मन्त्रिण-
ततस्स राजा राजेन्द्र स्कन्धे तस्य भुजङ्गमम्।
मुनेः क्षुत्क्षाम आसज्य स्वपुरं पुनराययौ॥
ऋषेस्तस्य तु पुत्रोऽभूद् भुवि जातो महायशाः।
शृङ्गी नाम महातेजास् तिग्मवीर्योऽतिकोपनः॥
ब्रह्माणं सोऽपयुपागम्य मुनिः पूजां चकार ह।
सोऽनुज्ञाय गतस्तस्य शृङ्गी शुश्राव तं तदा॥
सख्युस्सकाशात्पितरं पित्रा ते धर्षितं तदा।
मृतं सर्पं तथासक्तं पित्रा ते जनमेजय॥
वहन्तं कुरुशार्दूल स्कन्धेनानपकारिणम्।
तपस्विनं महात्मानं तं मुनिप्रवरं नृप॥
जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुते ।
तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तदा॥
शुभाचारं शुभकथं सुस्थिरं तमलोलुपम्।
अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम्।
शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव॥
शशापाथ स तच्छ्रुत्वा पितरं ते रुषान्वितः।
ऋषेः पुत्रो महातेजा बालोऽपि स्थविरैर्वरः॥
स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह।
पितरं तेऽभिसन्धाय तेजसा प्रज्वलन्निव॥
अनागसि गुरौ यो मे मृतं सर्पमवासृजत्।
तं नागस्तक्षकः क्रुद्धस् तेजसा सादयिष्यति॥
सप्तरात्रादितः पापं पश्य मे तपसो बलम्।
इत्युक्त्वा प्रययौ तत्र पिता यत्राऽस्य सोऽभवत् ॥
दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत्।
स चापि मुनिशार्दूलः प्रेषयामास ते पितुः ॥
शप्तोऽसि मम पुत्रेण यत्तो भव महीपते।
तक्षकस्त्वां महाराज सप्तरात्रेण धक्ष्यति॥
श्रुत्वा तु तद्वचो घोरं पिता ते जनमेजय।
यत्तोऽभवत्परित्रस्तस् तक्षकात्पन्नगोत्तमात्॥
ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते।
राज्ञस्समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत ॥
तं ददर्शाथ नागेन्द्रस् तक्षकः काश्यपं तदा।
तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं व्रजन्।
क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति॥
काश्यप-
यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज।
तक्षकेण भुजङ्गेन धक्ष्यते किल तत्र वै॥
गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम्।
मयाऽभिमन्त्रितं चापि न सर्पो धर्षयिष्यति॥
तक्षकः-
किमर्थं तं मया दष्टं सञ्जीवयितुमिच्छसि।
ब्रूहि काममहं तत्ते दद्मि स्वं वेश्म गम्यताम्॥
मन्त्रिणः-
धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः॥
तमुवाच महात्मानं वारयन् श्लक्ष्णया गिरा ।
यावद्धनं प्रार्थयसे राज्ञस्तस्मात्ततोऽधिकम्॥
गृहाण मत्त एव त्वं सन्निवर्तस्व चानघ॥
स एवमुक्तो नागेन काश्यपो द्विपदां वरः।
लब्ध्वा वित्तं निववृते तक्षकात्पन्नगोत्तमात्॥
तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः॥
तं नृपं नृपतिश्रेष्ठं पितरं धार्मिकं तव।
प्रासादस्थं क्षणेनैव दग्धवान् विषवह्निना॥
ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः।
एवं दृष्टं श्रुतं चापि यथावन्नृपसत्तम॥
अस्माभिर्निखिलं वृत्तं कथितं तेऽतिदारुणम्॥
श्रुत्वा चैवं नृपश्रेष्ठ पार्थिवस्य पराभवम्।
अस्य चर्षेरुदङ्कस्य विधत्स्व यदनन्तरम्॥
जनमेजय-
एतत्तु श्रोतुमिच्छामि ह्यटव्यां निर्जने वने।
संवादं पन्नगेन्द्रस्य काश्यपस्य च यत्तदा॥
केन दृष्टं श्रुतं चापि भवतां श्रोत्रमागतम् ।
श्रुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम्॥
मन्त्रिणः-
शृणु राजन्यथाऽस्माकं येनैतत्कथितं पुरा।
समागतं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि॥
तस्मिन्वनेचरः कश्चिदिन्धनार्थाय पार्थिव।
विचिन्वन्पूर्वमारूढः शुष्कशाखं वनस्पतिम्॥
अबुध्यमानौ तत्रास्तां वृक्षस्थं पन्नगद्विजौ।
स तु तेनैव वृक्षेण भस्मीभूतोऽभवत्तदा॥
द्विजप्रभावाद्राजेन्द्र जीवितस्स वनस्पतिः।
तेना गत्वा नरश्रेष्ठ नगरेऽस्मिन्निवेदितम्॥
यथा वृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च।
एतत्ते कथितं राजन् यथावृत्तं यथाश्रुतम्॥
श्रुत्वा च कुरुशार्दूल प्रकुरुष्व यथेप्सितम्॥
सूतः-
मन्त्रिणां वचनं श्रुत्वा स राजा जनमेजयः।
पर्यतप्यत दुःखार्तः प्रत्यपिङ्क्षत्करे करम्॥
निश्श्वसन्नुष्णमसकृद् दीर्घं राजीवलोचनः।
मुमोचाश्रूणि च तदा नेत्राभ्यां प्ररुदन्नृपः।
उवाच च महीपालो दुःखशोकसमन्वितः॥
श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति।
निश्चितेयं मतिर्या वै तां निबोधत सत्तमाः ॥
अनन्तरमहं मन्ये तक्षकाय दुरात्मने ।
प्रतिकर्तव्यमित्येवं येन मे हिंसितः पिता॥
ऋषेर्हि श्रृङ्गेर्वचनं कृत्वा दृष्ट्वा च पार्थिवम्।
यदि गच्छेदसौ पापो ननु जीवेत्पिता मम॥
परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः।
काश्यपस्य प्रयोगेण मन्त्रिणां सुनयेन च॥
स च वारितवान्मोहात् काश्यपं द्विजसत्तमम्।
स सञ्जीवयितुं प्राप्तो राजानमपराजितम्॥
महानतिक्रमो ह्यस्य तक्षकस्य दुरात्मनः।
काश्यपस्याददाद्द्रव्यं न नृपं जीवयेदिति॥
उदङ्कस्य प्रियं कुर्वन् आत्मनश्च महत्प्रियम्।
भवतां चैव सर्वेषां यस्याम्यपचितिं पितुः॥॥