सूतः-
ततस्तस्माद्द्विजश्रेष्ठःसमुदीर्णो महाबलः ।
गरुत्मानपि सम्प्राप्तो जवेन विबुधान्प्रति ॥
तं दृष्ट्वातिबलं चैव प्राकम्पन्त सुमन्ततः ।
परस्परं च प्रत्यघ्नन् सर्वप्रहरणायुधि ॥
तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः ।
भौवरः सुमहावीर्यः सोमस्य परिरक्षिता ॥
स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः ।
मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि ॥
रजश्चोद्धूय सुमहत् पक्षवातेन खेचरः ।
कृत्वा लोकान्निरालोकान् तेन देवानवाकिरत् ॥
तेनावकीर्णो रजसा देवा मोहमुपाविशन् ।
न चैनं ददृशुश्छन्ना रजसाऽमृतरक्षिणः ॥
एवं सल्लोडयामास गरुडस्त्रिदिवालयान् ।
पक्षतुण्डप्रहारैश्च देवांश्च विरराद ह ॥
ततो देवः सहस्राक्षस् तूर्णं वायुमचोदयत् ।
विक्षिपेमां रजोवृष्टिं तवेदं कर्म मारुत ॥
अथ वायुरपोवाह तद्रजस्तरसा बली ।
ततो वितिमिरे जाते देवाः शकुनिमर्दयन् ॥
ननाद चोच्चै र्बलवान् महामेघरवः खगः ।
वध्यमानः सुरगणैस् सर्वभूतानि भीषयन् ॥
उत्पपात महावीर्यः पक्षिराट् परवीरहा ।
तमुपेत्यान्तरिक्षस्थं देवानामुपरि स्थितम् ॥
वर्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन् ।
पट्टसैः परिधैः शूलैर् गदाभिश्च सवासवाः ॥
क्षुरप्रैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः ।
नानाशस्त्रविसर्गैस्तु वध्यमानः समन्ततः ।
कुर्वन्सुतुमुलं युद्धं पक्षिराण्ण ह्यकम्पत ॥
विनिर्दन्निव चाकाशे वैनतेयः प्रतापवान् ।
पक्षाभ्यामुरसा चैव समन्ताद्व्यक्षिपत्सुरान् ॥
ते विक्षिप्ताः सुराः सर्वे प्रजग्मुर्गरुडार्दिताः ।
नखतुण्डहताश्चापि सुस्रुवुः शोणितं बहु ॥
साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम् ।
प्रजग्मुः सहिता रुद्रैः पतगेन्द्रप्रधर्षिताः ॥
दिशं प्रतीचीमादित्या नासत्यौ चोत्तरां दिशम् ।
मुहुर्मुहुः प्रेक्षमाणा युध्यमानमनेकशः ॥
अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा ।
उलूकश्वसनाभ्यां च निमेषेण च पक्षिणा ॥
क्रथनेन च रूरेण पतनेन च खेचरः।
परजेन च संयुद्धं चकार प्रलिहेन च ॥
तान्पक्षनखतुण्डाग्रैर् अभिनद्विनतासुतः ।
युगान्तकाले सङ्क्रुद्धः पिनाकीव महाबलः ॥
महाबला महावीर्यास् तेन ते बहुधा क्षताः ।
रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः ॥
तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान् ।
अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत ॥
आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम् ।
दहन्तमिव तीक्ष्णांशुं घोरवायुसमीरितम् ॥
ततो नवत्या नवतिं मुखानि कृत्वा तरखी गरुडो महात्मा ।
नदीः समापीय मुखैस्ततस्तैः स शीघ्रमागत्य पुनर्जवेन ॥
ज्वलन्तमग्निं तममित्रतापनः समास्तरत्पत्ररथो नदीभिः ।
ततः प्रचक्रे वपुरन्यदल्पं प्रवेष्टुकामोऽग्निमभिप्रशाम्य ॥ ॥