सूतः-
एवमुक्त्वा ततश्श्रीमान् मन्त्रिभिश्चानुमोदितः।
आरुरोह प्रतिज्ञां वै सर्पसत्राय पार्थिवः॥
ब्रह्मन् भरतशार्दूलो राजा पारीक्षितस्तदा।
पुरोहितमथाहूय ऋत्विजो वसुधाधिपः।
अब्रवीद्वाक्यसम्पन्नः सम्पन्नार्थरं वचः॥
जनमेजय-
यो मे हिंसितवांस्तातं तक्षकस्स दुरात्मवान्।
प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे॥
अपि तत्कर्म विदितं भवतां येन पन्नगम्।
तक्षकं सम्प्रदीप्तेऽग्नौ प्रास्येयं सह बान्धवै॥
यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना।
तथाऽहमपि तं पापं दग्धुमिच्छामि पन्नगम्॥
ॠत्विजः-
अस्ति राजन् महात् सत्रं तदर्थं देवनिर्मितम्।
आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप।
सर्वसत्रमिति ख्यातं पुराणैः कथ्यते नृप॥
इति पौराणिकाः प्राहुर् अस्माकं चास्ति स क्रतुः॥
सूतः-
एवमुक्तस्स राजेन्द्रो मेने सर्पं हि तक्षकम्।
हुताशनमुखे दीप्तं प्रविष्टं द्विजसत्तम॥
जनमेजयः-
ततोऽब्रवीद्ब्रह्मविदः कर्मज्ञान् ब्राह्मणांस्तदा।
आहरिष्यामि तत्सत्रं सम्भारास्सम्भ्रियन्तु मे॥
सूतः-
ततस्त ऋत्विजस्तस्य शास्त्रेण द्विजसत्तम।
देशं तं प्रापयामासुर् यज्ञायतनकारणात्॥
यथाविज्ञानविद्वांसः सर्वे बुद्धिं परां गताः॥
ऋद्ध्या परमया युक्तम् इष्टं द्विजगणैर्युतम्।
प्रभूतधनधान्याढ्यम् ऋत्विग्भिस्सुनिवेदितम्॥
निर्माय चापि विधिवत् यज्ञायतनमुत्तमम्।
राजानं दीक्षयामासुः सर्पसत्राय वै द्विजाः॥
इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति।
निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा॥
यज्ञस्यायतने तस्मिन् क्रियमाणे वचोऽब्रवीत्।
स्थपतिर्बुद्धिसम्पन्नो वास्तुविद्याविशारदः ।
इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा॥
यस्मिन्देशे च काले च मापनेयं प्रकीर्तितम्।
ब्राह्मणं कारणं कृत्वा नायं संस्थाप्यते क्रतुः॥
एतच्छ्रुत्वा च राजा स प्राग्दीक्षाकाल अब्रवीत्।
क्षत्तारं नेह मे कश्चिद् अज्ञातः प्रविशेदिति॥
ततः कर्म प्रववृधे सर्पसत्रे विधानतः।
पर्यक्रामंश्च विधिवत् स्वे कर्मणि याजकाः॥
परिधाय कृष्णवासांसि धूम्रसंरक्तलोचनाः।
जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम्॥
कम्पयन्ति स्म सर्वेषाम् उरगाणां मनांसि ते ।
सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा॥
ततस्सर्पास्समोपतुः प्रदीप्ते हव्यवाहने।
विवेष्टमानाः कृपणा आह्वयन्तः परस्परम्॥
विस्फुरन्तश्श्वसन्तश्च वेष्टयन्तस्तथापरे।
पुच्छैश्चैव शिरोभिश्च चित्रभानुं प्रपेदिरे॥
श्वेताः कृष्णाश्च रक्ताश्च स्थविराश्शिशवस्तथा।
रवन्तो भैरवं नादं पेतुर्दीप्ते विभावसौ॥
क्रोशो योजनमात्रो हि गोकर्णस्य प्रमाणतः।
पतन्त्यजस्रं वेगेन चाग्नावग्निमतां वर॥
एवं शतसहस्राणि प्रयुतान्यर्बुदानि च।
अवशानि विनष्टानि नागानां द्विजसत्तम॥
दुर्दरा इव तत्रान्ये हस्तिहस्ता इवापरे।
मत्ता इव च मातङ्गा महाकाया महाबलाः॥
उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः।
घोराश्च परिघप्रख्या दन्दशूका महाबलाः॥
प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः॥॥