सूतः-
मातुः सकाशात्तच्छापं श्रुत्वा वै पन्नगसत्तमः ।
वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम् ॥
ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः ।
ऐरावतप्रभृतिभिर् ये स्वधर्मपरायणाः ॥
वासुकिः-
अयं शापो यथोत्सृष्टो विदितो वस्सदानघाः ।
तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे ॥
सर्वेषामपि शापानां प्रतिघातो हि विद्यते ।
न तु मात्राऽभिशप्तानां मोक्षो विद्यते पन्नगाः ॥
अव्ययस्याप्रमेयस्य सत्यस्य च यथाग्रतः ।
शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः ॥
नूनं सर्वविनाशोऽयमस्माकं समुदाहृतः ।
न ह्यस्मान् सोऽव्ययो देवः शपन्तीं प्रत्यषेधयत् ॥
तस्मात्सम्मन्त्रयामोऽद्य भुजङ्गानामनामयम् ।
यथा भवेन्न सर्वेषां मातुः कामोऽत्यगादयम् ॥
मन्त्रयाम इहैवाथ हेतुं पश्याम मोक्षणे ।
यथा नष्टं पुरा देवा गूढमग्निं गुहागतम् ॥
यथा स यज्ञो न भवेद् यथा चापि पराभवः ।
जनमेजयस्य सर्पाणां विनाशकरणाय वै ॥
सूतः-
तथेत्युक्त्वा ततः सर्वे काद्रवेयाः समाहिताः ।
समयं चकिरे तत्र मन्त्रबुद्धिविशारदाः ॥
एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः ।
जनमेजयं तं भिक्षामो यज्ञस्ते न भवेदिति ॥
अपरे त्वब्रुवन्नागास् तत्र पण्डितमानिनः ।
मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसम्मताः ॥
स नः पृच्छति सर्वेषु कार्येष्वर्थविनिश्चयम् ।
तत्र बुद्धिं प्रवक्ष्यामो यथा यज्ञो न वर्तते ॥
स नो बहुमतान् राजा बुद्धौ बुद्धिमतां वरः ।
यज्ञार्थं प्रक्ष्यते व्यक्तं नेति वक्ष्यामहे वयम् ॥
दर्शयन्तो बहून्दोषान् प्रेत्य चेह च दारुणान् ।
हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः ॥
अथवा य उपाध्यायः क्रतौ तस्य भविष्यति ।
सर्पसत्रविधानज्ञो राजकार्यहिते रतः ॥
तं गत्वा दशतां कश्चिद् भुजङ्गः स मरिष्यति ।
तस्मिन्हते यज्ञकारे क्रतुः स न भविष्यति ॥
ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यत्र चर्त्विजः ।
तान् सर्वान्दंशयिष्यामः कृतमेवं भविष्यति ॥
तत्रापरे मन्त्रयन्ति धर्मात्मानो भुजङ्गमाः ।
अबुद्धिरेषा युष्माकं ब्रह्महत्या न शोभना ॥
सम्यक्सा धर्ममूला वै व्यसने शान्तिरुत्तमा ।
अधर्म एवं चरितः कृत्स्नं व्यापादयेज्जगत् ॥
अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम् ।
वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः ॥
स्रुग्भाण्डान्निशि गत्वा चाप्यपरे भुजगोत्तमाः ।
प्रमत्तानाहरन्त्वाशु विघ्न एवं भविष्यति ॥
यज्ञे वा भुजगास्तस्मिञ् शतशोऽथ सहस्रशः ।
जनं दशन्तु वै सर्वमेवं त्रासो भविष्यति ॥
अथवा संस्कृतं भोज्यं दूषयन्तु भुजङ्गमाः ।
स्वेन मूत्रपुरीषेण सर्वभोक्तृविनाशिनम् ॥
अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे ।
यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति ॥
वश्यतां चगतोऽसौ नः करिष्यति यथेप्सितम् ।
अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम् ॥
गृहेत्वाऽऽनीय बध्नीमः क्रतुरेवं भवेन्न सः ।
अपरे त्वब्रुवंस्तत्र नागास्सुकृतकारिणः ॥
दशामैनं प्रसह्याशु कृतमेवं भविष्यति ।
छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति ॥
एषा नो नैष्ठिकी बुद्धिः मता कर्तुं भुजङ्गमाः ।
यथा वा मन्यसे राजंस् तत्क्षिप्रं संविधीयताम् ॥
इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगोश्वरम् ।
वासुकिश्चापि सञ्चिन्त्य तानुवाच भुजङ्गमान् ॥
वासुकिः-
नैषा वै नैष्ठिकी बुद्धिर् मता कर्तुं भुजङ्गमाः ।
सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते ॥
किं तत्र संविधातव्यं भवतां यद्धितं भवेत् ।
अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ ॥ ॥