सूतः-
ततोऽभ्रशिखराकारैर् गिरिशृङ्गैरलंकृतम्।
मन्दरं पर्वतवरं लताजालसमावृतम्॥
नानाविहङ्गसङ्घुष्टं नानाव्यालसमाकुलम्।
किन्नरैरप्सरोभिश्च देवैरपि च शोभितम्॥
एकादश सहस्राणि योजनानां समुच्छ्रितम्।
अधोभूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम्॥
समुद्धर्तुं न शक्ता वै सर्वे देवगणास्तदा।
विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन्॥
भवन्तावत्र कुरुतां बुद्धिं नैश्श्रेयसीं पराम्।
मन्दरोद्धरणे यत्नः क्रियतां तु हिताय नः॥
तथेति चाब्रवीद्विष्णुर् ब्रह्मणा सह भार्गव।
अचोदयदमेयात्मा फणीन्द्रं पद्मलोचनः॥
ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः।
नारायणेन चाप्युक्तस् तस्मिन्कर्मणि वीर्यवान्॥
अथ पर्वतराजानं तमनन्तो महाबलः।
उज्जहार बलाद्ब्रह्मन् सवनं सवनौकसम्॥
ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे।
तमूचुरमृतार्थे वै निर्मथिष्यामते जलम्॥
अपाम्पतिरथोवाच ममाप्यंशो भवेत्ततः।
सोढाऽस्मि विपुलं मर्दं मन्दरभ्रमणादिह॥
ऊचुश्च कूर्मराजानं अकूपारे सुरासुराः।
गिरेरधिष्ठानमस्य भवान्भवितुमर्हति॥
कूर्मेण तु तथेत्युक्ते पृष्ठे तस्य समर्पितः।
स शैलंस्तस्य चाग्रं वै वज्रेणेन्द्रोऽप्यपीडयत्॥
मन्थानं मन्दरं कृत्वा ततो योक्रं च वासुकिम्।
देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम्।
अमृतार्थं पुरा ब्रह्मन् सहिता दैत्यदानवै॥
एकमञ्चमुपाश्लिष्टा नागराज्ञो महाबलाः॥
विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः।
वासुकेरग्रमाश्लिष्टा नागराज्ञो महासुराः॥
शिर उद्यम्य नागस्य पुनः पुनरवाक्षिपन्।
अनन्तो भगवान्देवो यतो नारायणः स्थितः ॥
वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः।
सधूमाश्चार्चिषो बह्नेर् निष्पेतुरसकृन्मुखात्॥
वासुकेर्मथ्यमानस्य निस्सृतेन विषेण च।
अभवन्मिश्रितं तोयं तदा भार्गवनन्दन॥
मथनान्मन्दरेणाथ देवदानवबाहुभिः।
विषं तीक्ष्णं समुद्भूतं हालाहलमिति श्रुतम्॥
देवाश्च दानवाश्चैव दग्धास्तेन विषेण ह।
अपाक्रामंस्ततो भीत्या विषादमगमंस्तदा॥
ब्रह्माणमब्रुवन्देवाः समेत्य मुनिपुङ्गवैः।
मथ्यमानेऽमृते जातं विषं कालानलप्रभम्॥
तेनैव तापिता लोकास् तत्र प्रतिकुरुष्व ह।
एवमुक्तस्तदा ब्रह्मा दध्यौ लोकेश्वरं हरम्॥
त्र्यक्षं त्रिशूलिनं रुद्रं देवदेवमुमापतिम्।
तदाऽथ चिन्तितो देवस् तज्ज्ञात्वा द्रुतमाययौ॥
तस्याथ देवस्तत्सर्वं आचचक्षे प्रजापतिः।
तच्छ्रुत्वा दवेदेवेशो लोकस्यास्य हितेप्सया॥
अपिबत्तद्विषं रुद्रः कालानलसमप्रभम्।
कण्ठे निहितवान्देवो देवानां हितकाम्यया॥
यस्मात्तु नीलता कण्ठे नीलकण्ठस्ततः स्मृतः।
पीतमात्रे विषे तत्र रुद्रेणामिततेजसा॥
देवाः प्रीताः पुनर्जग्मुश् चक्रुर्वै कर्म तत्तथा।
मथ्यमानेऽमृतस्यार्थे भूयो वै देवदानवैः॥
वासुकेरथ नागस्य सहसा क्षिप्यतस्तु तै।
सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्॥
ते धूमसङ्घास्सम्भूताः महामेघाः सविद्युतः।
अभ्यवर्षन्सुरगणाञ् श्रमसन्तापकर्शितान्॥
तस्माच्च गिरिकूटाग्रात् प्रच्युताः पुष्पवृष्टयः।
