सूतः-
एतच्छ्रुत्वा जरत्कारुर् भृशं शोकपरायणः।
उवाच स्वान्पितॄन् मुख्यान् बाष्पगद्गदया गिरा॥
जरत्कारुः-
अहमेव जरत्कारुः किल्बिषी भवतां सुतः।
तं दण्डं धारयत मे दुष्कृतेरकृतात्मनः॥
पितरः-
पुत्र दिष्ट्याऽसि सम्प्राप्त इमं देशं यदृच्छया।
किमर्थं च त्वया ब्रह्मन् न कृतो दारसङ्ग्रहः॥
जरत्कारुः-
ममायं पितरो नित्यं हृदि सम्परिवर्तते।
ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र च॥
एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः।
मया निवर्तिता बुद्धिर् ब्रह्मचर्यात्पितामहाः॥
करिष्ये वः प्रियं कामं निवेक्ष्ये नात्र संशयः ।
सनामां यद्यहं कन्याम् उपलप्स्ये कदाचन॥
भविष्यति च या काचिद् भैक्ष्यवत्स्वयमुद्यता।
प्रतिग्रहीता तामस्मि न हरेयं च तामहम् ॥
एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि।
अन्यथा न करिष्ये तत् सत्यमेतत्पितामहाः॥
सूतः-
एवमुक्त्वा तु स पितॄंश् चचार पृथिवीं मुनिः।
न च स्म लभते भार्यां वृद्धोऽयमिति शौनक॥
यदा निर्वेदमापन्नः पितृभिश्च प्रचोदितः ।
तदाऽरण्यं स गत्वोच्चैश् चुक्रोश भृशदुःखितः॥
यानि भूतानि सन्तीह जङ्गमस्थावराणि च।
अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः॥
उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम्।
निविशस्वेति दुःखार्तास् तेषां प्रियचिकीर्षया॥
निवेशार्थ्यखिलां भूमिं कन्याभैक्ष्यं चराम्यहम्।
दरिद्रो दुःखशीलश्च पितृभिः सन्नियोजितः॥
यस्य कन्याऽस्ति भूतस्य गुणैः सम्यक् प्रकीर्तिताः।
प्रयच्छतु स मे कन्यां चरतः सर्वतोदिशम्॥
मम कन्या सनामा या भैक्ष्यवच्चोद्यता भवेत्।
हरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत॥
ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः।
तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन्॥
तेषां श्रुत्वाऽथ नागेन्द्रस् तां कन्यां समलङ्कृताम्।
प्रगृह्यारण्यमगमत् समीपं तस्य पन्नगः॥
स तत्र भैक्ष्यवत्कन्यां प्रादात्तस्मै महात्मने।
कालेन वासुकिर्ब्रह्मन् न स तां प्रत्यगृह्णत॥
असनामेति वै कृत्वा भरणे चाविचारिते।
मोक्षभावे स्थितश्चापि मन्दीभूतः परिग्रहे॥
ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन।
वासुकिं हरणं चास्या न कुर्यामित्युवाच ह॥॥