सूतः-
सुपर्णेनोह्यमानास्ते जग्मुस्तं देशमाशु वै ।
सागराम्बुपरिक्षिप्तं पक्षिसङ्घविनादितम् ॥
विचित्रफलपुष्पाभिर् वनराजिभिरावृतम् ।
भवनैश्चावृतं दिव्यैस् तथा पद्माकरैरपि ॥
प्रसन्नसलिलैश्चापि ह्वदैश्चित्रैर्विभूषितम् ।
दिव्यगन्धवहैः पुण्यैर् मारुतैरुपवीजितम् ॥
अजिघ्रद्भिरिवाकाशं वृक्षैर्मलयजैरपि ।
शोभितं पुष्पवर्षैश्च मुञ्चद्भिर्मारुतेरितैः ॥
किरद्भिरिव नागेन्द्रांस्तत्र तान् पुष्पवृष्टिभिः ।
मनःसंहर्षजं दिव्यं गन्धर्वाप्सरसां प्रियम् ॥
नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम् ।
तत्ते वनं समासाद्य विजह्रुः पन्नगा मुदा ।
अब्रुवंश्च महावीर्यं सुपर्णं पन्नगोत्तमाः ॥
वहास्मानपरं दिव्यं सुरम्यं विपुलोदकम् ।
त्वं हि देशान्बहून्रम्यान् पतन्पश्यसि खेचर ॥
स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा ।
किं कारणं मया मातः कर्तव्यं सर्पभाषितम् ॥
विनता-
दासीभूतास्म्यनार्याया भगिन्याः पतगोत्तम ।
पणं वितथमास्थाय सर्पैरुपधिना कृतम् ॥
सूतः-
तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः ।
उवाच वचनं सर्पान् तेन दुःखेन दुःखितः ॥
गरुडः-
किं वाऽऽहृत्य वितीर्याहं किंवा कृत्वेह पौरुषम् ।
दास्याद्वा विप्रमुच्येयं तथ्यं शंसत लेलिहाः ॥।
श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा ।
तदा दास्याद्विप्रमोक्षो भविता तव खेचर ॥
सूतः-
इत्युक्तो गरुडः सर्पैस् ततो मातरमब्रवीत् ।
गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम् ॥
विनता-
समुद्रकुक्षावेकान्ते निषादालयमुत्तमम् ।
सहस्राणामनेकानां तान्भुक्त्वाऽमृतमानय ॥
न तु ते ब्राह्मणान् हन्तुं कार्या बुद्धिः कथञ्चन ।
अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः ॥
अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः ।
भूतानामग्रभूग्विप्रो वर्णश्रेष्ठस्तथा गुरुः ॥
वैनतेय-
यथाहमनुजानीयां ब्राह्मणं लक्षणैः शुभैः ।
तन्मे कारणतो मातर् वक्तुमर्हसि पृच्छतः ॥
विनता-
यस्ते कण्ठबिलं प्राप्तो निगीर्णं बडिशं यथा ॥
दहेदङ्गारवत्पुत्रं तं विद्याद्ब्राह्मणर्षभम् ।
सूतः-
प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः ।
जानन्त्यप्यतुलं वीर्यमाशीर्वादसमन्वितम् ॥
पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक ।
शिरस्तु पातु ते वह्निर् भास्करः सर्वमेव तु ॥
अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा ।
अरिष्टं व्रज पन्थानं वत्स कार्यार्थसिद्धये ॥
सूतः-
ततः स मातुर्वचनं निशम्य वितत्य पक्षौ नभ उत्पपात ।
ततो निषादान्बलवानुपागमत् बुभुक्षितः काल इवान्तकोपमः ॥
ततो निषादानुपसंहरंस्तदा रजः समुद्धूय नभस्स्पृशं महत् ।
समुद्रकुक्षौ च विशोषयन्पयः समीपगान्भूमिधरान्विचालयन् ॥
ततः स चक्रे महदाननं तदा निषादमार्गान् प्रतिरुध्य पक्षिराट् ।
ततो निषादास्त्वरितं प्रजग्मुर् यतो मुखं तस्य भुजङ्गभोजिनः ॥
तदाननं विवृतमतिप्रमाणवत् समभ्ययुर्गगनमिवार्दिताः खगाः ।
सहस्रशः पवनरजोऽभ्रमोहिता महानिलप्रचलितपादपे वने ॥
ततः खगो वदनममित्रतापनः समाहरत्परिचपलो महाबलः ।
निषूदयन्बहुविधमत्स्यभक्षिणो बभुक्षितो गगनचरेश्वरस्तदा ॥ ॥