सूतः-
गतमात्रं तु भर्तारं जरत्कारुरवेदयत्।
भ्रातुस्स्वरितमागत्य यथातथ्यं तपोधन॥
ततस्स भुजगश्रेष्ठः श्रुत्वा सुमहदप्रियम्।
उवाच भगिनीं दीनां तदा दीनतरस्स्वयम्॥
वासुकिः-
जानासि भद्रे यत्कार्यं प्रदाने कारणं च यत्।
पन्नगानां हितार्थाय पुत्रस्स्यात्ते ततो यदि॥
स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान्।
एवं पितामहः पूर्वम् उक्तवान्मां सुरैस्सह॥
अप्यस्ति गर्भस्सुभगे तस्मात्ते मुनिसत्तमात्।
न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः॥
कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम्।
किंतु कार्यगरीयस्त्वात् तस्मादहमचूचुदम्॥
दुर्वारतां विदित्वा च भर्तुस्ते नियतात्मनः।
नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम्॥
आचक्ष्व भद्रे सर्वं त्वं भर्तुश्चैव विचेष्टितम्।
शल्यमुद्धर मे घोरम् इदं हृदि चिरस्थितम्॥
सूतः-
जरत्कारुस्ततो वाक्यम् इत्युक्ता प्रत्यभाषत।
आश्वासयन्ती सन्तप्तं वासुकिं पन्नगेश्वरम्॥
जरत्कारुः-
पृष्टो मयाऽपत्यहेतोः स महात्मा महातपाः।
अस्तीत्युदरमुद्दिश्य ममेदं गतवांश्च सः॥
स्वैरेष्वपि न तेनाहं स्मरामि वितथं क्वचित्।
उक्तपूर्वं कुतो वाक्यं साम्पराये स वक्ष्यति॥
न सन्तापस्त्वया कार्यः कामं प्रति भुजङ्गमे।
उत्पत्स्यति हि ते पुत्रो ज्वलनार्कसमद्युतिः॥
इत्युक्त्वा स हि मां भ्रातर् गतो भर्ता तपोवनम्।
तस्माद्व्येतु परं दुःखं तवेदं मनसि स्थितम्॥
सूतः-
एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा।
एवमस्त्विति तद्वाक्यं भगिन्याः प्रत्यगृह्णत॥
सान्त्वमानार्थदानैश्च पूजया चारुरूपया।
सोदर्यां पूजयामास स्वसारं पन्नगोत्तमः॥
ततस्स ववृधे गर्भो महातेजा रविप्रभः।
यथा सोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि॥
यथाकालं तथा ब्रह्मन् प्रजज्ञे भुजगस्वसा।
कुमारं देवगर्भाभं पितृमातृभयापहम्॥
ववृधे स च तत्रैव नागराजनिवेशने।
वेदांश्चाधिजगे साङ्गान् भार्गवच्यवनात्मजात्॥
चीरितव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः।
नाम चास्याभवत्ख्यातं लोकेष्वस्तीक इत्युत॥
अस्तीत्युक्त्वा गतो यस्मात् पिता गर्भस्थमेव तम्।
एवं तस्मादिदं तस्य नामास्तीकेति विश्रुतम्॥
स बाल एव तत्रस्थश् चरन्नमितबुद्धिमान्।
गृहे पन्नगराजस्य प्रयत्नात्पर्यरक्ष्यत॥
भगवानिव देवेशः शूलपाणिः पिनाकधृक्।
विवर्धमानः सर्वांस्तान् पन्नगानप्यहर्षयत्॥॥