सूत-
एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः ।
नीलजीमूतसङ्घातैः व्योम सर्वं समावृणोत् ॥
मेघानाज्ञापयामास वर्षध्वमुदकं शुभम् ।
ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः ॥
परस्परमिवात्यन्तं गर्जन्तः सततं दिवि ।
अद्रिसङ्घमिवाकाशं जलदैस्तु महाद्भुतैः ॥
सृजद्भिरतुलं तोयमसक्तं सुमहारवैः ।
सम्प्रवृत्तमिवाकाशं धारोर्मिभिरनेकशः ॥
मेघस्तनितनिर्घोषमम्बरं समपद्यत ।
नागानामुत्तमो हर्षस् तथा वर्षति वासवे ।
आपूर्यत मही चापि सलिलेन समन्ततः ॥