सूतः-
एलापत्रस्य तु वचश् श्रुत्वा नागा द्विजोत्तम ।
सर्वे प्रहृष्टमनसः साधु साध्वित्यपूजयन् ॥
ततःप्रभृति तां कन्यां वासुकिः पर्यरक्षत ।
जरत्कारुं स्वसारं वै परं हर्षमवाप च ॥
ततो नातिमहान् कालः समतीत इवाभवत् ।
ततो देवासुराः सर्वे ममन्थुर्वरुणालयम् ॥
तत्र योक्त्रभून्नागो वासुकिर्बलिनां वरः ।
संस्थाप्य च महत्कर्म पितामहमुपागमन् ॥
देवा वासुकिना सार्धं पितामहमथाब्रुवन् ।
भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम् ।
अस्यैतन्मानसं शल्यं समुद्धर्तुं त्वमर्हसि ॥
जनन्याः शापजं देव ज्ञातीनां हितकाङ्क्षिणः ।
हितो ह्ययं सदाऽस्माकं प्रियकारी च नागराट् ॥
कुरु प्रसादं देवेश शमयास्य मनोज्वरम् ॥
ब्रह्माः-
मयैतच्चिन्तितं पूर्वं वचनं मनसाऽमराः ।
एलापत्रेण नागेन यदस्याभिहितं पुरा ॥
तत्करोत्वेष नागेन्द्रः काले प्राप्तं वचस्तदा ।
विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः ॥
उत्पन्नः स जरत्कारुस् तपस्युग्रे रतः सदा ।
तस्मै स्वभगिनीं काले जरत्कारुं प्रयच्छतु ॥
एलापत्रेण वचनं तदोक्तं भुजगोत्तम ।
भुजगानां हितं चैव तथा तन्न तदन्यथा ॥
सूतः-
एतच्छ्रुत्वा स नागेन्द्रः पितामहवचस्तदा ।
सर्पान्बहूञ्जरत्कारौ नियुक्तान्सुसमादधत् ॥
जरत्कारुर्यथा भार्याम् इच्छेद्वरयितुं प्रभुः ।
शीघ्रमेत्य ममाऽऽख्येयं तन्नः श्रेयो भविष्यति ॥ ॥