जनमेजयः-
बालो वाक्यं स्थविर इव प्रभाषते नायं बालस्स्थविरो धर्मतो मे ।
इच्छाम्यहं वरमस्मै प्रदातुं तन्मे विप्राः प्रवदध्वं समेताः ॥
सभासदः-
बालो विप्रो मान्य एवेह राज्ञा यश्चाविद्वान् यश्च विद्वान् यथावत् ।
प्रसादयैनं त्वमतो नरेन्द्र द्विजातिवर्यं सकलार्थसिद्धये ।
सर्वान्कामांस्त्वत्त एवार्हतेऽद्य यथा च नस्तक्षक एति शीघ्रम् ॥
सूतः-
व्याहर्तुकामे वरदे नृपे द्विजं वरं वृणीष्वेति तमभ्युवाच ।
होता वाचा नातिहृष्टान्तरात्मा कर्मण्यस्मिंस्तक्षको नैति तावत् ॥
जनमेजयः-
यथा चेदं कर्म समाप्यते मे यथा च नस्तक्षक एति शीघ्रम् ।
तथा भवन्तः प्रयतन्तु सर्वे परं शक्त्या स हि मे विद्विषाणः ॥
ऋत्विज-
यथा शस्त्राणि नः प्राहुर् निमित्तानि तथैव च ।
स इन्द्रभवने राजंस् तक्षको भयपीडितः ॥
यथा सूतो लोहिताक्षो महात्मा पौराणिको वेदितवान् पुरस्तात् ।
स राजानं प्राह हृष्टस्तदानीं यथाहुर्विप्रास्तद्वदेतन्नरेन्द्र ॥
सूतः-
पुराणमागम्य ततो ब्रवीम्यहं दत्तं तस्मै वरमिन्द्रेण राजन् ।
वसेह त्वं मत्सकाशे सुगुप्तो न पावकस्त्वां प्रदहिष्यतीति ॥
सूतः-
एतच्छ्रुत्वा दीक्षितस्तप्यमान आस्ते होतारं चोदयन् कर्मकाले ।
होता च यत्तस्स जुहाव मन्त्रैर् यथाऽमरेन्द्रस्स्वयमेवाजजगाम ॥
आयातु चेन्द्रोऽपि सतक्षकः पतेद् विभावसौ नागराजेन तूर्णम् ।
जम्भस्य हन्तेति जुहाव होता तदा जगामाहिदत्ताभयः प्रभुः ॥
विमानमारुह्य महानुभावःसर्वैर्देवैः परिसंस्तूयमानः ।
बलाहकैश्चाप्यनुगम्यमानो विद्याधरैरप्सरसां गणैश्च ॥
तस्योत्तरीये निहितस्स नागो भयोद्विग्नश्शर्म नैवाभ्यगच्छत् ।
ततो राजा मन्त्रविदोऽब्रवीत्पुनः क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन् ॥
जनमेजयः-
इन्द्रस्य भवने नागो यदि विप्राः! स तक्षकः ।
तमिन्द्रेणैव सहितं पातयध्यं विभावसौ ॥
न त्यजेद्यदिदं चेन्द्रः स नागं तक्षकं तथा ॥
सूतः-
जनमेजयेन राज्ञा तु चोदितस्तक्षकं प्रति ।
होता जुहाव तत्रस्थं तक्षकं पन्नगं तथा ॥
हूयमाने तथा चैव तक्षकस्सपुरन्दरः ।
आकाशे ददृशे तत्र क्षणेन व्यथितस्तदा ॥
पुरन्दरस्तु तं यज्ञं दृष्ट्वा तु भयमाविशत् ।
हित्वा तु तक्षकं नागं स्वमेव भवनं ययौ ॥
इन्द्रे गते तु नागेन्द्रस् तक्षको भयमोहितः ।
मन्त्रशक्त्या तु सप्तार्चिस् समीपमवशोऽगमत् ।
तं दृष्ट्वा ऋत्विजस्तत्र वचनं चेदमब्रुवन् ॥
ऋत्विजः-
अयमायाति वै तूर्णं तक्षकस्ते वशं गतः ।
श्रूयतेऽस्य महान्नादो कुर्वतो भैरवं रवम् ॥
नूनं मुक्तो वज्रभृता स नागो ततस्त्रस्तो मन्त्रवित्रस्तगात्रः ।
आघूर्णमानो ह समभ्युपैति तीव्रान्निश्वासान्निश्वसन्पन्नगेन्द्रः ॥
वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो ।
अस्मै च द्विजमुख्याय वरं त्वं दातुमर्हसि ॥
राजा-
बालाभिरूपस्य तवाप्रमेय! वरं प्रयच्छामि यथानुरूपम् ।
वृणीष्व यत्तेऽभिमतं हृदिस्थं तत्ते प्रदास्याम्यपि चेददेयम् ॥
सूतः-
पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि ।
इदमन्तरमित्येवं तदास्तीकोऽभ्यभाषत ॥
अस्तीकः-
वरं ददासि चेन्मह्यं वृणोमि जनमेजय ।
सत्रं ते विरमत्वेतन् न पतेयुरिहोरगाः ॥
सूतः-
एवमुक्तस्तदा राजा ब्रह्मन्पारिक्षितस्तदा ।
नातिहृष्टमना वाक्यम् अस्तीकमिदमब्रवीत् ॥
सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे द्विज ।
तत्ते दद्यां वरं ब्रह्मान् न निवर्तेत्क्रतुर्मम ॥
अस्तीकः-
सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम् ।
सत्रं ते विरमत्वेतत् स्वस्ति मातृः कुलस्य नः ॥
सूतः-
आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा ।
पुनः पुनरुवाचेदम् अस्तीकं वदतां वरम् ॥
अन्यं वरय भद्रं ते वरं द्विजवरोत्तम ।
नायाचदयमप्यन्यद् वरं स भृगुनन्दन ॥
ततो वेदविदस्तात सदस्यास्सर्व एव ते ।
राजानमूचुस्सहिता लभतां ब्राह्मणो वरम् ॥ ॥