सूतः-
स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा ।
अभज्यत तरोः शाखा भग्नां चैनामधारयत् ॥
तां भग्नां स महाशाखां स्मयन्समवलोकयन् ।
तत्रावलम्बतोऽपश्यद् वालखिल्यावाङ्मुखान् ॥
तपस्यतो भयाविष्टो वैनतेयो महाबलः ।
स तद्विनाशसंत्रासाद् उत्पत्य च महाखगः ॥
शाखामास्येन जग्राह तेषामेवान्ववेक्षया ।
शनैः पर्यपतत्पक्षैः पर्वतान्परिचालयन् ॥
एवं सोऽभ्यपतद्देशान् बहून् सगजकच्छपः ।
भयात्तु वालखिल्यानां न च स्थानमविन्दत ॥
स गत्वा पर्वतश्रेष्ठं गन्धमादनमव्ययम् ।
ददर्श काश्यपं तत्र पितरं तपसि स्थितम् ॥
ददर्श तं पिता चापि दिव्यरूपं विहङ्गमम् ।
तेजोवीर्यबलोपेतं मनोमारुतरंहसम् ॥
शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम् ।
अचिन्त्यमनभिज्ञेयं सर्वभूतभयङ्करम् ॥
महावीर्यधरं साक्षाद् अग्निमिद्धमिवोद्यतम् ।
अप्रधृष्यमजय्यं च देवदानवराक्षसैः ॥
भेत्तारं गिरिशृङ्गाणां नदीजलविशोषणम् ।
लोकसंलोडनं घोरं कृतान्तसमदर्शनम् ॥
तमागतमभिप्रेक्ष्य भगवान्काश्यपस्तदा ।
विदित्वा चास्य सङ्कल्पमिदं वचनमब्रवीत् ॥
काश्यप-
पुत्र मा साहसं कार्षीर् मा सद्यो लप्स्यसे व्यथाम् ।
मा त्वां दहेयुः सङ्क्रुद्धा वालखिल्या मरीचिपाः ॥
सूतः-
प्रसादयामास स तान् काश्यपः पुत्रकारणात् ।
वालखिल्यांस्तपस्सिद्धान् इदमुद्दिश्य कारणम् ॥
काश्यपः-
प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः ।
चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ ॥
सूतः-
एवमुक्ता भगवता मुनयस्ते समभ्ययुः ।
मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोधनाः ॥
ततस्तेष्वपयातेषु पितरं विनतात्मजः ।
शाखां व्याक्षिप्य वदनात् पर्यपृच्छत काश्यपम् ॥
गरुड-
भगवन्क्कनु मुञ्चामि तरुशाखामिमामहम् ।
वर्जितं ब्राह्मणैर्देशमाख्यातु भगवान्मम ॥
सूतः-
ततो निष्पुरुषं देशं हिमसंरुद्धकन्दरम् ।
अगम्यं मनसाप्यन्यैस् तस्याचख्यौ स काश्यपः ॥
तं पर्वतं महाकुक्षिमुद्दिश्य मनसा खगः ।
जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः ॥
न तां वार्ध्रः परिणहेच् छतचर्मा महानणुः ।
शाखिनो महतीं शाखां प्रगृह्य प्रययौ खगः ॥
ततः शतसाहस्रं स योजनान्तरमागतः ।
कालेन चातिमहता गरुडः पततां वरः ॥
स गत्वा तत्क्षणेनैव पर्वतं वचनात्पितुः ।
अमुञ्चन्महतीं शाखां सस्वनं तत्र खेचरः ॥
पक्षानिलहतश्चात्र प्राकम्पत स शैलराट् ।
मुमोच पुष्पवर्षं च समागलितपादपः ॥
शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः ।
मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् ॥
शाखिनो बहवश्चापि शाखयाऽभिहतास्तया ।
काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः ॥
ते हेमसद्दशैर्भूयो युक्ताः पर्वतधातुभिः ।
व्यराजञ्छाखिनस्तत्र सूर्यांशुपरिरञ्जिताः ॥
ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः ।
भक्षयामास गरुडस् तावुभौ गजकच्छपौ ॥
तावुभौ भक्षयित्वा तु स तार्क्ष्यः कूर्मकुञ्जरौ ।
ततः पर्वतकूटाग्राद् उत्पपात महाजवः ॥
प्रावर्तन्ताथ देवानामुत्पाता भयवेदिनः ।
इन्द्रस्य वज्रं दयितं प्रजज्वाल व्यथन्निव ॥
सधूमा चापतत्सार्चिर् दीप्तोल्का नभसि च्युता ।
तथा वसूनां रुद्राणामादित्यानां च सर्वशः ॥
साध्यानां मरुतां चैव ये चान्ये देवतागणाः ।
स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत् ॥
अभूतपूर्वं सङ्ग्रामे तदा देवासुरेष्वपि ।
ववुर्वाताः सनिर्घाताः पेतुरुल्काः समन्ततः ॥
निरभ्रमेव चाकाशं प्रजगर्ज महास्वनम् ।
देवानामपि यो देवः सोऽप्यवर्षदसृक्तदा ॥
मम्लुर्माल्यानि देवानां शोमुस्तेजांसि चैव ह ।
उत्पातमेघा रौद्राश्च ववृषुः शोणितं बहु ॥
रजांसि मुकुटांश्चैषामुत्थितानि प्रधर्षयन् ।
ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः ।
उत्पातान्दारुणान्पश्यन् इत्युवाच बृहस्पतिम् ॥
किमिदं भगवन् घोरा महोत्पाताः समुत्थिताः ।
न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत् ॥
बृहस्पतिः-
तवापराधाद्देवेश प्रमादाच्च शतक्रतो ।
तपसा वालखिल्यानां भूतमुत्पन्नमद्भुतम् ॥
काश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः ।
हर्तुं सोममनुप्राप्तो बलवान्कामरूपवान् ॥
समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहङ्गमः ।
सर्वं सम्भावयाम्यस्मिन् असाध्यमपि साधयेत् ॥
सूतः-
श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः ।
महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः ॥
युष्मान्सम्बोधयाम्येष यथा न स हरेद्बलात्।
अतुलं हि बलं तस्य बृहस्पतिरुवाच मे ॥
सूतः-
तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः ।
परिवार्यामृतं तस्थूर् वज्री चेन्द्रः शतक्रतुः ॥
धारयन्तो महार्हाणि कावचानि मनस्विनः ।
काच्चनानि विचित्राणि वैदूर्यविकृतानि च ॥
विविधानि च शस्त्राणि घोररूपाण्यनेकशः ॥
शततीक्ष्णाग्रधाराणि समुद्यम्य सहस्रशः ।
सविष्फुलिङ्गज्वालानि सधूमानि च सर्वशः ॥
चक्राणि परघांश्चैव त्रिशूलानि परश्वधान् ।
शक्तीश्च विमलास्तीक्ष्णाः करवालांश्च निर्मलान् ।
स्वदेहरूपाश्चादाय गदाश्चोग्रप्रदर्शनाः ॥
तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः ।
भानुमन्तः सुरगणास् तस्थुर्विगतकल्मषाः ॥
अनुपमबलवीर्यतेजसो धृतमनसः परिरक्षणेऽमृतस्य ।
असुरपुरविदारणाः सुरास्ते ज्वलनसमिद्धवपुःप्रकाशिनश्च ॥
इति समरपरैः सुरैर्वृतं तत् परिघसहस्रशतैः समाकुलम् ।
विगलिखितमिव चाम्बरान्तरं तपनमरीचिविभावितं बभासे ॥ ॥