सूतः
तं समुद्रमतिक्रम्य कद्रूर्विनतया सह।
न्यपतत्तुरगाभ्याशे नचिरादिव शीघ्रगा॥
निशाम्य च बहून्वालान् कृष्णान्पुच्छमुपाश्रितान्।
विषण्णवदनां कद्रूर् नतां दास्ये न्ययोजयत्॥
ततः सा विनता तस्मिन् पणिते वै पराजिता।
अभवद्दुःखसन्तप्ता दासीभावे नियोजिता॥
एतस्मिन्नन्तरे चैव गरुडः काल आगते।
विना मात्रा महातेजा विदार्याण्डमजायत॥
अग्निराशिरिवोद्भासन् समिद्धोऽतिभयङ्करः।
प्रवृद्धः स महापक्षी महाकायो नभोगतः ॥
तं दृष्ट्वा शरणं जग्मुः प्रजाः सर्वा विभावसुम्।
प्रणिपत्याव्रुबंश्चैनं आसीनं विश्वरूपिणम्॥
मा त्वमग्ने प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि।
असौ हि राशिः सुमहान् समिद्धस्तव सर्पति॥
अग्नि-
नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः।
गरुडो बलवानेष मम तुल्यः स्वतेजसा॥
सूत-
एवमुक्तास्तदा देवा गरुडं वाग्भिरस्तुवन्।
अदूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा॥
देवाः-
त्वमृषिस्त्वं महाभागस् त्वं देवः पतगेश्वरः।
त्वं प्रभुस्तपनप्रख्यः परमेष्ठी प्रजापतिः॥
त्वमिन्द्रस्त्वं हयमुखस् त्वं शर्वस्त्वं जगत्पतिः।
त्वं मुखं पद्मजो विप्रस् त्वमग्निः पवनस्तथा॥
त्वं विधाता च धाता च त्वं विष्णुः सुरसत्तमः।
त्वं महानभिभूः शश्वद् अमृतं त्वं महद्यशः॥
त्वं प्रभास्त्वमभिप्रेतस् त्वं नस्त्राणमनुत्तमम्।
त्वं गतिः सततं भक्तान् कथं नः प्राप्नुयाद्भयम्॥
बलोत्तमः साधुरदीनसत्त्वः समृद्धिमान्दुष्प्रसहस्त्वमेव।
तव श्रुतं सर्वमहीनकीर्तेर् अनागतं चोपगतं च सर्वम्॥
त्वमुत्तमः सर्वमिदं चराचरं गभस्तिभिर्भासि दिवाकरो यथा।
समाक्षिपन्भानुमतः प्रभां मुहुस् त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम्॥
दिवाकरः परिकुपितो यथा दहेत् प्रजास्तथा दहसि हुताशनप्रभ।
भयङ्करः प्रलय इवाग्निरुत्थितो विनाशयन् युगपरिवर्तनान्तकृत्॥
खगेश्वरं शरणमुपस्थिता वयं महौजसं वितिमिरमभ्रगोचरम्।
महाबलं गरुडमुपेत्य खेचरं परावरं वरदमजेयविक्रमम्॥
सूतः-
एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा।
तेजसः प्रतिसंहारमात्मनस्तु चकार ह॥॥