शृङ्गी-
यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम् ।
प्रियं वाप्यप्रियं वापि वागुक्ता न मृषा मम ॥
नैवान्यथा तद्भविता पितरेतद्ब्रवीमि ते ।
नाहं मृषा प्रब्रवीमि स्वैरेष्वपि कुतः शपन् ॥
शमीकः-
जानाम्यत्युग्रभावं त्वां तव सत्यां गिरं तथा ।
नानृतं चोक्तपूर्वं ते नैतन्मिथ्या भविष्यति ॥
पित्रा पुत्रो वयस्थोऽपि सततं वाच्य एव तु ।
यथा स्याद्नुणसंयुक्तः प्राप्नुयाच्च महद्यशः ॥
किं पुनर्बाल एव त्वं तपसा भावितः प्रभो ।
वर्धते च प्रभवतां कोपोऽतीव महात्मनाम् ॥
सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर ।
पुत्रत्वाद्बालभावाच्च तवावेक्ष्य च साहसम् ॥
स त्वं शमयुतो भूत्वा नातः साहसमाचर ।
चरन् क्रोधमिमं त्यक्त्वा नैव धर्मं प्रहास्यसि ॥
क्रोधो हि धर्मं हरति यतीनां दुःखसञ्चितम् ।
ततो धर्मविहीनानां गतिरिष्टा न विद्यते ॥
शम एव यतीनां हि क्षमिणां सिद्धिकारकः ।
क्षमावतामयं लोकः परश्चापि क्षमावताम् ॥
तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः ।
क्षमया प्राप्स्यसे लोकान् ब्रह्मणः समनन्तरान् ॥
अहं तु शममास्थाय वक्तुं तत्त्वाख्यमद्य वै ।
शिष्यं धर्मभृतस्तात प्रेषयिष्ये नृपस्य वै ॥
मम पुत्रेण शप्तोऽसि बालेनाकृतबुद्धिना ।
ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा ॥
सूतः-
एवमादिश्य शिष्यं वै प्रेषयामास सुव्रतः ।
परिक्षिते नृपतये दयापन्नो महातपाः ॥
संदिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च ।
शिष्यं गौरमुखं नाम शीलवन्तं समाहितम् ॥
सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम् ।
विवेश भवनं राज्ञः पूर्वं द्वार्स्थैर्निवेदितः ॥
पूजितस्तु नरेन्द्रेण द्विजो गौरमुखस्तदा ।
आचख्यौ विपरिश्रान्तो राज्ञे सर्वमशेषतः ।
शमीकवचनं घोरं यथोक्तं मन्त्रिसन्निधौ ॥
गौरमुखः-
शमीको नाम राजेन्द्र विषये वसते तव ।
ऋषिः शमदमोपेतो मौनव्रतसमन्वितः ॥
तस्य त्वया नरव्याघ्र स्कन्धे भरतसत्तम ।
अवसक्तो धनुष्कोट्या सर्पः प्राणैर्वियोजितः ॥
क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे ॥
तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै ।
तक्षकात्सप्तरात्रेण मृत्युर्वै ते भविष्यति ॥
तस्य रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत् ।
तदन्यथा न शक्यं च कर्तुं केनचिदप्युत ॥
न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम् ।
ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना ॥
सूतः
इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः ।
पर्यतप्यत तत्पापं कृत्वा ब्रह्मन्महात्मनः ॥
तं च मौनव्रतधरं श्रुत्वा मुनिवरं तदा ।
भूय एवाभवद्राजा शोकसन्तप्तमानसः ॥
अनुक्रोशान्मतं तस्य शमीकस्योवधार्य तु ।
पर्यतप्यत भूयोऽपि कृत्वा तत्किल्बिषं मुने ॥
न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत ।
अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत् ॥
ततस्तं प्रेषयामास राजा गौरमुखं तदा ।
भूयः प्रसादं भगवान् करोत्विति ममैष वै ॥
श्रुत्वा तद्वचनं राज्ञो मुनिर्गौरमुखस्तदा ।
तमनुज्ञाप्य वेगेन प्रजगामाश्रमं गुरोः ॥
तस्मिंस्तु गतमात्रे तु राजा गौरमुखे तदा ।
मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः ॥
निश्चित्य मन्त्रिभिश्चैव सहितो मन्त्रतत्त्ववित् ।
प्रासादं कारयामास एकस्तम्भं सुरक्षितम् ॥
रक्षां च विदधे तत्र भिषजश्चौषधानि च ।
ब्राह्मणान् सिद्धमन्त्रांश्च सर्वतो वै न्यवेशयत् ॥
राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः ।
मन्त्रिभिः सह मन्त्रज्ञैः समन्तात्परिरक्षितः ॥
प्राप्ते च दिवसे तस्मिन् सप्तमे द्विजसत्तमः ।
काश्यपोऽभ्यागमद्विद्वांस् तं राजानं चिकित्सितुम् ॥
श्रुतं हि तेन तदभूद् अद्य तं राजसत्तमम् ।
तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम् ॥
तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम् ।
तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन् ॥
तं ददर्श स नागेन्द्रस् तक्षकः काश्यपं पथि ।
गच्छन्तमेकमनसं द्विजो भूत्वा वयोऽधिकः ॥
तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुङ्गवम् ।
क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ॥
काश्यपः-
नृपं कुरुकुलोत्पन्नं परिक्षितमरिन्दमम् ।
तक्षकः पन्नगश्रेष्ठस् तेजसाऽध्य प्रधक्ष्यति ॥
तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा ।
पाण्डवानां कुलकरं राजानममितौजसम् ।
गच्छामि सौम्य त्वरितः सद्यः कर्तुमपज्वरम् ॥
तक्षकः
अहं स तक्षको ब्रह्मंस् तं धक्ष्यामि महीपतिम् ।
निवर्तस्व मया दष्टं न शक्यं स्याच्चिकित्सितुम् ॥
काश्यप-
अहं तं नृपतिं नाग त्वया दष्टमपज्वरम् ।
करिष्य इति मे बुद्धिर् विद्याबलसमाश्रिता ॥ ॥