सूतः-
श्रुत्वा तु वचनं तेषां सर्वेषामिति चैव हि ।
वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम् ॥
एलापत्रः-
न स यज्ञो न भविता स च राजा तथाविधः ।
जनमेजयः पाण्डवेयो यतोऽस्माकमिदं भयम् ॥
दैवेनोपहतं राजन् न कर्तव्यं च पौरुषम् ।
स दैवमेवाश्रयेत नान्यत्तत्र परायणम् ॥
पौरुषं नैतदस्माकं भयदं पन्नगोत्तमाः ।
दैवमेवाश्रयामोऽत्र शृणुध्वं वचनं मम ॥
अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा ।
मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः ।
देवैक्षोक्तं तदाश्रौषं तीक्ष्ण तीक्ष्ण इति प्रभो |
पितामहमुपागम्य दुःखार्तानां महाद्युते ॥
देवाः-
का हि लब्ध्वा प्रियान्पुत्राञ् शपेदेवं पितामह ।
ऋते कद्रूं तीक्ष्णरोषां देवदेव तवाग्रतः ॥
तथेति वचनं तस्यास् त्वयाप्युक्तं पितामह ।
एतादिच्छाम विज्ञातुं कारणं यन्न वारिता ॥
ब्रह्मा-
बहवः पन्नगास्तीक्ष्णा भीमवीर्या विषोल्बणाः ।
प्रजानां हितकामोऽहं न च वारितवांस्तदा ॥
ये दन्दशूकाः क्षुद्राश्च पापाचारा विषोल्बणाः ।
तेषां विनाशो भविता न तु ये धर्मचारिणः ॥
तन्निमित्तश्च भविता मोक्षस्तेषां महाभयात् ।
पन्नगानां निबोधध्वं यथा वै गदितं मया ॥
यायावरकुले धीमान् भविष्यति महानृषिः ।
जरत्कारुरिति ख्यातस् तेजस्वी नियतेन्द्रियः ॥
तस्य पुत्रो जरत्कारोर् उत्पत्स्यति महातपाः ।
आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा ।
तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः ॥
देवा-
स मुनिप्रवरो देव जरत्कारुर्महातपाः ।
कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान् ॥
ब्रह्मा-
सनामायां सनामा स कन्यायां द्विजसत्तमः ।
अपत्यं वीर्यवान्देवा वीर्यवज्जनयिष्यति ॥
एलापत्रः-
एवमस्त्विति तं देवाः पितामहमथाब्रुवन् ।
उक्त्वा चैवं गता देवः स च देवः पितामहः ॥
सोऽहमेवं प्रपश्यामि वासुके भगिनीं तव ।
जरत्कारुरिति ख्यातां तां तस्मै प्रतिपादय ॥
भैक्षवद्भिक्षमाणाय नागानां भयशान्तये ।
ऋषये सुव्रताय त्वम् एष मोक्षः श्रुतो मया ॥ ॥