शौनकः-
ये सर्पास्सर्पसत्रेऽस्मिन् पतिता हव्यवाहने ।
तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज ॥
सूतः-
सहस्राणि बहून्यस्मिन् प्रयुतान्यर्बुदानि च ।
न शक्यं परिसङ्ख्यातुं बहुत्वाद्वेदवित्तम ॥
यथास्मृति तु नामानि पन्नगानां निबोध मे ।
उच्यमानानि मुख्यानां हुतानां जातवेदसि ॥
वासुकेः कुलजांस्तावत् प्राधान्येन निबोध मे ।
नील रक्तास्सिता घोरा महाकाया विषोल्बणाः ॥
कोटिको नाम सम्पूर्णः सदयालोभलीढकः ।
पिच्छपः कौणपश्शक्रः कोणवेगः प्रकालितः ॥
हिरण्यबाहुश्शरणस् तक्षकः कालदन्तकः ।
एते वासुकिजा नागाः प्रविष्टा हव्यवाहनम् ॥
तक्षकस्य कुले तावत् प्रवक्ष्यामि निबोध तान् ।
पुच्छण्वको मण्डलिको पिण्डभेत्ता च हेणकः ॥
उच्छिखस्सुरभारङ्गो वल्लभोऽथाविराहणः ।
सिलस्थामकणो मूकः सुकुमारः प्रवेपनः ॥
मुद्गरश्शशरोमा च सुमरो वेगवान् हरः ।
एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम् ॥
पारावतः पारियात्रः पाण्डरो हरिणः कृशः ।
विहङ्गश्शरभो मोदः प्रमोदस्संहताशनः ॥
ऐरावतकुलादेते प्रतिता हव्यवाहनम् ।
कौरव्यकुलजान्नागाञ् श्रुणु मे द्विजसत्तम ॥
जटिलः कुण्डलः कुण्डो वेणिग्रन्थ कुमारकः ।
बाहुकश्शृङ्गयाष्टिश्च धूर्तकः पोतपोतकौ ॥
धृतराष्ट्रकुले जाताञ् शृणु नागान् यथातथम् ।
दन्दशूकान् महाकायान् वातवेगान् विषोल्बणान् ॥
शङ्कुकर्णः पिङ्गलकः कुठारमुखसेवकौ ।
पूर्णाङ्गदः पूर्णमुखः प्रहस्तश्शकुनिर्हरिः ॥
अमोथकः कामविकः खनसो मानसो नटः ।
भैरवो मन्त्रवेगश्च पिङ्गलश्चोडुपारगः ॥
ऋषभो वेगवान्नाथः पिण्डारकमहाहनू ।
रक्ताङ्गस्सर्वसारङ्गस् समृद्धपटलाक्षकौ ॥
वलाहको वारणकस् सुमित्रश्चित्रवेदितः ।
पराशकस्तरुणको मणिस्स्कन्धस्तथाऽऽरुणः ।
इति नागा मया ब्रह्मन् कीर्तिताः कीर्तिवर्धनाः ॥
प्राधान्येन बहुत्वात्तु सर्वे ते परिकीर्तिताः ॥
एतेषां पुत्रपौत्राश्च प्रसवस्य च सन्ततिः ।
न शक्याः परिसङ्ख्यातुं ये दीप्तं पावकं गताः ॥
सप्तशीर्षा द्विशीर्षाश्च पञ्चशीर्षास्तथाऽपरे ।
दशशीर्षाश्शतशीर्षास् तथान्ये बहुशीर्षकाः ॥
कालानलविषा घोरा हुताशनसमार्चिषः ।
महाकाया महावीर्याश् शैलशृङ्गसमुच्छ्रयाः ॥
योजनायामविस्तारा द्वियोजनसमायताः ।
कामरूपाः कामबला दीप्तानलविषोल्बणाः ॥
दग्धास्तत्र महासत्रे ब्रह्मदण्डेन पीडिताः ॥ ॥