सूत-
अथावरणमुख्यानि नानाप्रहरणानि च।
प्रगृह्याभ्यद्रवन्देवान् सहिता दैत्यदानवाः॥
ततस्तदमृतं देवो विष्णुरादाय वीर्यवान्।
जगाम दानवेन्द्रेभ्यो नरेण सहितः प्रभुः॥
ततो देवगणाः सर्वे पपुस्तदमृतं तदा।
विष्णोः सकाशात्सम्प्राप्य सम्भ्रमे तुमुले सति॥
पाययत्यमृतं देवान् हरौ बाहुबलेन च।
निरोधयति चापेन दूरीकृत्य धनुर्धरान्।
ततः पिबत्सु तत्काले देवेष्वमृतमुत्तमम्।
राहुर्विबुधरूपेण दानवः प्रापिबत्तदा॥
तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा।
आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया॥
ततो भगवता तस्य शिरश्छिन्नमलङ्कृतम्।
चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा॥
तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत्।
चक्रेणोत्कृत्तमपतच् चालयद्वसुधातलम्॥
ततो वैरविनिर्बद्धः कृतो राहुर्मुखेन वै।
शाश्वतश्चन्द्रसूर्याभ्यां ग्रसतेऽद्यापि चैव तौ॥
विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः।
नानाप्रहरणै दीप्तैर् दानवान्समकम्पयत्॥
ततः प्रवृत्तः सङ्ग्रामः समीपे लवणाम्भसः।
सुराणामसुराणां च स सुघोरतरो महान्॥
प्रासास्सुविपुलास्तीक्ष्णा न्यपतन्त सहस्रशः।
तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च॥
ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु।
असिशक्तिगदारुग्णा निपेतुर्धरणीतले॥
छिन्नानि पट्टिशैश्चापि शिरांसि युधि दारुणैः।
तप्तकाञ्चनमाल्यानि निपेतुरनिशं तदा॥
रुधिरेणानुलिप्ताङ्गा निहताश्च महासुराः।
अद्रीणामिव कूटानि धातुरक्तानि शेरते॥
ततो हलहलाशब्दः सम्बभूव समन्ततः ।
हाहाकारः सम्बभूव तत्र तत्र समन्ततः॥
अन्योन्यं छिन्दतां शस्त्रैर् आदित्ये लोहितायति।
परिघैश्चायसैः पीनैस् सन्निकृष्टे च मुष्टिभिः॥
निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत्।
छिन्धि भिन्धि प्रधाव त्वं पातयाभिसरेति च॥
व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः।
एवं सुतुमुले युद्धे वर्तमाने भयावहे॥
नरनारायणौ देवौ समाजग्मतुराहवम्।
तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि।
चिन्तयामास तच्चक्रं विष्णुर्दानवसूदनम्॥
ततोऽम्बराच्चिन्तितमात्रमागतं महाप्रभं चक्रममित्रतापनम्।
विभावसोस्तुल्यमकुण्ठमण्डलं सुदर्शनं भीममजेयमुत्तमम्॥
तदागतं ज्वलितहुताशनप्रभं भयङ्करं करिकरबाहुरच्युतः।
मुमोच वै विपुलमुदग्रतेजवन् महाप्रभं परनगरावदारणम्॥
तदन्तकं ज्वलितहुताशनप्रभं पुनःपुनर्न्यपतत वेगवत्तदा।
व्यदारयद्दितिदनुजान्सहस्रशः करेरितं पुरुषवरेण संयुगे॥
दहत्क्कचिज्ज्वलन इवावलेलिहत् प्रसह्य तानसुरगणान्न्यकृन्तत।
प्रचोदितं वियति मुहुः क्षितौ तदा पपौ रणे रुधिरमथो पिशाचवत्॥
अथासुरा गिरिभिरदीनमानसा मुहुर्मुहुः सुरगणमर्दयंस्तदा।
महाबला विगलितमेघवर्चसः सहस्रशो गगनमभिप्रविश्य ते॥
अथाम्बराद्भयजननाः प्रपेदिरे सपादपा बहुविधा मेघरूपिणः।
महाद्रयः पविगलिताग्रसानवः परस्परं द्रुतमभिहत्य सस्वनाः॥
ततो धरा प्रविचलिता सकानना महाद्रिपाताभिहता समन्ततः।
परस्परं भृशमभिगर्जतां मुहू रणाजिरे ध्वनिरनिशं प्रवर्तते॥
नरस्ततो वरकनकाग्रभूषणैर् महेषुभिः पवनपथं समावृणोत्।
विदारयन्गिरिशिखराणि पत्रिभिर् महाभयेऽसुरगणविग्रहे तदा॥
ततो महीं लवणजलं च सागरं महासुराः प्रविविशुरर्दिताः शरैः।
वियद्गतं ज्वलितहुताशनप्रभं सुदर्शनं परिकुपितं निशाम्य च॥
ततः सुरैर्विजयमवाप्य मन्दरः स्वमेव देशं गमितः सुपूजितः।
विनाद्य खं दिवमपि चैव सर्वशस्ततो गताः सलिलधरा यथागतम्॥
ततोऽमृतं सुनिहितमेव चक्रिरे सुराः पुरां मुदमधिगम्य पुष्कलाम्।
ददुश्च तं निधिममृतस्य रक्षितुं किरीटिने बलिभिरथामरैः सह॥॥