शौनकः-
कः प्रमोदो महेन्द्रस्य कोऽपराधश्च सूतज ।
तपसा वालखिल्यानां सम्भूतो गरुडः कथम् ॥
काश्यपस्य द्विजातेश्च कथं वै पक्षिराट् सुतः ।
अधृष्टः सर्वभूतानामवध्यश्चाभवत्कथम् ॥
कथं च कामरूपी स कामवीर्यश्च खेचरः ।
एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते ॥
सूतः-
विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि ।
शृणु मे वदतः सर्वमेतत्सङ्क्षेपतो द्विज ॥
यजतः पुत्रकामस्य काश्यपस्य प्रजापतेः ।
साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल ॥
तत्रेध्मानयने शक्रो नियुक्तः काश्यपेन हि ।
मुनयो वालखिल्याश्च ये चान्ये देवतागणाः ॥
शक्रः स्ववीर्यसदृशमिध्मभारं गिरिप्रभम् ।
समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभो ॥
अथापश्यदृषीन् सर्वान् ह्रस्वानङ्गुष्ठमात्रकान् ।
पालाशवृत्तिकामेकां वहतः सहितान्पथि ॥
प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् ।
क्लिश्यमानान्मृदुबलान् गोष्पदे सम्प्लुतोदके ॥
तान्स्म सर्वान् स्मयाविष्टो वीर्योन्मत्तः पुरन्दरः ।
अपहास्यात्यगाच्छीघ्रं लङ्घयित्वाऽवमत्य च ॥
ते तु रोषसमाविष्टाः भृशं सञ्जातमन्यवः ।
आरेभिरे महत्कर्म तदा शक्रभयङ्करम् ॥
जुहुवुस्ते सुतपसो विधिवज्जातवेदसम् ।
मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु ॥
कामवीर्यः कामगमो देवराजभयप्रदः ।
इन्द्रोऽन्यः सर्वभूतानां भवेदिति यतव्रताः ॥
इन्द्राच्छतगुणो वीर्ये शौर्ये चैव मनोजवः ।
तपसो नः फलेनाद्य दारुणः समपद्यताम् ॥
तच्छ्रुत्वा भृशसन्तप्तो देवराजः शतक्रतुः ।
जगाम शरणं तत्र काश्यपं संशितव्रतम् ॥
तच्छ्रुत्वा देवराजस्य काश्यपोऽथ प्रजापतिः ।
वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत ॥
एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः ।
तान्काश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः ॥
अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः ।
इन्द्रार्थं च भवन्तोऽपि यत्नवन्तस्तपोधनाः ॥
न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः ।
भवतां च न मिथ्याऽयं सङ्कल्पो हि भवेदिति ॥
भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान् ।
प्रसादः क्रियतां चैव देवराजस्य याचतः ॥
एवमुक्ताः काश्यपेन वालखिल्यास्तपोधनाः ।
प्रत्यूचुरभिसम्पूज्य मुनिश्रेष्ठं प्रजापतिम् ॥
इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते ।
अपत्यार्थं समारम्भो भवतश्चायमीप्सितः ॥
तदिदं सफलं कर्म त्वयैव प्रतिगृह्यताम् ।
तथा चैनं विधत्स्वात्र यथा श्रेयोऽनुपश्यसि ॥
एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा ।
विनता नाम कल्याणी पुत्रकामा यशस्विनी ॥
तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः ।
उपचक्राम भर्तारं तामुवाचाथ काश्यपः ॥
आरम्भः सफलो देवि भविताऽयं तवोप्सितः ।
जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ ॥
तपसा वालखिल्यानां मम सङ्कल्पजौ तथा ।
भविष्यतो महाभागौ पुत्रौ त्रैलोक्यविक्षुतौ ॥
उवाच चैनां भगवान् मरीचः पुनरेव ह ।
धार्यतां मत्प्रसादेन गर्भोऽयं सुमहोदयः ॥
एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति ।
लोकसम्भावितो वीरः कामवीर्यो विहङ्गमः ।
शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः ॥
काश्यपः-
त्वत्सखायौ खगावेतौ भ्रातरौ ते भविष्यतः ॥
नैताभ्यां भविता दोषः सकाशात्ते पुरन्दर ।
व्येतु ते शक्र सन्तापस् त्वमेवेन्द्रो भविष्यसि ॥
न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः ।
न चावमान्या दर्पात्ते वाग्विषा भृशकोपनाः ॥
सूतः-
एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम् ।
विनता चापि सिद्धार्था बभूव मुदिता तदा ॥
जनयामास पुत्रौ द्वावरुणं गरुडं तथा ।
अरुणस्तयोस्तु विकल आदित्यस्य पुरस्सरः ॥
पतात्रिणां तु गरुड इन्द्रत्वेनाभ्यषिञ्च्यत ।
तस्यैतत्सुमहत्कर्म श्रूयतां भृगुनन्दन ॥ ॥