शौनकः-
भुजङ्गमानां शापस्य मात्रा चैव सुतेन च ।
विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन ॥
वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा ।
नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः ॥
पन्नगानां तु नामानि न कीर्तयसि सूतज ।
प्राधान्येना तु नामानि श्रोतुमिच्छामहे वयम् ॥
सूतः-
बहुत्वान्नामधेयानि भुजङ्गानां तपोधन ।
न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु ॥
शेषस्तु प्रथमो जातो वासुकिस्तदनन्तरम् ।
ऐरावतस्तक्षकश्च कार्कोटकधनञ्जयौ ॥
कालियो मणिनागश्च नागश्चापूरणस्तथा ।
नागस्तथा पञ्जशिरा एलापत्रोऽथ वामनः ॥
नीलानीलौ तथा नागौ कल्माषशबलौ तथा ।
आर्यकश्चार्द्रकश्चैव नागश्च हलपोतकः ॥
सुमखो दुर्मुखश्चैव विमुखोऽसिमुखस्तथा ।
विमलः पिण्डकश्चैव शङ्खो वालिशिखस्तथा ॥
आप्तकोटरकश्चैव शङ्कपालशिखिस्तथा ।
निष्टूरिको हेमगुहो नहुषः पिङ्गलस्तथा ॥
बाह्यकर्णो हस्तिबकस् तथा मुद्गरपिण्डकः ।
कम्बलाश्वतरौ चापि नागः कालिकटस्तथा ॥
वृत्तसंवृत्तकौ नागौ द्वौ च पद्माविति श्रुतौ ।
नागः शङ्खनकश्चैव तथा गन्धवृकोदनः ॥
क्षेमकश्च तथा नागो नागः पिण्डीरकस्तथा ।
करवीरः पुष्पदंष्ट्रो बिल्वको बिल्वपाण्डकः ॥
मूषिकादः शङ्खशिराः पूर्णदंष्ट्रो हरिद्रकः ।
अथानमित्रो ज्योतिकः पन्नगः शिवगस्तथा ॥
कौरव्यो धृतराष्ट्रश्च पुष्करः शल्यकस्तथा ।
विराजश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान् ॥
हस्तिभद्रः पिठरकः मुखरः कोणनासिकः ।
कुञ्जरस्तुरगश्चैव तथा नागः प्रभाकरः ॥
कुमुदः कुमुदाक्षश्च तिकिरिर्हरिलस्तथा ।
कर्कराकर्करौ लोहौ तुण्डोदरमहोदरौ ॥
एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम ।
बहुत्वान्नामधेयानाम् इतरे नानुकीर्तिताः ॥
एतेषां प्रभवो यश्च प्रभवस्य च सन्ततिः ।
असङ्ख्येयेति मत्त्वा तान् न ब्रवीमि द्विजोत्तम ॥
वहूनी च सहस्राणि प्रयुतान्यर्बुदानि च ।
अशक्यान्येव सङ्ख्यातुं भुजङ्गानां तपोधन ॥ ॥