सूतः-
ततो रजन्यां व्युष्टायां प्रभात उदिते रवौ।
कद्रूश्च विनता चैव भगिन्यौ ते तपोधन॥
अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा।
जग्मतुस्तुरगं द्रष्टुं उच्चैश्श्रवसमन्तिकात्।
ददृशाते उभे तत्र समुद्रं निधिमम्भसाम्॥
तिमिङ्गिलझषाकीर्णं मकरैरावृतं तथा।
सत्वैश्च बहुसाहस्रैर् नानारूपैः समावृतम्॥
उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम्।
आकरं सर्वरत्नानामालयं वरुणस्य च ॥
नागानामालयं रम्यमुत्तमं सरितां पतिम्।
पातालज्वलनावासमसुराणां च बान्धवम्॥
भयङ्कराणां सत्त्वानां पयसां निधिमद्भुतम्॥
शुभ्रं दिव्यममर्त्यानाममृतस्याकरं परम्।
अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम्॥
घोरं जलचराकीर्णं रौद्रं भैरवनिस्वनम्।
गम्भीरावर्तसलिलं सर्वभूतभयङ्करम्॥
वेलालोलानिलबलक्षोभवेगसमुत्थितैः।
वीचीहस्तैः प्रचलितैर् नृत्यन्तमिव सर्वतः॥
चन्द्रवृद्धिक्षयवशाद् उत्थितोर्मि दुरासदम्।
पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम्॥
गां विन्दता भगवता गोविन्देनामितौजसा।
वराहरूपिणा चान्तर् विक्षोभितजलाविलम्॥
ब्रह्मर्षिणा च तपता वर्षाणां शतमत्रिणा।
अनासादितगाधं च पातालतलमव्ययम्॥
अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः।
युगान्तकालशयनं विष्णोरमिततेजसः॥
बडवामुखदीप्ताग्नेस् तोयहव्यप्रदं शुभम्।
अगाधतलविस्तीर्णमप्रमेयं सरित्पतिम्॥
महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः।
अभिसार्यमाणमनिशं तत्र तत्र समन्ततः॥
गम्भीरं तिमिमकरोग्रसङ्कुलं तं गर्जन्तं जलचररावनादितैस्तैः।
विस्तीर्णं ददृशतुरम्बरप्रकाशं तेऽगाधं निधिमुरुमम्भसामपारम्॥
इत्येवं झषमकरोर्मिसङ्कुलं तं गम्भीरं विकसितमम्बरप्रकाशम् ।
पातालज्वलनशिखाविदीपितान्तं पश्यन्तौ द्रुतममिपेततुस्तदानीम् ॥