सूतः-
तत आहूय पुत्रं स्वं जरत्कारुर्भुजङ्गमा।
वासुकेर्नागराजस्य वचनादिदमब्रवीत्॥
जरत्कारुः-
अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः।
कालस्स चायं सम्प्राप्तस् तत्कुरुष्व यथातथम्॥
अस्तीकः-
किंनिमित्तं मम पितुर् दत्ता त्वं मातुलेन मे।
तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्ताऽस्मि तत्तथा॥
सूतः-
तत आचष्ट सा तस्मै बान्धवानां हितैषिणी।
भगिनी नागराजस्य जरत्कारुरविक्लबा॥
जरत्कारुः-
भुजङ्गानामशेषाणां माता कद्रूरिति स्मृता।
तया शप्ता रुषितया सुता यस्मान्निबोध तत्॥
उच्चैश्श्रवस्यश्वराजे यन्मिथ्या करुते मम।
विनतानिमित्तं पणिते दासभावाय पुत्रकाः॥
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः।
तत्र पञ्चत्वमापन्नाः पितृलोकं गमिष्यथ॥
तां च शप्तवतीमेवं साक्षाल्लोकपितामहः।
एवमस्त्विति तद्वाक्यं प्रोवाचानुमुमोद च॥
वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा।
अमृते मथिते तात देवाञ्छरणमीयिवान्॥
सिद्धार्थाश्च सुरास्सर्वे प्राप्यामृतमनुत्तमम्।
भ्रातरं मे पुरस्कृत्य प्रजापतिमुपागमन्।
ते तं प्रसादयामासुः देवास्सर्वे पितामहम्॥
राज्ञा वासुकिना सार्धं शापो न भवेदिति॥
देवाः-
वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात्।
अभिशापस्स मात्रास्य भगवन्न भवेत्तदा॥
ब्रह्मा-
जरत्कारुर्जरत्कारुं यो भार्यां समवाप्स्यति।
तत्र जातो द्विजः शापाद् भुजगान्ममोक्षयिष्यति॥
जरत्कारु-
एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगेश्वरः।
प्रादान्माममरप्रख्य तव पित्रे महात्मने॥
प्रागेवानागते काले तत्र त्वं मय्यजायथाः।
अयं स कालस्सम्प्राप्तो भयान्नस्त्रातुमर्हसि॥
भ्रातरं चैव मे तस्मात् त्रातुमर्हसि पातकात्।
अमोघं नः कृतं तत्स्यात् यदहं तव दीयते।
पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे॥
सूतः-
एवमुक्तस्तथेत्युक्त्वा सोऽस्तीको मातरं तदा।
अब्रवीद्दुःखसन्तप्तं वासुकिं जीवयन्निव॥
अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम।
तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते॥
स्वस्थो भव महाभाग न हि ते विद्यते भयम्।
प्रयतिष्ये तथा सौम्य यथा श्रेयो भविष्यति॥
न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा।
तं वै नृपवरं गत्वा दीक्षितं जनमेजयम्॥
वाग्भिर्मङ्गलयुक्ताभिस् तोषयिष्येऽद्य मातुल।
यथा स यज्ञो नृपतेर् न भविष्यति सत्तम॥
सम्भावय त्वं नागेन्द्र मयि सर्वं महाद्युते।
न ते मयि मनो जातु मिथ्या भवितुमर्हति॥
वासुकिः-
आस्तीक परिघूर्णामि हृदयं मे विदीर्यते।
दिशश्च न प्रजानामि ब्रह्मदण्डनिपीडितः॥
आस्तीक-
न सन्तापस्त्वया कार्यः कथञ्चित्पन्नगोत्तम।
प्रदीप्ताग्नेः समुत्पन्नं नाशयिष्यामि ते भयम्॥
ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम्।
नाशयिष्यामि माऽद्य त्वं भयं कार्षीः कथं चन॥
सूतः-
