शौनकः-
यदपृच्छत्ततो राजा मन्त्रिणो जनमेजयः।
पितुस्स्वर्गगतिं तन्मे विस्तरेण पुनर्वद॥
सूतः-
शृणु ब्रह्मन्यथापृष्टा मन्त्रिणो नृपतेस्तदा।
आख्यातवन्तस्ते सर्वे निधनं तत्परिक्षितः॥
जनमेजयः-
जानन्ति तु भवन्तस्तद् यथावृत्तं पितुर्मम।
आसीद्यथा स निधनं गतः काले महायशाः॥
श्रुत्वा भवत्सकाशात्तु पितुर्वृत्तमशेषतः।
कल्याणं प्रतिपत्स्यामि विपरीतं न जातु चित्॥
सूतः-
मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना।
सर्वधर्मविदः प्राज्ञा राजानं जनमेजयम्॥
मन्त्रिणः-
धर्मज्ञश्च प्रजापालो महात्मा च पिता तव।
आसीदिह यथावृत्तः स महात्मा शृणुष्व तत्॥
चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत।
धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव॥
अरक्षत्पृथिवीं देवीं श्रीमानतुलविक्रमः।
द्वेष्टारस्तस्य नैवासन् स च न द्वेष्टि कञ्चन॥
समस्सर्वेषु भूतेषु प्रजापतिरिवाभवत्।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु॥
स्थितास्सुमनसो राजंस् तेन राज्ञा स्वधिष्ठिताः।
विधवानाथकृपणान् विकलांश्च बभार सः॥
सुदर्शः सर्वभूतानाम् आसीत्सोम इवापरः।
तुष्टपुष्टजनश्श्रीमान् सत्यवाग्दृढविक्रमः॥
धनुर्वेदे च शिष्योऽभून् नृपश्शारद्वतस्य सः।
जितेन्द्रियश्चात्मवांश्च मेधावी वृद्धसेविता॥
षड्वर्गजिन्महाबुद्धिर् नीतिकर्मविदुत्तमः ।
गोविन्दस्य प्रियश्चासीत् पिता ते जनमेजय ।
लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः॥
परिक्षीणेषु कुरुषु उत्तरायामजायत।
परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली॥
राजा धर्मार्थकुशलो युक्तस्सर्वगुणैनृपः।
प्रजा इमास्तव पिता षष्टिवर्षाण्यपालयत्॥
ततो दिष्टान्तमापन्नः सर्वेणानतिवर्तिनम्॥
ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान्।
इदं वर्षसहस्राय राज्यं कलियुगे गतम्।
बाल एवाभिजातोऽसि सर्वभूतानुकम्पनः॥
जनमेजयः-
नास्मिन्कुले जातु बभूव राजा यो न प्रजानां प्रियकृत्प्रियश्च।
विशेषतः प्रेक्ष्य महीपतीनां वृत्तं महवृत्तपरायणानाम्॥
कथं निधनमापन्नः पिता मम तथाविधः।
आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः॥
सूतः-
एवं सञ्चोदिता राज्ञा मन्त्रिणस्ते नराधिपम्।
ऊचुस्सर्वे यथावृत्तं राज्ञः प्रियहिते रताः॥
मन्त्रिणः-
बभूव मृगयाशीलस्तव राजन्पिता सदा।
यथा पाण्डुर्महाभागो र्धनुर्धरवरो युधि॥
अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः ।
स कदाचिद्वनगतो मृगं विव्याथ पत्रिणा॥
विद्ध्वा चान्वचरत्तूर्णं स मृगं गहने वने।
पदातिर्बद्धनिस्त्रिंशः शरपाणिर्धनुर्धरः॥
न चाससाद गहने मृगं नष्टं पिता तव ।
परिश्रान्तो वयस्थश्च षष्टिवर्षो जरान्वितः॥
क्षुधितस्स महारण्ये ददर्श मुनिमन्तिके॥
स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रतान्वितम्।
न च किञ्चिदुवाचेदं स मुनिः पृच्छितोऽपि सन्॥
ततो राजा क्षुच्छ्रमार्तस् तं मुनिं स्थाणुवत्स्थितम्।
मौनव्रतधरं शान्तं सद्यो मन्युवशं गतः॥
न बुबोध हितं राजा मौनव्रतधरं मुनिम्।
स तं मन्युसमाविष्टो धर्षयामास ते पिता॥
मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात्।
तस्य शुद्धात्मनः प्रादात् स्कन्धे भारतसत्तम॥
तं नोवाच स मेधावी राजानं साध्वसाधु वा।
तस्थौ तथैव नाक्रुध्यत् सर्पं स्कन्धेन धारयन्॥॥