सूतः
ततः कामगमः पक्षी महावीर्यो महाबलः।
अरुणं चात्मनः पृष्ठमुपारोप्य पितुर्गृहात् ॥
मातुरन्तिकमागच्छत् परं तीरं महोदधेः ।
यत्र सा विनता तस्मिन् पणिते वै पराजिता।
अतीव दुःखसन्तप्ता दासभावमुपागता॥
ततः कदाचिद्विनतां प्रवणां पुत्रसन्निधौ।
काल आहूय वचनं कद्रूरिदमभाषत॥
नागानामालयं भद्रे सुरम्यं रमणीयकम्।
समुद्रकुक्षावेकान्ते तत्र मां विनते वह॥
ततः सुपर्णमाता तां आवहत्सर्पमातरम्।
पन्नगान्गरुडश्चापि मातुर्वचनचोदितः॥
स सूर्यमभितोऽगच्छद् वैनतेयो विहङ्गमः।
सूर्यरश्मिपरीताश्च मूर्च्छिताः पन्नगाऽभवन्॥
तदवस्थान्सुतान्दृष्ट्वा कद्गूः शक्रमथास्तुवत्॥
कद्रूः-
नमस्ते देवदेवेश नमस्ते बलसूदन।
नमुचिन्न नमस्तेऽस्तु सहस्राक्ष शचीपते॥
सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव।
त्वमेव परमं त्राणमस्माकममरोत्तम॥
ईशो ह्यसि पयः स्रष्टुं त्वं ह्यनल्पं पुरन्दर।
त्वमेव मेघस्त्वं वायुस् त्वमग्निर्विद्युतोऽम्बरे॥
त्वमभ्रघनिविक्षेप्ता त्वामेवाहुर्धनं पुनः॥
त्वं वज्रमतुलं घोरं घोषवांस्त्वं वलाहकः।
स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः॥
त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः।
त्वं महाभूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः॥
त्वं विष्णुस्त्वं सहस्राक्षस् त्वं देवस्त्वं परायणम्।
त्वं सर्वममृतं देव त्वं सोमः परमार्चितः॥
त्वं मुहूर्तस्तिथिस्त्वं च त्वं लवस्त्वं परः क्षणः।
शुक्लस्त्वं बहुलश्चैव कलाः काष्ठा तथा त्रुटिः॥
त्वमुत्तमस्सगिरिवना वसुन्धरा सभास्करं वितिमिरमम्बरं तथा।
मदोदधिः सतिमितिमिङ्गिलस्तथा महोर्मिमान्बहुमकरो झषाकुलः॥
महाद्यशस्त्वमिति सदाऽभिपूज्यसे मनीषिभिर्मुदितहतदम्बुजे विभो।
अभिष्टुतः पिबसि च सोममध्वरे वषट्कृतान्यपि च हवींषि हूयते॥
त्वं विप्रैः सततमिहेज्यसे फलार्थं वेदान्तेष्वतुलबलौघ गीयसे त्वम्।
त्वद्धेतोर्यजनपरायणां द्विजेन्द्रा वेदान्तन्यभिगमयन्ति सर्ववेदैः॥॥