतस्ते कर्तारस्स्म प्रवणा भागिनेय ॥
जरत्कारुोर्जरात्कार्वं समुत्पन्नो महायशाः ।
आस्तीकस्सत्यसन्धो मां पन्नगेभ्योऽभिरक्षतु ॥
अस्तीकं चार्तमन्तं च सुनीथं चापि यस्स्मरेत् ।
दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् ॥
इत्येवं नागराजोऽथ सर्पाणां मध्यगस्तदा ।
उक्त्वा सहैव तैस्सर्पैस् स्वमेव भवनं ययौ ॥
मोक्षयित्वा स भगवान् सर्पसत्राद्भुजङ्गमान् ।
जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान् ॥
इत्याख्यानं मयाऽऽस्तीकं यथावत्तव कीर्तितम् ।
यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित् ॥
श्रुत्वेदं धर्ममाख्यानम् आस्तीकं पुण्यवर्धनम् ।
आस्तीकस्य कवेर्विप्र! श्रीमच्चरितमादितः ॥
सर्वपापविनिर्मुक्तो दीर्घमायुरवाप्नुयात् ।
गार्हस्थ्यं धर्ममखिलं प्रयायात् पुत्रपौत्रवान्॥ ॥