गरुडः-
सख्यमस्तु त्वया देव यथेच्छसि पुरन्दर ।
बलं तु मम जानीहि महच्चासह्यमेव च ॥
कामं नैव प्रशंसन्ति सन्तः स्वबलसंस्तवम् ।
गुणसङ्कीर्तनं चापि स्वयमेव शतक्रतो ॥
सखेति कृत्वा तु सखे! पृष्टो वक्ष्याम्यहं त्वया ।
न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः ॥
सपर्वतवनामुर्वीं ससागरनदीमिमाम् ।
पक्षेणौकेन वै शक्र त्वां चैवात्रावलम्बिनम् ॥
सर्वान्सम्पिण्डितान्वापि लोकान्स्थावरजङ्गमान् ।
वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम् ॥
सूतः-
इत्युक्त्वा वचनं वीरं किरीटी श्रीमतां वरः ।
आह शौनक देवेन्द्रः सर्वभूतहिते रत ॥
प्रगृह्यतामिदानीं मे सख्यमानन्त्यमुत्तमम् ।
न कार्यं तव सोमेन मम सोमः प्रदीयताम् ।
अस्मांस्ते हि च बन्धेयुर् येभ्यो दद्याद्भवानिमम् ॥
गरुडः-
किञ्चित्कारणमुद्दिश्य सोमोऽयं नीयते मया ।
न दास्यामि समापातुं सोमं कस्मैचिदप्यहम् ॥
यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम् ।
समादाय ततस्तूर्णं व्रजेथास्त्रिदिवेश्वर ॥
शक्रः-
वाक्येनानेन तुष्टोऽस्मि यत्त्वयोक्तमिहाण्डज ।
यमिच्छसि वरं मत्तस् तं गृहाण खगोत्तम ॥
सूतः-
इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन् ।
स्मृत्वा चैवोपधिकृतान् मातुर्दास्यनिमित्ततः ॥
गरुडः-
ईशोऽहमपि सर्वस्य करिष्यामि यतेप्सितम् ।
भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः ॥
सूतः-
तथेत्युक्त्वाऽन्वगच्छत्तं शक्रो दानवसूदनः ॥
हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम् ।
आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिके ।
अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत् ॥
गरुडः-
इदमानीतममृतं निक्षिपामि कुशेषु वः ।
स्नाता मङ्गलसंयुक्तास् ततः प्राश्नीत पन्नगाः ॥
अदासी चैव मातेयम् अद्यप्रभृति चास्तु मे ।
यथोक्तं भवतामेतद् वचो मे प्रतिपादितम् ॥
ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत ।
शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः ॥
अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा ।
स्नाताश्च कृतजप्याश्च हृष्टाश्च कृतमङ्गलाः ॥
तद्विज्ञाय हृतं सर्पाः शक्रमायाकृतं च तत्।
सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा ॥
ततो द्वैधीकृता जिह्वाः सर्पाणां तेन कर्मणा ।
अभवंश्चामृतस्पर्शाद् दर्भास्तेऽथ पवित्रिणः ॥
ततः सुपर्णः परमप्रहर्षवान् विहृत्य मात्रा सह तत्र कानने ।
भुजङ्गभक्षः परमार्थतः खगैर् अहीनकीर्तिर्विनतामनन्दयत् ॥
इमां कथां यः शृणुयान्नरः सदा पठेत वा द्विजजनमुख्यसंसदि ।
असंशयं त्रिदिवमियात्स पुण्यभाङ्महात्मनः पतगपतेः प्रकीर्तनात् ॥ ॥