शौनकः-
जरत्कारुरिति प्रोक्तं यत्त्वया सूतनन्दन ।
इच्छामि तदहं तस्य ऋषेः श्रोतुं महात्मनः ॥
किं कारणं जरत्कारोर् नामैतत्प्रथितं भुवि ।
जरत्कारुनिमित्तं मे यथावद्वक्तुमर्हसि ॥
सूतः-
जरेति क्षयमाहुर्वै दारुणं कारुसञ्ज्ञितम् ।
शरीरं कारु तस्यासीत् तत्स धीमाञ्शनैः शनैः ॥
क्षपयामास तीव्रेण तपसेत्येतदुच्यते ।
जरत्कारुरिति ब्रह्मन् वासुकेर्भगिनीपतिः ॥
एवमुक्तस्तु धर्मात्मा शौनकः प्राह तं तदा ।
उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् ॥
अथ कालस्य महतः स मुनिः संशितव्रतः ।
तपस्यभिरतो धीमान् न दारानभ्यकाङ्क्षत ॥
स ह्यूर्ध्वरेतास्तपसि प्रसक्तः स्वाध्यायवान्वीतभयक्लमस्सः ।
चचार सर्वां पृथिवीं महात्मा न चापि दारान्मनसाभ्यकाङ्क्षत् ॥
ततः परस्मिन्सम्प्राप्ते काले कस्मिंश्चिदेव तु ।
परिक्षिदिति विख्यातो राजा कौरववंशभृत् ॥
यथा पाण्डुर्महाबाहुर् धनुर्धरवरो भुवि ।
तथा विख्यातवाल्ँलोके परीक्षिदभिमन्युजः ॥
पाण्डुस्तु मृगयाशीलः पुरास्य प्रपितामहः ।
मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा ।
अन्यांश्च विविधान्वन्याञ् जघान पृथिवीपतिः ॥
स कदाचिन्मृगं विद्ध्वा बोणन नतपर्वणा ।
पृष्ठतो धनुरादाय ससार गहने वने ॥
यथा हि भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि ।
अन्वगच्छद्धनुष्पाणिः पर्यन्विष्यंस्ततस्ततः ॥
न हि तेन मृगो विद्धो जीवन्गच्छति वै वनम् ।
अभूतपूर्वस्तत्रासीद् राज्ञास्स्वर्गगतिं प्रति ॥
परिक्षितो महाराज्ञो विद्धो यन्नष्टवान्मृगः ।
दूरं चापहृतस्तेन मृगेण स महीपतिः ॥
परिश्रान्तः पिपासार्त आससाद मुनिं वने ।
गवां प्रचारेष्वासीनं वत्सानां मुखनिस्सृतम् ॥
भूयिष्ठमुपयुञ्जानं फेनं वै पिबतां पयः ॥
तमभिद्रुत्य वेगेन स राजा संशितव्रतः ।
अपृच्छद्धनुरुद्यम्य तं मृगं क्षुच्छ्रमान्वितः ॥
भो भो ब्रह्मन्नहं राजा परीक्षिदभिमन्युजः ।
मया विद्धो मृगो नष्टः कच्चित्त्वं दृष्टवानसि ॥
स मुनिस्तस्य नोवाच किञ्चिन्मौनव्रते स्थितः ।
तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासृजत् ॥
धनुष्कोट्या समुत्क्षिप्य स चैनं समवैक्षत ।
न च किञ्चिदुवाचैनं शुभं वा यदि वाऽशुभम् ॥
स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम् ।
दृष्ट्वा जगाम नगरीम् ऋषिस्त्वास्ते तथैव च ॥
तरुणस्तस्य पुत्रोऽभूत् तिग्मतेजा महातपाः ।
शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः ॥
स देवं परमीशानं सर्वभूतहिते रतम् ।
ब्रह्माणमुपतस्थे वै काले काले सुंसयतः ॥
स तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान् ।
सख्योक्तः क्रीडमानेन स तत्र सहसा किल ॥
संरम्भात्कोपनोऽतीव विषकल्पो ऋषेः सुतः ।
ऋषिपुत्रेण तत्त्वाे्र्थं कृशेन द्विजसत्तम ॥
कृशः-
तेजस्विनस्तव पिता तथैव च तपस्विनः ।
शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव ॥
व्याहरत्स्वृषिपुत्रेषु मा च किञ्चिद्वचो वदीः ।
अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु ॥
क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः ।
दर्पजाः पितरं द्रष्टा यस्त्वं शवधरं तथा ॥