सूतः-
एतत्ते सर्वमाख्यातममृतं मथितं यथा।
यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः॥
तं निशम्य तदा कद्रूर् विनतामिदमब्रवीत्।
उच्चैःश्रवास्तु किंवर्णो जानीहि ब्रूहि मा चिरम्॥
विनता-
श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे।
ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे॥
कद्रूः-
कृष्णवालमहं मन्ये हयमेतं सुमध्यते।
एहि सार्धं मया पश्य दासभावाय भामिनि॥
सूतः-
एवं तु समयं कृत्वा दासभावाय ते मिथः।
जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह॥
तत्र पुत्रसहस्रं तत् कद्रूर्जिह्मं चिकीर्षती।
आज्ञापयामास तदा वाला भूत्वाऽञ्जनप्रभाः॥
प्रविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा।
तद्वाक्यं नान्वमन्यन्त ताञ्शशाप भुजङ्गमान्॥
सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति।
जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः॥
शापमेनं तु शुश्राव स्वयमेव पितामहः।
अतिक्रूरं समुद्विष्टं कद्र्वा दैवादतीव हि॥
सार्धं देवगणैः सर्वैर् वचनं चान्वमोदत।
बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया॥
उग्रवीर्यविषा ह्येते दन्दशूका महाबलाः।
तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय वै ।
प्रादाद्विषहणीं विद्यां कश्यपाय महात्मने॥
एवं शप्तेषु नागेषु कद्र्वा च द्विजसत्तम।
उद्विग्नः शापतस्तस्याः कद्रूं कर्कोटकोऽब्रवीत्॥
मातरं परमप्रीतस् तथा भुजगसत्तमः।
आविश्य वाजिनं मुख्यं वालो भूत्वाऽञ्जनप्रभः॥
दर्शयिष्यामि तत्राहमात्मानं काममाश्वस।
एवमस्त्विति सा पुत्रं प्रत्युवाच यशस्विनी॥॥