सूतः-
एतस्मिन्नेव काले तु जरत्कारुर्महातपाः।
चचार पृथिवीं कृत्स्नां यत्रसायंगृहो मुनिः॥
चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः।
तीर्थेष्वायतनं कुर्वन् पुण्येषु विचचार ह॥
वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः।
स ददर्श पितॄन्गर्ते लम्बमानानधोमुखान्॥
एकतन्त्ववशिष्टान्वै वीरणस्तम्बमाश्रितान्।
तं च तन्तुं शनैराखुम् आददानं बिलाश्रयम्॥
निराहारकृशाञ्जीर्णान् गर्ते स्वत्राणमिच्छतः।
उपसृत्य स तान्दीनान् दीनरूपोऽभ्यभाषत॥
जरत्कारुः-
के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः।
दुर्बलं खादितं मूले आखुना बिलवासिना॥
वीरणस्तम्बके मूलं यदप्येकमिह स्थितम्।
तदप्ययं शनैराखुर् आदत्ते दशनैः शितैः॥
छेद्यतेऽल्पावशिष्टत्वाद् एतदप्यचिरादिव।
तत्रस्थाः पतिता रौद्रे गर्तेह्यस्मिन्नधोमुखाः॥
तस्मान्मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान्।
कृच्छ्रामापदमापन्नान् प्रियं किं करवाणि वः॥
तपसोऽस्य चतुर्थेन तृतीयेन च वा पुनः।
अर्धेन वापि सन्तर्तुम् आपदं ब्रूत मा चिरम्॥
अथवा तु समग्रेण तरन्तु तपसा मम।
भवन्तः सर्व एतस्मात् काममेवं विधीयताम्॥
पितरः-
कुतो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छति।
न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम्॥
अस्ति नस्तात तपसः फलं प्रवदतां वर।
सन्तानप्रक्षयाद्ब्रह्मन् पताम निरयेऽशुचौ॥
लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै।
येन त्वामाभिजानीमो लोके विख्यातपौरुषम् ॥
ऋद्धो भवान् महायोगी यो नः शोच्यान् सुदुःखितान्।
शोचस्युपेत्य कारुण्याच् छृणु ये वै वयं द्विज॥
यायावरा नाम वयम ऋषयः संशितव्रताः ।
लोकात् पुण्यादितो भ्रष्टाः सन्तानप्रक्षयान्विताः॥
प्रणष्टं नस्तपः पुण्यं न हि नस्तन्तुरस्ति वै।
अस्ति त्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा॥
मन्दभाग्योऽल्पभाग्यानां बन्धुस्स किल नः कुले।
जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः॥
नियतात्मा महात्मा च सुव्रतः सुमहातपाः।
तेन स्म तपसो लोभात् कृच्छ्रमापादिता वयम्॥
न तस्य भार्या पुत्रो वा बान्धवो वाऽपि कश्चन ।
तस्माल्लम्बामहे गर्ते नष्टसञ्ज्ञा ह्यनाथवत्॥
स वक्तव्यस्त्वया दृष्ट्वा ह्यस्माकं नाथवत्तया।
पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः॥
साधु दारान् कुरुष्वेति प्रजायस्वेति चाभि भोः।
कुलतन्तुर् हि नश्शिष्टः स एवैकस्तपोधन ॥
यं तु पश्यसि नो ब्रह्मन् वीरणस्तम्बमाश्रतान् ।
एषोऽस्माकं कुलस्तम्ब आस्ते स्वकुलवर्धनः॥
यानि पश्यसि चैवं त्वं मूलानीमानि वीरुधः।
एते नस्तन्तवस्तात कालेन परिभक्षिताः॥
यत्त्वेकं पश्यसि ब्रह्मन् मूलमस्या न भक्षितम्।
अत्र लम्बामहे सर्वे सोऽप्येकस्तम्ब आश्रितः॥
यमाखुं पश्यसि ब्रह्मन् काल एष महाबलः॥
स तन्तुमेकं दिवसैर् दशनैः क्षयते नुदन्।
जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम्॥
न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम॥
छिन्नमूलान् परिभ्रष्टान् कालोपहतचेतसः ।
अप्रविष्टान् प्रपश्यास्मान् यथा दुष्कृतकारिणः॥
अस्मासु पतितेष्वत्र सह पूर्वैः सहान्वयैः ।
छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः॥
तपो वाऽप्यथ वा यज्ञो यच्चान्यत्पावनं महत्।
तत्सर्वं न समं तात सन्तत्यैतत्सतां मतम्॥
स तात दृष्ट्वा ब्रूयास्त्वं जरत्कारुं तपस्विनम्।
यथा दृष्टमिदं चाद्य त्वयाऽऽख्येयमशेषतः ॥
यथा दारान्प्रकुर्यात्स पुत्रांश्चोत्पादयेद्यथा ।
तथा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया॥