ततः सुरगणान्माल्यैः सर्वतः समवाकिरन्॥
धूमो बभूवात्र महान् घोषो मेघरवोपमः।
उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः॥
तत्र नानाजलचरा विनिर्धूता महाद्रिणा।
विलयं समुपाजग्मुः शतशो लवणाम्भसि॥
वारुणानि च भूतानि विविधानि महीधरः।
पातालतलवासीनि विलयं समुपानयत्॥
तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम्।
न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः॥
तेषां सङ्घर्षजश्चाग्निर् अर्चिर्भिः प्रज्वलन्बहुः।
विद्युद्भिरिव नीलाभ्रं आवृणोन्मन्दरं गिरिम्॥
ददाह कुञ्जरांश्चैव सिंहांश्चान्यान् सहस्रशः।
विगतासूनि सत्वानि सर्वाणि विविधानि च॥
तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः।
वारिणा मेघजेनेन्द्रः शमयामास सर्वतः॥
ततो नानारसास्तत्र सुस्रुवुः सागराम्भसि।
ततो द्रुमाणां निर्यासा बहवश्चौषधीरसाः॥
तेषाममृतवीर्याणां रसानां तेजसैव च।
अमरत्वं सुरा जग्मुः काञ्चनस्य च निस्स्रवात्॥
अथ तस्य समुद्रस्य सञ्जातमुदकं पयः।
रसोत्तरैर्विमिश्रं च ततः क्षीरादभूद्धृतम्॥
ततो ब्रह्माणमासीनं देवा वरदमब्रुवन्।
श्रान्ताः स्म सुभृशं ब्रह्मन् नोद्भवत्यमृतं च तत्॥
ऋते नारायणं देवं दैत्या नागोत्तमास्तथा।
चिरारब्धमिदं चापि सागरस्यापि मन्थनम्॥
ततो नारायणं देवं ब्रह्मा वचनमब्रवीत्।
विधत्स्वैषां बलं विष्णो भवानत्र परायणम्॥
श्रीभगवान् ।
बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः।
क्षोभ्यतां कलशः सर्वैर् मन्दरः परिवर्त्यताम्॥
सूत-
नारायणवचः श्रुत्वा बलिनस्ते महोदधेः।
तत्पयः सहिता भूयश् चक्रिरे भृशमाकुलम्।
तत्र पूर्वं विषं जातं तद्ब्रह्मवचनाच्छिवः॥
प्राग्रसल्लोकरक्षार्थं ततो ज्येष्ठा समुत्थिता।
कृष्णम्बरधरा देवी सर्वाभरणभूषिता॥
ततः शतसहस्रांशुसमानइव सागरात्।
प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः॥
श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी।
सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा॥
कौस्तुभश्च मणिर्दिव्य उत्पन्नोऽमृतसम्भवः।
मरीचिविकचः श्रीमान् स च नारायणं गतः॥
पारिजातश्च तत्रैव सुरभिश्च महामुने।
जातौ तौ च महाब्रह्मन् सर्वकामफलप्रदौ॥
ततो जज्ञे महाकायश्चतुर्दन्तो महागजः।
विषं ज्येष्ठा च सोमश्च श्रीः सुरा तुरगस्था ॥
कपिला कामवृक्षश्च कौस्तुभश्च महागजः।
यतो देवास्ततो जग्मुर् आदित्यपथमाश्रिताः॥
धन्वन्तरिस्तदाव देवो वपुष्मानुदतिष्ठत।
श्वेतं कमण्डलुं बिभ्रद अमृतं यत्र तिष्ठति॥
एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः।
अमृतार्थे महान्नादो ममेदमिति जल्पताम्॥
ततो नारायणो मायां आस्थितो मोहिनीं प्रभुः।
स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः॥
ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः।
स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः॥
सा तु नारायणी माया धारयन्ती कमण्डलुम्।
आस्यमानेषु देवेषु पङ्क्त्या च सह दानवैः॥
देवानपाययद्देवी न दैत्यांस्ते च चुक्रुशुः॥॥