सूतः-
तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया ।
दहन्दीप्त इवाङ्गारस् तमुवाचान्तरिक्षगः ॥
द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात् ।
न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा ॥
ब्रुवाणमेवं गरुडं ब्राह्मणः प्रत्यभाषत ।
निषादी मम भार्येयं निर्गच्छतु मया सह ॥
गरुडः-
एतामपि निषादीं त्वं परिगृह्याशु निष्पत ।
तूर्णं सम्भावयात्मानमजीर्णं मम तेजसा ॥
सूतः-
निश्चक्राम ततो विप्रो निषादीसहितस्तदा ।
वर्धयित्वा च गरुडमिष्टं देशं जगाम ह ॥
सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट् ।
वितत्य पक्षावाकाशमुत्पपात मनोजवः ।
ततोऽपश्यत्स पितरं पृष्टश्चाख्यातवान्पितुः ॥
अहं हि सर्पैः प्रहितः सोममाहर्तुमुत्तमम् ।
मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै ॥
मात्रा चापि समादिष्टो निषादान्भक्षयेति वै ।
न च मे तृप्तिरभवद् भक्षयित्वा सहस्रशः ॥
तस्माद्भोक्तव्यमपरं भगवन्प्रदिशस्व मे ।
यद्भुक्त्वाऽमृतमाहर्तुं समर्थः स्यामहं प्रभो ॥
काश्यपः-
आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम् ॥
भ्राता तस्यानुजश्चासीत् सुप्रतीको महातपाः ।
स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः ।
विभागं कीर्तयत्येव सुप्रतीकः स नित्यशः ।
अथाब्रवीत्स तं भ्राता सुप्रतीकं विभावसुः ।
विभागे बहवो दोषा भविष्यन्ति महातपः ॥
विभागं बहवो मोहात् कृतमिच्छन्ति नित्यशः ।
ततो विभक्ताश्चान्योन्यं नाद्रियन्तेऽर्थमोहिताः ॥
ततः स्वार्थपरान्मूढान् पृथग्भूतान्स्वकैर्जनैः ।
विदित्वा भेदयन्त्येनान् अमित्रा मित्ररूपिणः ॥
विदिर्णाश्चापरे भिन्ना नरकेषु पतन्त्यधः ।
भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते ॥
तस्माच्चैव विभागार्थं न प्रशंसन्ति पण्डिताः ।
एवमुक्तः सुप्रतीको भागं कीर्तयतेऽनिशम् ॥
एवं निर्बध्यमानस्तु शशापैनं विभावसुः।
गुरुशास्त्रेण बद्धानामन्योन्यमभिशङ्किनाम् ॥
तेषां मध्ये त्वमप्येकश् छद्मकृच्च महात्मभिः ॥
निहन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि ।
यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि ॥
शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत् ।
त्वमप्यन्तर्जलचरः कच्छपः सम्भविष्यसि ॥
एवमन्योन्यशापात्तौ सुप्रतीकविभावसू ।
गजकच्छपतां प्राप्तौ धनार्थं मूढचेतसौ ॥
रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि ।
परस्परं दोषरतौ प्रमाणबलदर्पितौ ॥
सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ ।
तयोरेकः सरः श्रीमान् समुपैति महागजः ॥
यस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेचरः ।
उत्थितोऽसौ महाकायः कृत्स्नं सङ्क्षोभयन्सरः ॥
यं दृष्ट्वाऽऽवेष्टितकरः पतत्येष गजो बली ।
दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान् ॥
तं विक्षोभयमाणं तु सरो बहुझषाकुलम् ।
स कूर्मोऽप्युन्नतशिरा युद्धायाभ्येति वीर्यवान् ॥
षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः ।
कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः ॥
तावेतौ युद्धसम्मत्तौ परस्परजयौषिणौ ।
उपभुक्त्वा कर्मगजौ साधयेप्सितमात्मनः ॥
सूतः-
स तच्छ्रुत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः ।
करेण गजमेकेन कूर्ममेकेन चाक्षिपत् ॥
समुत्पपात चाकाशं तत उच्चैर्विहङ्गमः ।
स लम्बतीर्थमासाद्य देववृक्षानुपागमत् ॥
ते भीताः समकम्पन्त तस्य पक्षानिलाहताः ।
न नो भञ्जेदिति तदा दिव्याः कनकशाखिनः ॥
प्रचलाङ्गांस्तदा दृष्ट्वा मनोहरफलाङ्कुरान् ।
अन्यानतुलरूपाङ्गान् उपचक्राम खेचरः ॥
सागराम्बुपरिक्षिप्तान् भ्राजमानान्महाद्रुमान् ॥
राजतैः काञ्चनैश्चैव फलैर्वैदूर्यशाखिनः ।
तमुवाच खगश्रेष्ठं तत्र रोचनपादपः ।
अतिप्रवृद्धः समुहान् आपतन्तं मनोजवम् ॥
रोचनः-
एषा मम महाशाखा शतयोजनमायता ।
तां ममास्थाय शाखां त्वं खादेमौ गजकच्छपौ ॥
ततो द्रुमं पतगसहस्रसेवितं महीधरप्रतिमवपुः प्रकम्पयन् ।
खगोत्तमो द्रुतमभिगम्य वेगवान् बभञ्ज तामविरलपत्रसंवृताम् ॥ ॥