शौनकः-
सर्पसत्रे महाराज्ञः पाण्डवेयस्य धीमतः।
जनमेजयस्य केन्वासन् ऋत्विजः परमर्षयः॥
के सदस्या बभूवुश्च तस्य सत्रे सुदारुणे।
विषादजननेऽत्यर्थं पन्नगानां महाभये॥
सर्वं विस्तरतस्तात भवाञ्छंसितुमर्हति।
सर्पसत्रविधानज्ञा विज्ञेयास्तेेऽपि सूतज॥
सूतः-
अहं ते कथयिष्यामि नामानीह मनीषिणाम्।
ये ऋत्विजस्सदस्याश्च तस्यासन्नृपतेस्तदा॥
तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः।
च्यवनस्यान्वये जातः ख्यातो वेदविदां वरः॥
उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सस्तु जैमिनिः।
ब्रह्माऽभवच्छार्ङ्गरवोऽथाध्वर्युर्बोधपिङ्गलः॥
सदस्यश्चाभवद्व्यासः पुत्रशिष्यसमन्वितः।
उद्दालकः कामठकः श्वेतकेतुश्च शाण्डिलः॥
असितो देवलश्चैव नारदः पर्वतस्तथा।
आत्रेयः कुण्डजठरौ द्विजः किरिकटस्तथा॥
वात्स्यः श्रुतश्रवा वृद्धस् तपस्स्वाध्यायशीलवान्।
कहोलो देवशर्मा च मौद्गल्यश्श्मठोरगः॥
एते चान्ये च बहवो ब्राह्मणास्संशितव्रताः।
सदस्याश्चाभवंस्तत्र सत्रे पारिक्षितस्य ह॥
जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ।
अहयः प्रापतंस्तत्र सर्वप्राणिभयावहाः॥
वसामेदोवहाः कुल्या नागानां सम्प्रवर्तिताः।
ववौ गन्धस्तु तुमुलो दह्यतामनिशं तदा॥
पततां चैव नागानां विष्ठितानां तथाम्बरे।
अश्रूयतानिशं शब्दो दह्यतां चाग्निना भृशम्॥
तक्षकस्तु स नागेन्द्रः पुरन्दरनिवेशनम्।
गतश्श्रुत्वैव राजानं दीक्षितं जनमेजयम्॥
यतस्सर्वं यथावृत्तम् आख्याय भुजगोत्तमः।
अगच्छच्छरणं भीतो नमस्कृत्वा पुरन्दरम्॥
तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक।
भयं नागेन्द्र तस्माद्वै सर्पसत्रात् कथं चन॥
प्रसादितो मया पूर्वं तवार्थाय पितामहः।
तस्मात्तव भयं नास्ति व्येतु ते मानसो ज्वरः॥
एवमाश्वासितस्तेन ततस्स भुजगोत्तमः।
उवास भवने तत्र शक्रस्य मुदितस्सुखी॥
अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः।
अल्पशेषपरीवारो वासुकिः पर्यतप्यत॥
कश्मलं प्राविशद्धोरं वासुकिः पन्नगोत्तमः।
स घूर्णमानहृदयो भगिनीमिदमब्रवीत्॥
वासुकि-
दह्यन्तेऽङ्गानि मे भद्रे दिशो न प्रतिभान्ति च।
सीदामीव च सम्मोहाद् धूर्णतीव च मे मनः॥
दृष्टिर्भ्रमति मेऽतीव हृदयं दीर्यतीव च।
पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ॥
पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया।
व्यक्तं मयाऽपि गन्तव्यं पितृराजनिवेशनम्॥
अयं स कालस्सम्प्राप्तो यदर्थमसि मे स्वसः।
जरत्करोः पुरा दत्ता सा त्राह्यस्मान् सबान्धवान्॥
आस्तीकः किल यज्ञं तं वर्तमानं भुजङ्गमे।
प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः॥
तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसम्मतम्।
ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम्॥॥