सूतः-
वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा।
सनामा तव कन्येयं स्वसा मे तपसान्विता॥
हरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम।
रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन।
त्वदर्थं रक्षिता चैषा मया मुनिवरप्रभो॥
ऋषिः-
न भरिष्येऽहमेतां वै एष मे समयः कृतः।
अप्रियं मा करिष्यच्च कृते चैनां त्यजाम्यहम्॥
सूतः-
प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति।
जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह॥
तत्र मन्त्रविदां श्रेष्ठस् तपोवृद्धो महामतिः।
जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम्॥
ततो वासगृहे शुभ्रे पन्नगेन्द्रस्य धीमतः।
जगाम भार्यामादाय स्तूयमानो मनीषिभिः॥
शयनं तत्र वैक्लृप्तं परार्थ्यास्तरणावृतम्।
स तत्र भार्यासहियो जरत्कारुरुवास ह।
स तत्र समयं चक्रे भार्यया सह सत्तमः॥
जरत्कारुः-
विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन।
त्यजेयमप्रिये हि त्वां कृते वासं च ते गृहे॥
एतद्गृहाण वचनं मया यत्समुदीरितम्॥
सूतः-
ततः परमसंविग्ना स्वसा नागपतेस्तु सा ।
अतिदुःखान्विता वाचं तमुवाचैवमस्त्विति॥
तथैव साच भर्तारं दुःखशीलमुपचारत्।
उपायैश्श्वेतकाकीयैः प्रियकामा यशस्विनी॥
ऋतुकाले ततस्स्नाता कदाचिद्वासुकेस्स्वसा।
भर्तारं तु यथान्यायम् उपतस्थे महामुनिम्॥
तत्र तस्यां समभवद् गर्भो ज्वलनसन्निभः।
अतीव तपसा युक्तो वैश्वानरसमद्युतिः॥
शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः।
ततः कतिपयाहस्तु जरत्कारुर्महातपाः॥
उत्सङ्गेऽस्याश्शिरः कृत्वा सुष्वाप परिखिन्नवत्।
तस्मिंश्च सुप्ते विप्रेन्द्रे सविताऽस्तमियाद्गिरिम्॥
अह्नः परिक्षये ब्रह्मंस् ततः साऽचिन्तयत्तदा।
वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी॥
किं नु मे सुकृतं भूयाद् भर्तुरुत्थापनेन वा।
दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम्॥
कोपो वा धर्मशीलस्य धर्मलोपोऽथवा पुनः।
धर्मलोपो गरीयान्वै स्यादित्यत्राकरोन्मनः॥
उत्थापयिष्ये यद्येनं ध्रुवं कोपं भविष्यति।
धर्मलोपो भवेदस्य सन्ध्यातिक्रमणे ध्रुवम्॥
इति निश्चित्य मनसा जरत्कारुर्भुजङ्गमा।
तमृषिं दीप्ततपसं शयानमनलोपमम्॥
उवाचेदं वचश्श्लक्ष्णं ततो मधुरभाषिणी।
उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति॥
सन्ध्यामुपास्स्व भगवन् अपस्स्पृष्ट्वा महाव्रतः।
प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः ।
सन्ध्या प्रवर्तते चेयं पश्चिमस्यां दिशि प्रभो॥
एवमुक्तस्स भगवाञ् जरत्कारुर्महातपाः।
भार्यां प्रस्फुरमाणोष्ठ इदं वचनमब्रवीत्॥
जरत्कारुः-
अवमानः प्रयुक्तोऽयं त्वया मम भुजङ्गमे।
समीपे ते न वत्स्यामि गमिष्यामि यथागतम्॥
न हि तेजोऽस्ति वामोरु मयि सुप्ते विभावसोः।
अस्तं गन्तुं यथाकालम् इति मे हृदि वर्तते॥
न चाप्यवमतस्येह वस्तुं रोचेत कस्य चित्।
किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा॥
सूतः-
एवमुक्ता जरत्कारुर् भर्त्रा हृदयकम्पनम्।
अब्रवीद्भगिनी तत्र वासुकेस्तु निवेशने॥
जरत्कारुः-
नावमानात्कृतवती तवाहं वितिबोधनम्।
धर्मलोपो न ते विप्र स्यादित्येवं कृतं मया॥
सूतः-
उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः ।
ऋषिः कोपसमाविष्टस् त्यक्तुकामो भुजङ्गमाम्॥
जरत्कारुः-
न मे वागनृतं प्राह गमिष्येऽहं भुजङ्गमे॥
समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः।
सुखमध्युषितं भद्रे ब्रूयास्त्वं भ्रातरं शुभे॥
इतो मयि गते भीरु गतस्स भगवानिति।
त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि॥
सूतः-
इत्युक्ता साऽनवद्याङ्गी प्रत्युवाच मुनिं तदा।
जरत्कारुं जरत्कारुश् चिन्ताशोकपरायणा॥
बाष्पगद्गदया वाचा मुखेन परिशुष्यता।
कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः।
धैर्यमालम्ब्य वामोरूर् हृदयेन प्रवेपता॥
जरत्कारुः-
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसीम्।
धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम्॥
प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम।
अपत्यार्थं तु मे भ्रात्रा ज्ञातीनां इतिकाम्यया ॥
तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुकिः॥
मातृशापाभिभूतानां ज्ञातीनां मम सत्तम॥
अपत्यमीप्सितं त्वत्तस् तच्च तावन्न दृश्यते।
त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शुभं भवेत्॥
सम्प्रयोगो भवेन्नायं मम मोघस्त्वया द्विज।
ज्ञातीनां सुखमिच्छन्ती भगवंस्त्वां प्रसादये॥
इममव्यक्तरूपं मे गर्भमाधाय सत्तम।
कथं त्यक्त्वा महाभाग गन्तुमिच्छस्यनागसीम्॥
सूतः-
एवमुक्तस्तु स मुनिर् भार्यां वचनमब्रवीत्।
यद्युक्तमनुरूपं च जरत्कारुं तपोधनः॥
अस्त्येष गर्भः सुभगे तव वैश्वानरोपमः।
ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः॥
एवमुक्त्वा स धर्मात्मा जरत्कारुर्महामुनिः।
उग्राय तपसे भूयो जगाम कृतनिश्चयः॥॥