तक्षकः-
दष्टं यदि मयेह त्वं शक्तः किञ्चिच्चिकित्सितुम् ।
ततो दष्टं मया वृक्षम् इमं जीवय काश्यप ॥
परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च ।
न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम ॥
काश्यपः-
दश नागेन्द्र वृक्षं त्वं यमेनमभिमन्यसे ।
अहमेनं त्वया दष्टं जीवयिष्ये भुजङ्गम ।
सूतः
एवमुक्तस्स नागेन्द्रः काश्यपेन महात्मना ।
अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः ॥
स वृक्षस्तेन दष्टस्सन् सद्य एव महाद्युते ।
आशीविषविषोपेतः प्रजज्वाल समन्ततः ॥
तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत् ।
कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम् ॥
सूतः-
भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा ।
भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत् ॥
काश्यपः-
विद्याबलं पन्नगेन्द्र पश्य मेऽस्मिन्वनस्पतौ ।
अहं सञ्जीवयाम्येनं पश्यतस्ते भुजङ्गम ॥
सूतः-
ततस्स भगवान्विद्वान् काश्यपो द्विजसत्तमः ।
भस्मराशीकृतं वृक्षं विद्यया समजीवयत् ॥
साङ्कुरं तं स कृतवांस् ततः पर्णद्वयान्वितम् ।
पलाशिनं शाखिनं च तथा विटपिनं पुनः ॥
तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना ।
उवाच तक्षको ब्रह्मन् एतदत्यद्भुतं त्वयि ॥
विप्रेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा ।
कं त्वमर्थमभिप्रेक्ष्य यासि तत्र तपोधन ॥
यत्तेऽभिलषितं प्राप्तं फलमस्मान्नृपोत्तमात् ।
तत्तेऽहं सम्प्रदास्यामि निवर्तस्व द्विजोत्तम ॥
विप्रशापाभिभूते च क्षीणायुषि नराधिपे ।
अटमानस्य ते विप्र सिद्धिः संशयिता भवेत् ॥
ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम् ।
विरश्मिरिव घर्मांशुर् अन्तर्धानमितो व्रजेत् ॥
काश्यपः-
धनार्थी याम्यहं तत्र तद्वदस्व भुजङ्गम ।
ततोऽहं विनिवर्तिष्ये गृहायोरगसत्तम ॥
तक्षकः-
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् ।
अहं तेऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम ॥
सूत-
तक्षकस्य वचश्श्रुत्वा काश्यपो द्विजसत्तमः ।
प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान् ॥
दिव्यज्ञानस्स तेजस्वी ज्ञात्वा तं नृपतिं तदा ।
क्षीणायुषं पाण्डवेयम् अपावर्तत काश्यपः ।
लब्ध्वा वित्तं मुनिवरस् तक्षकाद्यावदीप्सितम् ॥
निवृत्ते काश्यपे तस्मिन् समयेन महात्मनि ।
जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम् ॥
अथ शुश्राव गच्छन्स तक्षको जगतीपतिम् ।
मन्त्रैर्विषहरैर्दिव्यै रक्ष्यमाणं प्रयत्नतः ॥
स चिन्तयामास तदा मायायोगेन पार्थिवः ।
मया वञ्चयितव्योऽसौ क उपायो भवेदिति ॥
ततस्तापसरूपेण प्राहिणोत्स भुजङ्गमान् ।
फलपात्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः ॥
तक्षकः-
गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया ।
फलपात्रोदकं नाम प्रतिग्राहयितुं नृपम् ॥
सूतः-
ते तक्षकसमादिष्टास् तथा निन्युर्भुजङ्गमाः ।
उपनिन्युस्तथा राज्ञे दर्भानम्भः फलानि च ॥
तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान् ।
श्रुत्वा तु तेषां कार्याणि गम्यतामित्युवाच तान् ॥
गतेषु तेषु नागेषु तापसच्छद्मरूपिषु ।
अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः ॥
भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः ।
तापसैरुपनीतानि फलानि सहिता मया ॥
अथा राजा ससचिवः फलान्यादातुमैच्छत ॥
यज्जग्राह फलं राजा तस्मिन् कृमिरभूदणुः ।
ह्रस्वकः कृष्णनयनस् ताम्रो वर्णोन शौनक ।
स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत् ॥
अस्तमभ्येति सविता विषादन्यन्न मे भयम् ।
सत्यवागस्तु स मुनिः कृमिको मां दशत्वयम् ॥
तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् ।
ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः ॥
एवमुक्त्वा स राजेन्द्रो ग्रीवायां सन्निवेश्य ह ।
कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः ॥
हसन्नेव च नागेन तक्षकेणाभिवेष्टितः ।
तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् ॥
वेष्टयित्वा च भोगेन विनद्य च महास्वनम् ।
अदशत्पृथिवीपालं तक्षकः पन्नगेश्वरः ॥ ॥