ततस्सवासुकेर्घोरम् अपनीय मनोज्वरम्।
आदाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम्॥
जनमेजयस्य तं यज्ञं सर्वैस्समुदितं गुणैः।
मोक्षाय भुजगेन्द्राणाम् अस्तीको द्विजसत्तमः॥
स गत्वाऽपश्यदास्तीको यज्ञायतनमुत्तमम्।
वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः॥
स तत्र वारितो द्वास्स्थैर् अतिष्ठाद्द्विजसत्तमः॥
आस्तीकः-
सोमस्य यज्ञो वरुणस्य यज्ञः प्रजापतेर्यज्ञ आसीत्प्रयागे।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥
शक्रस्य यज्ञश्शतसङ्ख्य उक्तस् तथा परोस्तुल्यसङ्ख्यं शतं वै।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥
यमस्य यज्ञो हरिमेधसश्च यथा यज्ञो रन्तिदेवस्य राज्ञः।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥
गयस्य यज्ञः शतबिन्दोश्च राज्ञो यज्ञस्तथा वैश्रवणस्य राज्ञः।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥
नृगस्य यज्ञस्त्वजमीढस्य राज्ञो यथा यज्ञो दाशरथेश्च राज्ञः।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥
दिलीपराज्ञो नहुषस्य राज्ञो नलस्य राज्ञश्शतबिन्दोश्च राज्ञः ।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥
यज्ञश्श्रुतो यो दिवि देववर्यैर् युधिष्ठिरस्याजमीढस्य राज्ञः।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥
कृष्णस्य यज्ञस्सत्यवत्यास्सुतस्य स्वयं स्वकर्म प्रचकार यत्र।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥
इमे च ते सूर्यहुताशवर्चसःसमासते वृत्रहणः क्रतौ यथा।
नैषां ज्ञेयं विद्यतेऽज्ञातमद्य दत्तं चैषां न प्रणश्येत् कदाचित्॥
ऋत्विक्समो नास्ति लोकेषु चैव द्वैपायनेनेति विनिश्चितं मे।
अथास्य शिष्या क्षितिमासते ते य ऋत्विजः कर्मसु स्वेषु दक्षाः॥
विभावसुश्चित्रभानुर्महात्मा हिरण्यरेता विश्वभुक्कृष्णवर्त्मा।
प्रदक्षिणावर्तशिखः प्रदीप्तो हव्यं तवेदं हुतभुग्मुनिक्ति॥
नेह त्वदन्यो विद्यते जीवलोके समो नृपः पालयिता प्रजानाम्।
धृत्या च ते प्रतीमनास्सदाऽहं त्वं वा राजा धर्मराजो यमो वा॥
शक्रस्साक्षाद्वज्रपाणिर्यथेह त्राता लोकेऽस्मिंस्त्वं तथैव प्रजानाम्।
अतस्त्वं नाथः पुरुषेन्द्रेह लोके न च त्वदन्यो गृहपतिरस्ति यज्ञे॥
खट्वाङ्गनाभगदिलीपकल्प! ययातिमान्धातृसमप्रभाव!।
आदित्यतेजःप्रतिमानतेजा भीष्मो यथा राजसि सुव्रतत्वे॥
वाल्मीकिवत्ते निभृतं च धैर्यं वसिष्ठवत्ते नियतश्च कोपः।
प्रभुत्वमिन्द्रेण समं मतं मे द्युतिश्च नारायणवद्विभाति॥
यमो यथा धर्मविनिश्चयज्ञः कृष्णो यथा सर्वगुणोपपन्नः।
श्रियो निकेतोऽसि यथा वसूनां निधानभूतोऽसि तथा क्रतूनाम्॥
दम्भोद्भवेनासि समो बलेन रामो यथा शस्त्रविदस्त्रविच्च।
रुक्मद्रुमाभ्यामसि तुल्यतेजा दुष्प्रेक्षणीयोऽसि भगीरथो यथा॥
सूतः-
एवं स्तुतास्सर्व एव प्रसन्ना राजा सदस्या ऋत्विजो हव्यवाहः।
तेषां दृष्ट्वा भावितानीङ्गितानि प्रोवाच राजा जनमेजयोऽथ॥॥