सूतः-
तं तथा मन्त्रिणो दृष्ट्वा नागेन परिवेष्टितम् ।
विवर्णवदनास्सर्वे रुरुदुर्भृशदुःखिताः ॥
दहन्तं तं तथा दृष्ट्वा मन्त्रिणस्ते प्रदुद्रुवुः ।
अपश्यश्चैव ते यान्तम् आकाशे नागमद्भुतम् ॥
सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम् ।
तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः ॥
ततस्तु ते तद्गृहमग्निना वृतं प्रदीप्यमानं विषजेन भोगिनः ।
भयात्परित्यज्य दिशः प्रपेदिरे पपात तच्चाशनिताडितं यथा ॥
ततो नृपे तक्षकतेजसा हते प्रयुज्य सर्वाः परलोकसत्क्रियाः ।
शुचिर्द्विजो राजपुरोहितस्तदा तथैव ते तस्य नृपस्य मन्त्रिणः ॥
नृपं शिशुं तस्य नृपस्य चक्रिरे समेन्त्रिणस्तत्पुरवासिनो जनाः ।
नृपं यमाहुस्तममित्रतापनं कुरुप्रवीरं जनमेजयं तदा ॥
स बाल एवार्यमतिर्नृपोत्तमः सहैव तैर्मन्त्रिपुरोहितैस्तदा ।
शशास राज्यं कुरुपुङ्गवाग्रजो यथाऽस्य वीरः प्रपितामहस्तथा ॥
ततस्तु राजानममित्रतापनं समीक्ष्य ते तस्य नृपस्य मन्त्रिणः ।
सुवर्णवर्माणमुपेत्य काशिपं वपुष्टमार्थं वरयांप्रचक्रमुः ॥
ततस्स राजा प्रददौ वपुष्टमां कुरुप्रवीराय समीक्ष्य धर्मतः ।
स चापि तां प्राप्य मुदा युतोऽभवन्न चान्यनारीषु मनो दधे क्वचित् ॥
सरस्सु फुल्लेषु नगेषु चैव हि प्रसन्नचेता विजहार सप्रियः ।
तथा स राजप्रवरो विजह्रिवान् यथोर्वशीं प्राप्य पुरा पुरूरवाः ॥
वपुष्टमा चापि वरं पतिं तदा प्रतीतरूपं तमवाप्य भूमिपम् ।
अनन्यभावा रमयाम्बभूव सा विहारकालेष्ववरोधसुन्दरी ॥ ॥